Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 487
________________ ४२८ प्रथमे काण्डेवृत्तिसिद्धिः तस्याश्च अक्षणिके अर्थक्रियाविरोधसिद्धिरिति । न च अक्षणिकवादमतेऽप्ययं समानो दोषः, कालान्तरस्थायिनि भावेऽध्यक्षप्रवृत्तिनिश्चयादेव क्षणिकत्वेऽर्थक्रियाविरोधस्य सिद्धेः। न च क्षणिके अध्यक्षप्रवृत्तिरुपजातैव केवलं भ्रान्तिकारणसद्भावान्न निश्चितेति वक्तव्यम् विहितोत्तरत्वात् । तन्नैकान्तक्षणिकस्य अर्थक्रियाकरणलक्षणं सत्वम् अन्यस्य च सत्तासम्बन्धादेः सत्त्वस्य परेणानभ्युप. ५गमात् असन्त एकान्तक्षणिकाः । क्षणिकवद् एकान्ताक्षणिकेष्वप्यर्थक्रियालक्षणं सत्त्वं पूर्वोपदर्शितन्यायेन व्यावृत्तम् सत्तासम्बन्धलक्षणस्य च सत्त्वस्यातिव्याप्तित्वाऽसम्भवादिदोषदुष्टत्वात् असत्त्वमित्येकान्ताऽक्षणिका अप्यसन्तो भावा इत्युत्पाद-व्यय-ध्रौव्यलक्षणमेव भावानां सत्त्वमभ्युपगन्तव्य. मिति नैकान्ततः कारणेषु कार्यमसदिति न तत् इति पक्षो मिथ्यात्वमिति स्थितम् । [(५) अपराभिमतत्वेनोपन्यस्ते अद्वैतवादे निरसनीये सर्वेषां तत्त्व-द्रव्य प्रधान-शब्द-ब्रह्माद्वैतवादानां निरसनम् ] अपरस्तु कार्यकारणभावस्य कल्पनाशिल्पिविरचितत्वात् तदुभयव्यतिरिक्तमद्वैतमात्रं तत्त्वमित्यभ्युपपन्नः तन्मतमपि मिथ्या कार्यकारणोभयशून्यत्वात् खरविषाणवत् अद्वैतमात्रस्य व्योमोरपलतुल्यत्वात् । तथाहि-अद्वैतप्रतिपादकप्रेमाणस्य सद्भावे द्वैतापत्तितो नाद्वैतम्, प्रमाणाभावे अद्वैतासिद्धिः प्रमेयसिद्धेः प्रमाणनिवन्धनत्वात् । किञ्च, 'अद्वैतम्' इत्यत्र प्रसज्यप्रतिषेधः, पर्युदासो १५वा? प्रसज्यपक्षे प्रतिषेधमात्रपर्यवसानत्वात् तस्य नाद्वैतसिद्धिः, प्रधानोपसर्जनभावेनाङ्गाङ्गि. भावकल्पनायां द्वैतप्रसक्तिः। द्वितीयपक्षेऽपि द्वैतप्रसक्तिरेव प्रमाणान्तरप्रतिपन्ने द्वैतलक्षणे वस्तुनि तत्प्रतिषेधेनाद्वैतसिद्धिः । द्वैताद्वैतस्य व्यतिरेके च द्वैतप्रसक्तिरेव पररूपव्यावृत्तस्वरूपाऽव्यावृत्ता. त्मकत्वेन तस्य द्विरूपताप्रसक्तेः अव्यतिरेके पुनद्वैतप्रसक्तिः । न चाद्वैतस्य अविद्यमानाद् द्वैताद् व्यावृत्ततासम्भवः अविद्यमानस्यापि विद्यमानाद् व्यावृत्तिप्रसक्तेः अन्यथा सदूपताविशेषप्रसक्ति. २०र्भवेत् । प्रमाणादिचतुष्टयसद्भावे च न द्वैतवादान्मुक्तिः तदभावे शून्यतावादादिति नाद्वैतकल्पना ज्यायसी । न च नित्यत्वाद्वैतकल्पना भावानामनेकत्वेऽपि युक्तिसङ्गता, सर्वदा सर्वभावानां नित्यत्वे ग्राह्यग्राहकरूपताऽभावप्रसक्तेः तद्भावाभ्युपगमे वा अनेकान्तवादाश्रयणम् ग्राह्यग्राहकरूपताया विकारिताव्यतिरेकेणायोगात् सा च कथञ्चिदेकस्यानेकरूपानुषङ्गादिति कथं नानेकान्तसिद्धिः? __द्रव्याद्वैतवादे रूपादिभेदाभावप्रसङ्गश्च । न च चक्षुरादिसम्बन्धात् तदेव द्रव्यं रूपादिप्रतिप२५त्तिजनकम् सर्वात्मना तत्सम्बन्धस्य तथैव प्रतीतिप्रसक्तेः रूपान्तरस्य तद्यतिरिक्तस्य तत्राभावात् । तन्न द्रव्याद्वैतमपि । । प्रधानाद्वैतं त्वयुक्तमेव सत्त्वादिव्यतिरेकेण तस्याभावात् । न च सत्त्वादेस्तव्यतिरेकादद्वैतं प्रधानस्य, सत्वाद्यव्यतिरेकात् द्वैतप्रसक्तेः महदादिविकारस्य चाभ्युपगमे कथमद्वैतम् ? विकारस्य च विकारिणोऽत्यन्तमभेदे 'न विकारी' इति प्रतिपादितम् । भेदाभेदे अनेकान्तसिद्धिः व्यतिरेके द्वैता३०पत्तिरिति । प्रतिक्षिप्तश्च प्रधानाद्वैतवाद इति न पुनः प्रतिषिध्यते। शब्दाद्वैतं तु नामनिक्षेपावसरे प्रतिक्षिप्तमिति न तद्भ्युपगमोऽपि श्रेयान् । ब्रह्माद्वैतवादस्यापि प्रागेव प्रतिषेधः कृत इति तदेव वा इति अयमपि पक्षो मिथ्यात्वम् । ततः कारणे परिणामिनि वा कार्यम् परिणामो वासदेव तावेव तावसदेव वा तत् तत्रेतिन कारणमेव १-या विरोधस्य सिद्धेन बृ० ल०। २-क्षवृ-भां० मा० विना। ३ पृ० ४२७ पं० १०। ४ पृ० ४२२ गा० २७॥ ५ “हेतोरद्वैतसिद्धिश्चेत् द्वैतं स्याद् हेतु-साध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मात्रतो न किम्" ॥२६॥ -आप्तमी० पृ० १८, अष्टस० पृ० १६० । ६-तमिति प्र-आ०। "अद्वैतं न विना द्वैतादू अहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्याद् ऋते क्वचित्"॥ २७ ॥ -आप्तमी० पृ० १८, अष्टस• पृ० १६१ । ७-रूपिता-भां० मा० आ० ।-रूपता प्र. मां० बहिः । ८ तस्यापि विद्यमानत्वाद् द्वै-भां० मा० आ० । ९ "प्रमेय-प्रमातृ-प्रमिति" प्रभृति-मांटि.। १० पृ० ४२२ गा० २७॥ ११ सदेता-आ० ।

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516