Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 498
________________ नयमीमांसा । ४३९ पक्षधर्मता दृष्टान्ताभावात् दृष्टान्तदान्तिकभेदे चानुमानप्रवृत्तेः। न च शाब्दं स्वभावलिङ्गजमनुमानम् शब्दस्यार्थस्वभावत्वासिद्धेः आकारभेदात् प्रतिनियतकरणग्राह्यत्वात् वाचकस्वभावत्वाश्च तस्य । नापि कार्यलिङ्गजम् अर्थाभावेऽपीच्छातः शब्दस्योत्पत्तेः। न च न बाह्यार्थविषयत्वेन शब्दस्यानुमानता सौगतैरभ्युपगम्यते अपि तु विवक्षाविषयत्वेनेति वक्तव्यम, यतो यथा न तदर्थों विवक्षा तथा शब्दप्रामाण्यप्रतिपादनेऽभिहितम् न पुनरुच्यते । [परकल्पिता वर्णानां नित्यताम् तत्पदादिप्रक्रियां च प्रदूष्यानेकान्तदृष्ट्या शब्द-तदर्थसम्बन्धयोः __स्वरूपनिरूपणम् ] न च मीमांसकाभिप्रायेण वर्णानां वाचकत्वम् अभिव्यक्तानभिव्यक्तपक्षद्वयेऽपि दोषात् अनभिव्यक्तानां ज्ञानजनकत्वे सर्वपुरुषान् प्रति सर्वे सर्वदा ज्ञानजनकाः स्यः केनचित प्रत्यासत्ति -विप्रकर्षाभावात् अभिव्यक्तानां ज्ञानजनकत्वे एकवर्णाऽऽवरणापाये सर्वेषांसमानदेशत्वेनाऽभिव्य-१० तत्वात् युगपत् सर्वश्रुतिप्रसक्तिरित्युक्तं प्राक । इन्द्रियसंस्कारपक्षेऽपि पूर्वप्रतिपादितमेव दूषणमनुसतव्यम् । किञ्च, यद्यनवगतसम्बन्धा वर्णा अर्थप्रत्यायकास्तदा नालिकेरद्वीपवासिनोऽप्युपलभ्यमाना अर्थावगतिं विदध्युः। अथावगतसम्बन्धाः तथासति पदस्य स्मारकत्वमेव स्यात् न वाचकत्वम् तथा चानधिगतार्थाधिगमहेतुत्वाभावात् न प्रमाणता भवेत् । तदुक्तम् "पदं त्वभ्यधिकाभावात् सारकान्न विशिष्यते । अथाधिक्यं भवेत् "किश्चित् स पदस्य न गोचरः" ॥ [श्लो० वा० शब्दप० श्लो० १०७] इति । तन्न मीमांसकमतेनापि वर्णानां शब्दत्वम् । कथं तर्हि वर्णाः शब्दरूपतां प्रतिपद्यन्ते ? उक्तमत्र परिमितसङ्ख्यानां पुद्गलद्रव्योपादानाऽपरित्यागेनैव परिणतानामश्रावणस्वभावपरित्यागाऽवाप्तश्रावणस्वभावानां विशिष्टानुक्रमयुक्तानां वर्णानां वाचकत्वात् शब्दत्वम् अन्यथोक्तदोषानतिवृत्तेः ।२० वैशेषिकपरिकल्पितपदादिप्रक्रिया त्वनुभवबाधितत्वादयुक्ता। न च निरन्वयविनाशिनां विज्ञानहेतुता सम्भवतीत्यसकृत् प्रतिपादितम् । षटक्षणावस्थायित्वलक्षणमप्यनित्यत्वं तत्परिकल्पितं निरन्वयविनाशपक्षे अर्थक्रियानिर्वर्तनानुपयोगि तेपाम् । न च पटूक्षणावस्थानमपि सम्भवति, प्रथमक्षणसत्ताया द्वितीयक्षणसत्तानुप्रवेशे तत्क्षणसत्ताया अपयुत्तरक्षणसत्तानुप्रवेशपरिकल्पनायां क्षणिकत्वमेव अननुप्रवेशेऽपि परस्परविविक्तत्वात् क्षणस्थितीनां तदेव क्षणिकत्वमिति कुतःषक्षणावस्थानमेकस्य १२५ अक्षणिकत्वे चार्थक्रियाविरोधः प्रतिपादित एवेति न पदादिपरिकल्पना वैशेषिकपक्षे युक्तियुक्तेति स्थितम् । ननु भवत्पक्षेऽपि क्रमस्य वर्णेभ्यो व्यतिरेके न वर्णविशेषणत्वम् अव्यतिरेके वर्णा एव केवलाः तेच न ब्यस्तसमस्ता अर्थप्रतिपादका इति पूर्वमेव प्रतिपादितमिति न शब्दः कश्चिदर्थप्रत्यायकः, असदेतत्; वर्णव्यतिरिक्ताऽव्यतिरिक्तस्य क्रमस्य प्रतिपत्तेः। तथाहि-न वर्णेभ्योऽर्थान्तरमेव क्रमः वर्णानुविद्धतया तस्य प्रतीतेः। नापि वर्णा एव क्रमः तद्विशिष्टतया तेषां प्रतिपत्तेः। न ३० च तद्विशेषणत्वेन प्रतीयमानस्य क्रमस्यापह्नवो युक्तिसङ्गतः वर्णेष्वपि तत्प्रसक्तेः। न च भ्रान्तिरूपा प्रतिपत्तिरियम्, वर्णानां तद्विशिष्टतयाऽबाधिताध्यक्षगोचरतया प्रसाधितत्वात् अर्थप्रतिपत्तिकारणतोऽनुमितत्वाञ्च । न चाभावः कस्यचिद् भावाध्यवसायितया विशेषणम् नाप्यर्थप्रतिपत्तिहेतुः न चक्रमोऽप्यहेतुः तथात्मकवणेभ्योऽर्थप्रतीतेः। ततो भिन्नाभिन्नानुपूर्वीविशिष्टा वर्णा विशिष्टपरिणतिमन्तः शब्दः स च पद-वाक्यादिरूपतया व्यवस्थितः तेन विशिष्टानुक्रमवन्ति तथाभूतपरिणति-३५ मापन्नानि पदान्येव वाक्यमभ्युपगन्तव्यम् । तद्व्यतिरिक्तस्य तस्य पदवदनुपपद्यमानत्वात् । १ "शब्दस्य"-बृ. ल.टि.। २ नच बा-भां० मा०। ३ "शब्दार्थः"-बृ. ल.टि.। ४ पृ० १८५ पं०१।५ पृ. ३५ पं० १२ तथा पृ० ४३४ पं० २२। ६ पृ. ३६ पं० ४। ७ न च वा-मां. आ० । ८ पदमभ्यधि-श्लो. वा०। १ पदाधिक्यं श्लो० वा० । १० किञ्चित् तत् पदस्य श्लो. वा०। ११पृ. १३६ पं० १३। १२-कानां वाच-बृ० ल० वा. बा०। १३ “वैशेषिकाणाम्" बृ० ल.टि.। १४ पृ० ४३१ पं० १७ । १५ “अपहव"प्रसक्तेः-६० ल० टि० । १६ “वर्णविशेषणत्वेन क्रमप्रतीतिः"-बृ० ल. टि.। १७ "क्रमविशिष्टतया"-बृ० ल.टि.।

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516