Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 492
________________ नयमीमांसा। ४३३ [ वर्णेषु वाचकत्वमभ्युपगम्य स्फोटे तन्निरस्यतो वैशेपिकमतस्य वर्णनम् ] __ ते ह्याहुः-एकदा प्रादुर्भूता वर्णाः स्वार्थप्रतिपादका न भवन्तीत्यत्राविप्रतिपत्तिरेव । क्रमप्रादुर्भूतानां न समुदाय इत्यत्राप्यविप्रतिपत्तिरेव । अर्थप्रतिपत्तिस्तु उपलभ्यमानात् पूर्ववर्णध्वंसविशि. टादन्त्यवर्णात् । न चाभावस्य सहकारित्वं विरुद्धम् वृन्त-फलसंयोगाभावस्येवाऽप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने, दृष्टं चोत्तरसंयोगं विदधत् प्राक्तनसंयोगाभाव विशिष्टं कर्म परमाण्वग्निसंयोगश्च ५ परमाणौ तद्गतपूर्वरूपप्रध्वंसविशिष्टो रक्ततामुत्पादयन् । यद्वा उपलभ्यमानोऽन्त्यो वर्णः पूर्ववर्णविज्ञानाभावविशिष्टः पदरूपतामासादयन् पदार्थे प्रतिपत्तिं जनयति प्राक्तनवर्णसंवित्प्रभवसंस्कारसव्यपेक्षो वा? न च संस्कारस्य विषयान्तरे कथं विज्ञानजनकत्वमिति प्रेर्यम् तद्भावभावितयार्थप्रतिपत्तेरुपलब्धेः पूर्ववर्णविज्ञानप्रभवसंस्कारश्चान्त्यवर्णसहायतां पूर्वपूर्वसंस्कारप्रभवतया प्रणालिकया विशिष्टः समुत्पन्नः सन् प्रतिपद्यते । तथाहि-१० प्रथमवणे तावद् विज्ञानम् तेन च संस्कारो जन्यते ततो द्वितीयवर्णविज्ञानम् तेन पूर्ववर्ण विज्ञानाऽऽहितसंस्कारसहितेन विशिष्टः संस्कारो जन्यते ततस्तृतीयवर्णे ज्ञानम् तेन पूर्वसंस्कारविशिष्टेनापरो विशिष्टतरः संस्कारो निर्वर्यंत इति यावदन्त्यः संस्कारोऽर्थप्रतिपत्तिजनकान्त्यवर्णसहायः तथाभूतसंस्कारप्रभवस्मृतिसव्यपेक्षो वाऽन्त्यो वर्णः पदरूपः पदार्थप्रतिपत्तिहेतुः । ___ अथवा शब्दार्थोपलब्धिनिमित्ताऽदृष्टनियमादविनष्टा एव पूर्ववर्णसंवित्प्रभवाः संस्कारा अन्त्य-१५ संस्कारं विदधति तस्मात पूर्ववर्णेषु स्मृतिरुपजाता अन्त्यवर्णेनोपलभ्यमानेन सहार्थप्रतिपत्तिमत्पादयति, वाक्यार्थप्रतिपत्तौ वाक्यस्याप्ययमेव न्यायोऽङ्गीकर्तव्यः । वर्णाद् वर्णोत्पत्त्यभावप्रतिपादनं च सिद्धसाधनमेव । तदेवं यथोक्तसहकारिकारणसव्यपेक्षाद् अन्त्याद वाद अर्थप्रतिपत्तिरन्वय-व्यतिरेकाभ्यामुपजायमानत्वेन निश्चीयमाना स्फोटपरिकल्पनां निरस्यति तदभावेप्यर्थप्रतिपत्तेरुक्तप्रकारेण सम्भवेऽन्यथानुपपत्तेः प्रक्षयात् । न हि दृष्टादेव कारणात् कार्योत्पत्तावदृष्टतदन्तरपरि-२० कल्पना