Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 490
________________ नयमीमांसा । ४३१ अथवा अर्थ-व्यञ्जनपर्यायैः शक्ति-व्यक्तिरूपैरनन्तैरनुगतोऽर्थः सविकल्पः निर्विकल्पश्च प्रत्यक्षतोऽवगतः, इदानीं पुरुषदृष्टान्तद्वारेण व्यञ्जनपर्यायं तदविकल्पकत्वनिबन्धनम् अर्थपर्यायं च तत्सविकल्पकत्वनिमित्तमाह-पुरिसम्मि इत्यादिना सूत्रेण अतीतानागतवर्त्तमानानन्तार्थ-व्यञ्जनपर्यायात्मके पुरुषवस्तुनि 'पुरुष'इति शब्दो यस्यासौ पुरुषशब्दः तेद्वाच्योऽर्थो जन्मादिमरणपर्यन्तोऽभिन्न इत्यर्थः 'पुरुषः' इत्यभिन्नाभिधान-५ प्रत्ययव्यवहारप्रवृत्तेः तस्यैव बालादयः पर्याययोगाः परिणतिसम्बन्धा बहुविकल्पा अनेकभेदाः प्रतिक्षणसूक्ष्मपरिणामान्तर्भूता भवन्ति तत्रैव तथाव्यतिरेकज्ञानोत्पत्तेः एवं च 'स्यादेकः' इत्यविकल्पः 'स्यादनेकः' इति सविकल्पः सिद्धः, अन्यथाऽभ्यपगमे तदभाव एवेति विपक्षे 'अत्थि'त्ति णिव्वियप्पं' इत्यनन्तरगाथया वाधां दर्शयिष्यति।। ___ द्वितीयपातनिकाऽऽयातगाथार्थस्तु-पुरुषवस्तुनि पुरुषध्वनिय॑ञ्जनपर्यायः शेषो बालादि-१० धर्मकलापोऽर्थपर्याय इति गाथासमुदायार्थः। [व्यञ्जनपर्यायप्रसङ्गेन वाचकशब्द-वाच्यतत्सम्बन्धयोस्स्वरूपमीमांसा ] ननु कोऽयं 'पुरुष'शब्दः कथं वा शब्दोऽर्थस्य पर्यायस्ततोऽत्यन्तभिन्नत्वात् घटस्येव पटः ? [वर्णेषु वाचकत्वं व्युदस्य स्फोटे तत् प्रतिपादयतो वैयाकरणमतस्य वर्णनम् ] अत्र वैयाकरणाः प्राहुः- “यस्मात् उच्चरितात् ककुदादिमदर्थप्रतिपत्तिः स शब्दः”[ ]१५ ननु अत्र किं गकार-औकार-विसर्जनीयाः ककुदादिमदर्थप्रतिपादकत्वेन शब्दव्यपदेशं लभन्ते, आहोस्वित् तद्व्यतिरिक्तः पद-स्फोटादिः ? तत्र न तावद् वर्णा अर्थप्रत्यायकाः यतस्ते किं समुदिता अर्थप्रतिपादकाः, उत व्यस्ताः? यदि व्यस्तास्तदैकेनैव वर्णेन गवाद्यर्थप्रतिपत्तिरुत्पादितेति द्वितीयादिवर्णोच्चारणमनर्थकं भवेत् । अथ समुदिता अर्थप्रत्यायकाः, तदपि न सङ्गतम्; क्रमोत्पन्नानामनन्तरविनष्टत्वेन समुदायासम्भवात् । न च युगपदुत्पन्नानां समुदायप्रकल्पना, एकपुरुषापेक्षया२० १-कल्पकश्च भां० मा । "सभेदः अभिन्नश्च"-बृ० टि.। "सभेदः अभेदश्च"-ल. मा. टि.। २ "वाचकः पुरुषत्वादेः"-मांटि। ३ तद्वाच्यः-"शब्द"वाच्यः-मां. टि.। ४-मादिम-भां०। ५ गा० ३३ । ६ "येनोच्चारितेन साना-लाल-ककद-खुर-विषाणिनां संप्रत्ययो भवति स शब्दः"-महाभा० प्र० ख० पृ० १६ पं० १५ । अनेकान्तज. पृ. ४४ प्र. पं० १० अम० । ७ “अथ 'गौः' इत्यत्र कः शब्दः? गकार-औकार-विसर्जनीयाः इति भगवान् उपवर्षः"-मीमां० पृ० १०५० ११। प्रमेयक पृ० १३६ प्र. पं० ५। स्याद्वादर० पृ० ३१७ प्र. पं० २। श्लो० वा. पार्थ. व्या० पृ. ५११ पं० १०। ८ "तद्वाचकस्तु पदादिस्फोट एव, न पुनर्वर्णाः। ते हि किं समस्ता व्यस्ता वा तद्वाचकाः ? यदि व्यस्तास्तदैकेनैव वर्णेन गवाद्यर्थप्रतिपत्तिरुत्पादितेति द्वितीयादिवर्णोच्चारणमनर्थकम्" इत्यादिसमग्रोऽयं वैयाकरणपक्षः अक्षरशो वर्तते प्रमेयकमलमार्तण्डे-पृ० १३१ द्वि. पं० ११। "तथाहिन वर्णाः प्रत्येकमर्थविषयां धियमाविर्भावयन्ति शेषवर्णवैयर्थ्यात् समुदायश्च तेषां न संभवति अन्त्यवर्णग्रहणसमये पूर्वेषामसंभवात्" इत्यादि-प्रशस्त० के० पृ. २६९ पं० २। “न चास्य विषयो वर्णास्तेषु नैकत्वधीभवेत् । न च तत्समुदायोऽपि ऋमिकत्वादसंभवात् ॥४॥ -स्फोटसि. पृ० १॥ ९ "तत्र तावद् गकारादेरेकैकस्मान वाच्यधीः। उदेति यदि चेदस्ति प्रथमेनैव गादिना" ॥ १२॥ "वर्णेनोच्चरितेनेह गवाद्यर्थाभिधानतः। उच्चारणं द्वितीयादिवर्णानां स्यान्निरर्थकम्" ॥१३॥ -स्फोटसि० पृ०२॥ १० "तदुच्चारणसामर्थ्य नैकैकस्मात् ततोऽर्थधीः । समुदायोऽपि वर्णेषु क्रमज्ञातेष्वसंभवी" ॥ १४ ॥ -स्फोटसि०पृ०२

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516