Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 491
________________ ४३२ प्रथमे काण्डे भिन्नपुरुषप्रयुक्त यगपदत्पत्त्यसम्भवात प्रतिनियतस्थान-करण-प्रयत्नप्रभवत्वात तेषाम। न च भिन्नपरुषप्रयत गकार-औकार-विसर्जनीयानां समुदायेऽप्यर्थप्रतिपादकत्वं दृष्टम् प्रतिनियतक्रमवर्णप्रतिपत्त्युत्तरकालभावित्वेन शाब्द्याः प्रतिपत्तेः संवेदनात् । न चान्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे सत्यर्थप्रत्यायकः, पूर्ववर्णानामन्त्यवर्ण प्रत्यनुग्राहकत्वायोगात् यतो नान्त्यवर्ण प्रति जनकत्वं ५ पूर्ववर्णानां तदुपकारित्वम् वर्णाद वर्णोत्पत्तेरभावात्-प्रतिनियतस्थान-करणादिसम्पाद्यत्वाद वर्णा नाम् वर्णाभावेऽपि च वर्णोत्पत्तिदर्शनान्न वर्णजन्यत्वम् । अथार्थज्ञानोत्पत्तौ सहकारित्वं पूर्ववर्णानामन्त्यवर्ण प्रत्युपकारकत्वम्, एतदप्ययुक्तम्। अविद्यमानानां सहकारित्वानुपपत्तेः अत एव प्राक्तनवर्णवित्तीनामपि सहकारित्वमयुक्तम् । न च पूर्ववर्णसंवेदनप्रभवसंस्काराः तत्सहायतां प्रतिपद्यन्ते, यतः संस्काराः स्वोत्पादकविज्ञानविषयस्मृतिहेतवो नार्थान्तरज्ञानमुत्पादयितुं समर्थाः१० नहि घटज्ञानप्रभवः संस्कारः पटे स्मृतिं विदधद् दृष्टः । न च तत्संस्कारप्रभवाः स्मृतयः सहायतां प्रतिपद्यन्ते, युगपदयुगपद्विकल्पानुपपत्तेः । न हि स्मृतीनां युगपदुत्पत्तिः अयुगपदुत्पन्नानां वाऽवस्थितिरस्ति । न च समस्तसंस्कारप्रभवैका स्मृतिस्तत्सहकारिणी, परस्परविरुद्धानेकपदार्थाऽनु. भवप्रभवप्रभूतसंस्काराणामप्येकस्मृतिजनकत्वप्रसक्ते नेकवर्णसंस्कारजत्वं स्मृतेः सम्भवतीति कुतोऽस्या अन्त्यवर्णसहकारित्वम् ? न चान्य विषया स्मृतिरन्यत्र प्रतिपत्तिं जनयति खदिरव्यापृतप१५रशोः कदिरच्छेदक्रियाजनकत्वप्रसक्तेः। न चान्यवर्णनिरपेक्ष एव 'गौः' इत्यत्रान्त्यो वर्णः ककुदादिमदर्थप्रत्यायकः पूर्ववर्णोच्चारणवैयर्थ्यप्रसक्तेः घटशब्दान्तव्यवस्थितस्यापि तत्प्रत्यायकत्वप्रसक्तेश्च तस्मान्न वर्णाः समस्त-व्यस्ता अर्थप्रत्यायकाः सम्भवन्ति । अस्ति च गवादिशब्देभ्यः ककुदादिमदर्थप्रतिपत्तिरिति तदन्यथानुपपत्त्या वर्णव्यतिरिक्तोऽर्थप्रतिपत्तिहेतुः स्फोटाख्यः शब्दो ज्ञायते । श्रोत्रविज्ञाने च वर्णव्यतिरिक्तः स्फोटात्मा निरवयवोऽक्रमः २० स्फुटमवभातीति