Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 488
________________ नयमीमांसा। ४२९ कार्यम् परिणामी वा परिणामः। न कार्यम् नापि कारणम् अपि तु द्रव्यमानं तत्वमिति तदेव वेति नियमेन एकान्ताभ्युपगमे सर्व एवैते मिथ्यावादा उक्तन्यायेन नियमेन मिथ्यात्वम् इत्यभिधानात् कथञ्चिदभ्युपगमे सम्यग्वादा एवैते इत्युक्तं भवति यत उत्पाद-व्यय-ध्रौव्यात्मकत्वे वस्तुनः स्थिते तद् वस्तु तत्तदपेक्षया कार्यम् अकार्य च, कारणम् अकारणं च, कारणे कार्य सच्च असच्च, कारणं कार्यकाले विनाशवत् अविनाशवच्च तथैव प्रतीतेरन्यथा चाऽप्रतीतेः ॥ २७॥ ५ [खे स्खेंशे सत्यानामपि नयानां परांशविचालने मिथ्यात्वात् समयज्ञः ___ सापेक्षावधारणं करोतीति वर्णनम् ] अत एकान्तरूपस्य वस्तुनोऽभावात् सर्वेऽपि नयाः स्वविषयपरिच्छेदसमर्था अपि इतरनय. विषयव्यवच्छेदेन स्वविषये वर्तमाना मिथ्यात्वं प्रतिपद्यन्त इत्युपसंहरन्नाह णिययवयणिजसच्चा सम्वनया परवियालणे मोहा । ते उण ण दिट्ठसमओ विभयइ सचे व अलिए वा ॥ २८॥ निजकवचनीये स्वांशे परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः संग्रहादयः परविचालने परविषयोत्खनने मोहाः मुह्यन्तीति मोहा मिथ्याप्रत्ययाः परविषयस्यापि सत्यत्वेनोन्मलयितमशक्यत्वात् तदभावे स्व विषयस्याप्यव्यवस्थितेः ततश्च परविषयस्याभावे स्वविषय स्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेव तद्व्यतिरिक्तग्राहकप्रमाणस्य चाभावात् तस्मात् तानेव नयान १५ पुनः शब्दस्यावधारणार्थत्वात् न इति प्रतिषेधो विभजनक्रियायाः दृष्टः समयः सिद्धान्तवाच्यमनेकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा से न विभजते सत्येतरतया-स्वेतरविषयमवधारयमाणोऽपि तथा तान् न विभजते अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । 'ग्राह्यसत्यासत्याभ्यां ग्राहकसत्यासत्ये' इत्येवमभिधानम् तच्च दृष्टाऽ. नेकान्ततत्त्वस्य विभजनम् 'स्यादस्त्यव द्रव्याथेतः' इत्येवरूपम् ॥२८॥ २० [सर्वस्यापि वस्तुनोऽभेदरूपेण द्रव्यार्थिकपरिच्छेद्यस्यैव भेदरूपेण पुनः पर्यायार्थिकपरिच्छेद्यत्वाभिधानम् ] अतो नय-प्रमाणात्मकैकरूपताव्यवस्थितमात्मस्वरूपम् अनुगतव्यावृत्तात्मकम् उत्सर्गापवादरूपग्राह्यग्राहकात्मकत्वाद् व्यवतिष्टन इत्यर्थप्रदर्शनायाह दव्वढियवत्तव्वं सव्वं सव्वेण णिच्चमवियप्पं । आरद्धो य विभागो पजववत्तव्वमग्गो य ॥ २९ ॥ यत् किश्चिद् द्रव्यार्थिकस्य संग्रहादेः सदादिरूपेण व्यवस्थितं वस्तु वक्तव्यं परिच्छेद्यं तत् सर्व सर्वेण प्रकारेण नित्यं सर्वकालम् अविकल्पं निर्भेदम् सर्वस्य सदसद्विशेषात्मकत्वात् तच्च भेदेन सम्पृक्तमिति दर्शयितुमाह-आरब्धश्च विभागः स एवाविभागः सत्तारूपो यो द्रव्यादिनाऽऽकारेण, प्रस्तुतश्च भेदः चशब्दस्य प्रक्रान्ताऽविभागानुकर्षणार्थत्वात् पर्यायव-३० क्तव्यमार्गश्च पर्यायास्तिकस्य यदू वक्तव्यं विशेषः तस्य मार्गः पन्था जातः-पर्यायार्थिकपरिच्छेद्यस्वभावो विशेषः सम्पन्न इति यावत् ॥ २९ ॥ १ सन् वि-ल. भां० म०। २ "खेतरविषयतया"-मां० टि.। ३-व त्वनया-बृ. वा. बा। -व वन्यनया-बृ० सं० । प्र. मां. बहिः । ४ सत्ये असत्य वा अवधारयतीति प्र. मां. बहिः। ५५ स० त०

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516