________________
४२८
प्रथमे काण्डेवृत्तिसिद्धिः तस्याश्च अक्षणिके अर्थक्रियाविरोधसिद्धिरिति । न च अक्षणिकवादमतेऽप्ययं समानो दोषः, कालान्तरस्थायिनि भावेऽध्यक्षप्रवृत्तिनिश्चयादेव क्षणिकत्वेऽर्थक्रियाविरोधस्य सिद्धेः। न च क्षणिके अध्यक्षप्रवृत्तिरुपजातैव केवलं भ्रान्तिकारणसद्भावान्न निश्चितेति वक्तव्यम् विहितोत्तरत्वात् । तन्नैकान्तक्षणिकस्य अर्थक्रियाकरणलक्षणं सत्वम् अन्यस्य च सत्तासम्बन्धादेः सत्त्वस्य परेणानभ्युप. ५गमात् असन्त एकान्तक्षणिकाः । क्षणिकवद् एकान्ताक्षणिकेष्वप्यर्थक्रियालक्षणं सत्त्वं पूर्वोपदर्शितन्यायेन व्यावृत्तम् सत्तासम्बन्धलक्षणस्य च सत्त्वस्यातिव्याप्तित्वाऽसम्भवादिदोषदुष्टत्वात् असत्त्वमित्येकान्ताऽक्षणिका अप्यसन्तो भावा इत्युत्पाद-व्यय-ध्रौव्यलक्षणमेव भावानां सत्त्वमभ्युपगन्तव्य. मिति नैकान्ततः कारणेषु कार्यमसदिति न तत् इति पक्षो मिथ्यात्वमिति स्थितम् । [(५) अपराभिमतत्वेनोपन्यस्ते अद्वैतवादे निरसनीये सर्वेषां तत्त्व-द्रव्य
प्रधान-शब्द-ब्रह्माद्वैतवादानां निरसनम् ] अपरस्तु कार्यकारणभावस्य कल्पनाशिल्पिविरचितत्वात् तदुभयव्यतिरिक्तमद्वैतमात्रं तत्त्वमित्यभ्युपपन्नः तन्मतमपि मिथ्या कार्यकारणोभयशून्यत्वात् खरविषाणवत् अद्वैतमात्रस्य व्योमोरपलतुल्यत्वात् । तथाहि-अद्वैतप्रतिपादकप्रेमाणस्य सद्भावे द्वैतापत्तितो नाद्वैतम्, प्रमाणाभावे अद्वैतासिद्धिः प्रमेयसिद्धेः प्रमाणनिवन्धनत्वात् । किञ्च, 'अद्वैतम्' इत्यत्र प्रसज्यप्रतिषेधः, पर्युदासो १५वा? प्रसज्यपक्षे प्रतिषेधमात्रपर्यवसानत्वात् तस्य नाद्वैतसिद्धिः, प्रधानोपसर्जनभावेनाङ्गाङ्गि. भावकल्पनायां द्वैतप्रसक्तिः। द्वितीयपक्षेऽपि द्वैतप्रसक्तिरेव प्रमाणान्तरप्रतिपन्ने द्वैतलक्षणे वस्तुनि तत्प्रतिषेधेनाद्वैतसिद्धिः । द्वैताद्वैतस्य व्यतिरेके च द्वैतप्रसक्तिरेव पररूपव्यावृत्तस्वरूपाऽव्यावृत्ता. त्मकत्वेन तस्य द्विरूपताप्रसक्तेः अव्यतिरेके पुनद्वैतप्रसक्तिः । न चाद्वैतस्य अविद्यमानाद् द्वैताद् व्यावृत्ततासम्भवः अविद्यमानस्यापि विद्यमानाद् व्यावृत्तिप्रसक्तेः अन्यथा सदूपताविशेषप्रसक्ति. २०र्भवेत् । प्रमाणादिचतुष्टयसद्भावे च न द्वैतवादान्मुक्तिः तदभावे शून्यतावादादिति नाद्वैतकल्पना ज्यायसी । न च नित्यत्वाद्वैतकल्पना भावानामनेकत्वेऽपि युक्तिसङ्गता, सर्वदा सर्वभावानां नित्यत्वे ग्राह्यग्राहकरूपताऽभावप्रसक्तेः तद्भावाभ्युपगमे वा अनेकान्तवादाश्रयणम् ग्राह्यग्राहकरूपताया विकारिताव्यतिरेकेणायोगात् सा च कथञ्चिदेकस्यानेकरूपानुषङ्गादिति कथं नानेकान्तसिद्धिः?
__द्रव्याद्वैतवादे रूपादिभेदाभावप्रसङ्गश्च । न च चक्षुरादिसम्बन्धात् तदेव द्रव्यं रूपादिप्रतिप२५त्तिजनकम् सर्वात्मना तत्सम्बन्धस्य तथैव प्रतीतिप्रसक्तेः रूपान्तरस्य तद्यतिरिक्तस्य तत्राभावात् । तन्न द्रव्याद्वैतमपि ।
। प्रधानाद्वैतं त्वयुक्तमेव सत्त्वादिव्यतिरेकेण तस्याभावात् । न च सत्त्वादेस्तव्यतिरेकादद्वैतं प्रधानस्य, सत्वाद्यव्यतिरेकात् द्वैतप्रसक्तेः महदादिविकारस्य चाभ्युपगमे कथमद्वैतम् ? विकारस्य च विकारिणोऽत्यन्तमभेदे 'न विकारी' इति प्रतिपादितम् । भेदाभेदे अनेकान्तसिद्धिः व्यतिरेके द्वैता३०पत्तिरिति । प्रतिक्षिप्तश्च प्रधानाद्वैतवाद इति न पुनः प्रतिषिध्यते।
शब्दाद्वैतं तु नामनिक्षेपावसरे प्रतिक्षिप्तमिति न तद्भ्युपगमोऽपि श्रेयान् ।
ब्रह्माद्वैतवादस्यापि प्रागेव प्रतिषेधः कृत इति तदेव वा इति अयमपि पक्षो मिथ्यात्वम् । ततः कारणे परिणामिनि वा कार्यम् परिणामो वासदेव तावेव तावसदेव वा तत् तत्रेतिन कारणमेव
१-या विरोधस्य सिद्धेन बृ० ल०। २-क्षवृ-भां० मा० विना। ३ पृ० ४२७ पं० १०। ४ पृ० ४२२ गा० २७॥ ५ “हेतोरद्वैतसिद्धिश्चेत् द्वैतं स्याद् हेतु-साध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मात्रतो न किम्" ॥२६॥
-आप्तमी० पृ० १८, अष्टस० पृ० १६० । ६-तमिति प्र-आ०। "अद्वैतं न विना द्वैतादू अहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्याद् ऋते क्वचित्"॥ २७ ॥
-आप्तमी० पृ० १८, अष्टस• पृ० १६१ । ७-रूपिता-भां० मा० आ० ।-रूपता प्र. मां० बहिः । ८ तस्यापि विद्यमानत्वाद् द्वै-भां० मा० आ० । ९ "प्रमेय-प्रमातृ-प्रमिति" प्रभृति-मांटि.। १० पृ० ४२२ गा० २७॥ ११ सदेता-आ० ।