तस्याध्यक्षतोऽपि सिद्धिः । तथाहि-श्रवणव्यापारानन्तरभाविन्यभिन्नार्थावभासा संविदनुभूयते, न चासौ वर्णविषया, वर्णानां परस्परव्यावृत्तरूपत्वाद् एकावभासजनकत्वविरोधात् तेदजनकस्यातिप्रसङ्गतस्तद्विषयत्वानुपपत्तः । न चेयं सामान्यविषया, वर्णत्वव्यतिरेकेणापरसामान्यस्य गकार-औकार-विसर्जनीयेष्वसम्भवात् वर्णत्वस्य च प्रतिनियतार्थप्रत्यायकत्वायोगात् । न चेयं भ्रान्ता, अबाध्यमानत्वात् । न चावाध्यमानप्रत्ययगोचरस्यापि स्फोटाख्यस्य वस्तुनोऽसत्त्वम्, २५ अवयविद्रव्यस्याप्यसत्त्वप्रसक्तेः । एवमप्यवयव्यभ्युपगमे स्फोटाभ्युपगमोऽवश्यंभावी तत्तुल्ययोगक्षेमत्वात् । स च वर्णेभ्यो व्यतिरिक्तः नित्यः अनित्यत्वे सङ्केतकालानुभूतस्य तदैव ध्वस्तत्वात् कालान्तरे देशान्तरे च गोशब्दश्रवणात् ककुदादिमदर्थप्रतिपत्तिर्न स्यात् असङ्केतिताच्छब्दादर्थप्रतिपत्तेरसम्भवात् । सम्भवे वा द्वीपान्तरादागतस्य गोशब्दाद् गवार्थप्रतिपत्तिर्भवेत् सङ्केतकरणवैयर्थ्य च प्रसज्येत तस्मान्नित्यः स्फोटाख्यः शब्दो व्यापकश्च सर्वत्रैकरूपतया प्रतिपत्तेः । असदेतदिति ३० वैशेषिकाः। १-न साध्याःप्र० मा० बहिः। २ "उपाकरिष्यद् वर्णेभ्योऽप्युदपत्स्यत वाच्यधीः । इदं तावद् भवानद्य प्रष्टव्यो मतिमत्तमः" ॥२२॥ "एकत्वेऽप्यन्त्यवर्णस्य गौरित्यादाविहार्थधीः । भिद्यते स तु भेदोऽत्र कस्मादित्यथ मन्यसे" ॥ २३ ॥ "सहायभेदाद् भेदः स्यादिति नेह सहायता । कार्ये व्याप्रियमाणस्य सहायत्वं हि दृश्यते" ॥ २४ ॥ "असतां पूर्ववर्णानां तदानीं व्यापृतिः कथम् ? । असतामपि साहाय्यं वर्णानां यदि विद्यते" ॥ २५॥ "केवलान्त्यप्रयोगेऽपि भवेदेवाभिधेयधीः"॥ २६॥ इत्यादि-स्फोटसि. पृ.३-४ । ३ वर्णचित्तानामपि वा. बा.। ४ वित्तिर्ज्ञानम्। ५ "पूर्ववर्णसहायताम्"-वृ. ल. मां. टि.। ६-सक्तेः अने-वृ० ।-सक्ते अने-वा. बा.। . सम्भवीति वृ०। ८ "एकस्मृतेः"-. ल. मां. टि.। ९ 'घटः' इत्यत्र अन्ते स्थितस्य विसर्गस्यापि गवार्थप्रत्यायकत्वं स्यात् । १. तदजनकस्य "एकावभासाजनकस्य"-वृ. ल. मां. टि.। ११ इयम् "एकत्वप्रतिपत्तिः"-वृ० ल• मां. टि.। १२-स्याप्यस्यत्व-वा. बा.। १३ "देशान्तरे असतादेव शब्दादू अर्थप्रतिपत्तिर्मविष्यतीत्याशकावारणाय आह"-.मा.टि.।

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516