Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 496
________________ नयमीमांसा | ४३७ तिरेकेण प्रतिनियतयोग्यताया अभावः कृतकत्वेऽपि प्रतिनियतयोग्यतावतां भावानामुपलब्धेः । तथाहि — यत्र लोहत्वं छेदिकाशक्तिस्तत्रैव क्रियमाणा दृष्टा न जलादौ यत्रैव तन्तुत्वमस्ति तत्रैव निष्पाद्यते पटोत्पादनशक्तिर्न तु वीरणादौ तत्र तन्तुत्वाभावात् एवं च यत् यथोपलभ्यते तत् तथैवाभ्युपगन्तव्यम् दृष्टाऽनुमितानां नियोग-प्रतिषेधानुपपत्तेः । तेन यत्रैव वर्णत्वादिकं निमित्तं तत्रैव वाचिका शक्तिः सङ्केतेनोत्पाद्यते यत्र तु तन्नियतं निमित्तं नास्ति तत्र न वाचिका शक्तिरिति ५ न 'नित्यवाच्यवाचकसम्बन्धपरिकल्पनया प्रयोजनम् । एकान्तनित्यस्य तु ज्ञानजनकत्वे सर्वदा ज्ञानोत्पत्तिः । तदजननस्वभावत्वे न कदाचिद् विज्ञानोत्पत्तिरिति प्राक् प्रतिपादितम् । समयबलेन तु शब्दाद् अर्थप्रतिपत्तौ यथासङ्केतं विशिष्टसामग्रीतः कार्योत्पत्तौ न कश्चिद् दोषः । [ अनुमानात् शब्दस्य प्रमाणान्तरत्वप्रसाधनम् ] अत एवानुमानात् प्रमाणान्तरं शाब्दम् अनुमानं हि पक्षधर्मत्वान्वयव्यतिरेकवल्लिङ्गबलादुद- १० यमासादयति, शाब्दं तु सङ्केतसव्यपेक्षशब्दोपलम्भात् प्रत्यक्षानुमानाऽगोचरेऽर्थे प्रवर्त्तते । स्वसाध्याव्यभिचारित्वमप्यनुमानस्य त्रिरूपलिङ्गोद्भूतत्वेनैव निश्चीयते शाब्दस्य त्वातो त्वनिश्चये सति शब्दस्योत्तरकालमिति । किञ्च, शब्दो यत्र यत्रार्थे प्रतिपादकत्वेन पुरुषेण प्रयुज्यते तं तमर्थ यथासङ्केतं प्रतिपादयति, न त्वेवं धूमादिकं लिङ्गं पुरुषेच्छावशेन जलादिकं प्रतिपादयतीत्यनुमानात् प्रमाणान्तरं सिद्धः शब्दः । न च शब्दाद् अर्थप्रतिपत्तौ शब्दस्य त्रैरूप्यमस्ति यतो न तस्य पक्षधर्मता १५ १ नित्यत्वाद्वाच्य भां० मां० । २ - त्यत्वस्य भ० मां० । ३ पृ० ४३६ पं० १२ । ४ - ब्दार्थप्र वा० बा० । ५ " अन्तरा तुण्डं निक्षिप्य वदतस्तथागतसुतस्य मतं निरस्यन्नाह" - बृ० ल० टि० । ६ 'शब्दप्रमाणमनुमानप्रमाणान्तर्भावि' इति पक्षं स्वीकुर्वाणस्य वचनमिदम् - " यदपि उच्यते ' शब्दो हि यत्रैव पुरुषेच्छया विनियुज्यते संकीर्त्यते तदेव प्रत्याययति न तथा धूमादयः अतोऽनुमानादू मेदः' तदपि अनैकान्तिकम् ; हस्ताद्यङ्गचेष्टानां लिङ्गानामपि यथेष्टविनियोगेन प्रत्यायकत्वदर्शनात् इत्याह यथेष्टविनियोगेन प्रतीतिर्याऽपि शब्दतः । न धूमादेरितीहापि व्यभिचारोऽङ्गवृत्तिभिः " ॥ इत्यादि । -श्लो० वा० शब्दप० श्लो० १९ पार्थव्या० पृ० ४११ । ७ " तदेवं विषयभेदमुक्त्वा इदानीं त्रैलक्षण्यं निराकुर्वन् पक्षधर्मत्वं निराकरोतितस्मादर्थं विशिष्टस्य न शब्दस्यानुमेयता । कथं च पक्षधर्मत्वं शब्दस्येह निरूप्यते ॥ न क्रियाकर्तृसंबन्धाद् ऋते संबन्धनं क्वचित् । राजा भर्ता मनुष्यस्य तेन राज्ञः स उच्यते ॥ वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताः । देशेऽग्निमति धूमस्य कर्तृत्वं भवनं प्रति ॥ कार्यकारणभावादौ क्रिया सर्वत्र विद्यते । न चानवगताकारः संबन्धोऽस्तीति गम्यते ॥ न चात्यसति संबन्धे षष्ठीतत्पुरुषोऽपि वा । तस्मान्न पक्षधर्मोऽयमिति शक्या निरूपणा ॥ निवृत्तेऽन्यत्र संबन्धे येऽपि तद्विषयात्मना । वदेयुः पक्षधर्मत्वं शब्दस्याऽनुपलब्धिवत् ॥ तैरप्येतन्निरूप्यं तु शब्दस्तद्विषयः कथम् । न तद्देशादिसद्भावो नाऽऽभिमुख्यादि तस्य वा ॥ तस्मादुत्पादयत्येष यतोऽर्थविषया (यां) मतिम् । तेन तद्विषयः शब्द इति धर्मत्वकल्पना ॥ तत्र वाचकतायां च सिद्धायां पक्षधर्मता । न प्रतीत्यङ्गतां गच्छेन्न चैवमनुमानता ॥ गमकत्वाच्च धर्मत्वं धर्मत्वाद् गमको यदि । स्यादन्योन्याश्रयत्वं हि तस्मान्नैषाऽपि कल्पना ॥ इतश्च न पक्षधर्मत्वं शब्दस्य इत्याह न चाऽगृहीतसंबन्धाः स्वरूपव्यतिरेकतः । शब्दं जानन्ति येनात्र पक्षधर्ममतिर्भवेत् ॥ न च स्वरूपमात्रेण धूमादेः पक्षधर्मता । न चापि पूर्वसम्बन्धमपेक्ष्यैषा प्रसज्यते ॥ धूमवानय मित्येवमपूर्वस्यापि जायते । पक्षधर्ममतिस्तेन भिद्येतोत्तरलक्षणात् ॥ न त्वत्र पूर्वसम्बन्धादधिका पक्षधर्मता । न चाऽर्थप्रत्ययात् पूर्वमित्यनङ्गमियं भवेत् ॥ न च धर्मी गृहीतोऽत्र येन तद्धर्मता भवेत् । पर्वतादिर्यथा देशः प्राग्धर्मत्वाऽवधारणात् ॥ यश्चात्र कथ्यते धर्मी प्रमेयोऽस्य स एव नः । न चाऽनवधृते तस्मिंस्तद्धर्मत्वाऽवधारणात् ॥ प्राक् स चेत् पक्षधर्मत्वाद् गृहीतः किं ततः परम् । पक्षधर्मादिभिज्ञतैर्येन स्यादनुमानिता ॥ ५६ स० त०

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516