युक्तिसङ्गता अतिप्रसङ्गात् । किञ्च, यापलभ्यमाना वर्णा व्यस्त समस्ता नार्थप्रतिपत्तिजननसमर्थाः स्फोटाभिव्यक्तावपि न समर्था भवेयुः। तथाहि-न समस्तांस्ते स्फोटमभिव्यञ्जयन्ति सामस्त्यासम्भवात् । नापि प्रत्येकम वर्णान्तरवैफल्यप्रसङ्गात् एकेनैव स्फोटाभिव्यक्तेर्जनितत्वात् । न च पूर्ववर्णैः स्फोटस्य संस्कारेऽन्त्यो वर्णस्तस्याभिव्यञ्जक इति न वान्तरवैयर्थ्यम् , अभिव्यक्तिव्यतिरिक्तसंस्कारस्वरूपानवधारणात् ।२५ तथाहि-न तावत् तत्र तैर्वेगाख्यः संस्कारो निर्वय॑ते तस्य मूर्तेष्वेव भावात् । नापि वासनारूपःअचेतन १ "प्रतीयमानात् पूर्ववर्णध्वंसविशिष्टाद् अन्त्यवर्णाद् अर्थप्रतीतेरभ्युपगमाद् उक्तदोषाभावः। न चाभावस्य सहकारित्वं विरुद्धम्-वृन्तफलसंयोगाभावस्य अप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने तर्शनात्" इत्यादिकोऽयं वैशेषिकपक्षः सर्वोऽक्षरशः प्रमेयकमलमार्तण्डेऽपि निर्दिष्टः-पृ० १३२ प्र. पं० १४-पृ. १३३ द्वि. पं० ८।। "शब्दाच शब्दनिष्पत्तिं कथयति-शब्दात् संयोगविभागनिष्पन्नात् वीचीसंतानवत् शब्दसंतानः यथा जलवीच्या तदव्यवहिते देशे वीच्यन्तरमुपजायते ततोऽपि अन्यत् ततोऽपि अन्यत् इत्यनेन क्रमेण वीचीसंतानो भवति तथा शब्दाद् उत्पन्नात् तदव्यवहिते देशे शब्दान्तरम्-ततोऽपि अनयोर्गमनागमनाभावात् प्राप्तस्यैव उपलब्धिरिति-ततोऽपि अन्यत् ततोऽपि अन्यत् इत्यनेन क्रमेण शब्दसंतानो भवति । एवं संतानेन श्रोत्रदेशे समागतस्य अन्त्यशब्दस्य ग्रहणम्”प्रशस्त. के. पृ. २८९ पं० १०-१५। २ "परमाणुगत"-वृ० मा. टि.। ३-ति प्रेय स्फोटवादिना वितयार्थ-वा. बा० । अत्र 'स्फोटवादिना' इति टिप्पणमपि पाठे प्रविष्टम्। ४ "स्फोटवादिना" इति शेषः-बृ० मां. टि०। ५-यार्थाप्र-आ० हा०। ६ “अथ प्रथममाद्यवर्णज्ञानम् तदनु संस्कारः तदनु तृ(द्वितीयवर्णज्ञानम् तेन प्राक्तनेन संस्कारेण अन्त्यो विशिष्टः संस्कारो जन्यते इत्यनेन क्रमेण अन्ते निखिलवर्णविषयः संस्कारो जातः" इत्यादि प्रशस्त० के० पृ० २६९ पं० ९-११। ७-दन्त्य सं-आ० । "कृतानुग्रहसामो वर्णोऽन्त्यः प्रतिपादकः" ॥ ९॥ "एष एव तु संस्कार इति केचित् प्रचक्षते" ॥ ९८॥-श्लो० वा. स्फोट. पृ० ५३५ । ८ तदभावे "स्फोटाs"भावे-वृ० मा.टि.। ९ "वर्णाः"-बृ० मा० टि०। १०-रणत्वात् । आ० ।

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516