Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 489
________________ ४३० प्रथमे काण्डे[शब्दार्थगतत्वेन पर्यायस्य द्वैविध्यं प्रदर्य तस्स द्विविधस्यापि पुनर्भेदाभेदरूपेण विवेचनम् ] एवं भेदाभेदरूपं वस्तूपदर्य भेदस्य पर्यायार्थिकविषयस्य द्वैविध्यमाह सो उण समासओ चिय वंजणणिअओ य अत्थणिअओ य । अत्थगओ य अभिण्णो भइयव्वो वंजणवियप्पो ॥ ३०॥ ५ स पुनर्विभागः समासतः संक्षेपतो व्यञ्जननियतः शब्दनयनिबन्धनः अर्थनियतश्च अर्थनयनिबन्धनश्च । तत्र अर्थगतस्तु विभागः अभिन्नः सङ्ग्रह-व्यवहार-ऋजुसूत्रार्थप्रधाननयविषयोऽर्थपर्यायोऽभिन्नः असदद्रव्यातीतानागतव्यवच्छिन्नाभिन्नार्थपर्यायरूपत्वात् तद्विषया नया अपि 'अर्थगतो विभागोऽभिन्नः' इत्युच्यते । भाज्यो व्यञ्जनविकल्प इति । विकल्पितः शब्दपर्यायो भिन्नः अभिन्नश्चानेकाभिधान एकः एकाभिधानश्चैकः इति कृत्वा, समानलिङ्ग-सङ्ख्या-काला१० दिरनेकशब्दो 'घटः' 'कुटः' 'कुम्भः' इत्यादिक एकार्थ इति शब्दनयः । समभिरूढस्तु भिन्नाभिधेयौ घंट-कुटशब्दौ, भिन्नप्रवृत्तिनिमित्तत्वात् , रूप-रसादिशब्दवत् इत्त्येकार्थ एकशब्द इति मन्यते । एवंभूतस्तु चेष्टासमय एव घटो 'घट'शब्दवाच्यः अन्यथाऽतिप्रसङ्गात् । तदेवम् अभिन्नोऽर्थो वाच्योऽस्येत्यभिन्नार्थो घटशब्द इति मन्यते ॥ ३०॥ [एकस्यैव वस्तुनौकालिकानन्तशब्दार्थपर्यायशालितयाऽनन्तप्रमाणत्वेन सर्वात्मकत्वाख्यानम्] १५ यत् तदन्यतो विभक्तेन स्वरूपेणैकमनेकं च वस्तूक्तम् तद् अनन्तप्रमाणमित्याख्यातुमाह एगदवियम्मि जे अत्थपजया वयणपज्जया वावि । तीयाणांगयभूया तावइयं तं हवइ दव्वं ॥ ३१॥ एकस्मिन् जीवादिद्रव्ये अर्थपर्याया अर्थग्राहकाः संग्रह-व्यवहार-ऋजुसूत्राख्याः तबाह्या वा अर्थभेदाः वचनपर्यायाः शब्दनयाः शब्द-समभिरूढ-एवंभूताः तत्परिच्छेद्या वस्त्वंशा वा २० ते च अतीतानागतवर्तमानरूपतया सर्वदा विवर्त्तन्ते विवृत्ताः विवर्तिष्यन्त इति तेषामानन्त्याद् वस्त्वपि तावत्प्रमाणं भवति । तथाहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनाऽऽसादितत्वात् अवस्थातुश्चावस्थानां कथञ्चिदनन्यत्वात् घटादिवस्तु पट-पुरुषादिरूपेणापि कथञ्चिद् विवृत्तमिति सर्वे सर्वात्मकं कथञ्चिदिति स्थितम् । दृश्यते चैकं पुद्गलद्रव्यं अतीताऽनागतवर्तमानद्रव्य-गुण-कर्म-सामान्य-विशेषपरिणामात्मकं युगपत् क्रमेणापि तत् तथा. २५भूतमेव । एकान्ताऽसत उत्पादायोगात् सतश्च निरन्वयविनाशासम्भवादिति प्रतिपादितत्वात् ॥३१॥ [व्यञ्जनार्थपर्यायभावनया पुरुषस्य भेदाभेदात्मकत्वसमर्थनेन वस्तुमात्रस्याऽनेकान्त रूपत्वसूचनम्] एवं तावद् बाह्याभ्यन्तरभेदेन द्विविधस्यापि वस्तुनोऽनेकान्तात्मकत्वं प्रतिपाद्य तत्प्रतिपादनवाक्यनयानामपि तथाविधमेव स्वरूपम् नान्यादृग्भूतमस्तीति प्रतिपादयन्नाह पुरिसम्मि पुरिससद्दो जम्माई मरणकालपज्जन्तो। तस्स उ बालाईया पजवजोया बहुवियप्पा ॥ ३२॥ १-ओ अ-ल. भां० विना। २-ण्णो इयइव्वो वज-वा० बा०। ३ भयइव्वो बृ० ल०। ४ विअप्पो बृ. ल.। ५-त्युच्यन्ते । बृ०।-त्युच्यति । आ० । ६-कल्पितश-वा. बा०। ७ “अनेकमभिधानं यस्य"-बृ० ल. मां० टि.। ८ "समभिरूढनयाशयेन"-बृ. मा. टि०। ९ घटः कु--भां०। घट-पटशवा० बा०। १०-गइभू-बृ०। ११-परिमाणात्म-आ०।

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516