Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 493
________________ ४३४ प्रथमे काण्डेत्वात् स्फोटस्य तच्चैतन्याभ्युपगमे वा स्वशास्त्रविरोधः । नापि स्थितस्थापकः तस्यापि मूर्त्तद्रव्यवृत्तित्वात् स्फोटस्य चामूर्त्तत्वाभ्युपगमात् । किञ्च, असौ संस्कारः स्फोटस्वरूपः, तद्धर्मो वा? न तावदाद्यः कल्पः स्फोटस्य वर्णोत्पाद्यत्वप्रसक्तेः । नापि द्वितीयः व्यतिरिक्ताऽव्यतिरिक्तविकल्पानुपपत्तेः । तथाहि-असौ धर्मः स्फोटाद् व्यतिरिक्तः, अव्यतिरिक्तो वा? यद्यव्यतिरिक्तस्तदा तत्करणे स्फोट ५एव कृतो भवेदिति तस्यानित्यत्वप्रसक्तेः स्वाभ्युपगमविरोधः। अथ व्यतिरिक्तस्तदा तत्सम्बन्धा. नुपपत्तिस्तदनुपकारकत्वात् , तस्योपकाराभ्युपगमे व्यतिरिक्ताव्यतिरिक्त विकल्पः तत्रापि पूर्वोक्त एव दोषोऽनवस्थाकारी। न च व्यतिरिक्तधर्मसद्भावेऽपि स्फोटस्यानभिव्यक्तिस्वरूपव्यवस्थितस्य पूर्ववदर्थप्रतिपत्तिहेतुत्वम् तत्स्वरूपत्यागे वाऽनित्यत्वप्रसक्तिः। अथ न व्यतिरिक्तसंस्कारकृतमुपकारमपेक्ष्य पूर्वरूपपरित्यागादसावर्थप्रतिपत्तिं जनयति किन्तु संस्कारसहायोऽविचलितरूप एव एककार्यका१०रित्वस्यैव सहकारित्वाभ्युपगमात्; नन्वेवं वर्णानामप्यन्यकृतोपकारनिरपेक्षाणामेककार्यनिर्वर्त्तनलक्षणसहकारित्ववत् सहकारिसहितानामर्थप्रतिपत्तिजनने किमपरस्फोटकल्पनयाऽप्रमाणिकया का. र्यम् ? किञ्च, पूर्ववर्णैः संस्कारः स्फोटस्य क्रियमाणः किमेकदेशैः क्रियते, सर्वात्मना वा? यद्येकदेशैस्तदा ते ततोऽर्थान्तरभूताः, अनर्थान्तरभूता वा? यद्यर्थान्तरभूतास्तदा तेषां तदनुपकारे सम्बन्धासिद्धिः उपकारे व्यतिरिक्ताऽव्यतिरिक्तविकल्पोक्तदोषानुषङ्गः । न च समवायाद् अनुपका१५रेऽपि तेषां तत्सम्बन्धिता तस्यानभ्युपगमात् , परैरभ्युपगमे च स्वकृतान्तविरोधः अर्थान्तरभूतत्वे चैकदेशानाम् तेभ्य एवार्थप्रतिपत्तेः न स्फोटस्यार्थप्रत्यायकता। अपि चैकदेशानामर्थप्रतिपत्तिहे. तुत्वाभ्युपगमे च वरं वर्णानामेव तैदभ्युपगतम् एवं लोकप्रतीतिरनुसृता भवेत् । अथाव्यतिरिक्ता स्तदा स्फोटस्यैकेनैव संस्कृतत्वाद अपरवर्णोच्चारणवैयर्थ्यम। नच पूर्ववर्णसंवित्प्रभवसंस्कारसहितः तत्स्मृतिसहितो वाऽन्त्यवर्णः स्फोटसंस्कारकः एवंभूतस्यास्यार्थप्रतिपत्तिजननेऽपि २० शक्तिप्रतिघाताभावात् स्फोटपरिकल्पना निरवसरैव । अपि च, स्फोटसंस्कारः स्फोटविषयसंवेदनोत्पादनम् , उतावरणापनयनम् ? यद्यावरणापनयनम् तदैकत्रैकदाऽऽवरणापगमे सर्वदेशावस्थितैः सर्वदा व्यापिनित्यरूपतयोपलभ्येत तस्य नित्यत्व-व्यापित्वाभ्यामपगतावरणस्य सर्वत्र सर्वदोपलभ्यस्वभावत्वात् अनुपलभ्यस्वभावत्वे वा न केनचित् कदाचित् कुत्रचिदुपलभ्येत । अथैकदेशावरणापगमः क्रियते; नन्वेवमावृताऽनावृतत्वेन २५ सावयवत्वमस्यानुषज्येत । अथ निर्विभागत्वादेकत्रानावृतः सर्वत्रानावृतोऽभ्युपगम्यते तदा तदव स्थाऽशेषदेशावस्थितरुपलब्धिप्रसक्तिः यथा च निरवयवत्वादेकत्रानावृतः सर्वत्रानावृतस्तथा तत एवैकत्राप्यावृतः सर्वत्रैवावृतः इति मनागपि नोपलभ्येत । किञ्च, एकदेशाः स्फोटादर्थान्तरम् , अनर्थान्तरं वा? अर्थान्तरत्वेऽपि शब्दस्वभावाः अशब्दात्मका वा? यद्यशब्दात्मका नार्थप्रतिपत्तिहेतवः। अथ शब्दस्वभावास्तत्रापि यदि गोशब्दस्वभावास्तदा गोशब्दानेकत्वप्रसक्तिः। अथ ३० अगोशब्दस्वरूपा न तर्हि गवार्थप्रत्यायका भवेयुः। अथाव्यतिरिक्तास्तदा स्फोट एव संस्कृत इति सर्वदेशावस्थितैयापिनस्तस्य प्रतिपत्तिप्रसक्तिरिति पूर्वोक्तमेव दूषणम् । किञ्च, एकदेशावरणापाये स्फोटस्य खण्डशः प्रतिपत्तिः प्रसज्येत । अथ स्फोटविषयसंविदुत्पादस्तत्संस्कारः सोऽपि न युक्तः, वर्णानामर्थप्रतिपत्तिजनन इव स्फोटप्रतिपत्तिजननेऽपि सामर्थ्यासम्भवात् न्यायस्य समानत्वात् । यदि च स्फोट उपलभ्यस्वभावः सर्वदोपलभ्येत, अनुपलभ्यस्वभावत्वे आवरणापगमेऽपि तत्स्वभा३५वानतिक्रमाद् मनागपि नोपलभ्येत इत्यर्थाप्रतिपत्तितः शाब्व्यवहारविलोपः। अनेनैव न्यायेन वायूनामपि तव्यञ्जकत्वमयुक्तम् वायूनां च व्यञ्जकत्वपरिकल्पने वर्णवैफल्यप्रसक्तिः स्फोटाभिव्यक्तावर्थप्रतिपादने वा तेषामनुपयोगात् स्थिते च स्फोटस्य वर्णोच्चारणात् प्राक् सद्भावे वर्णानाम् वायूनां वा व्यजकत्वं परिकल्प्येत । न च तत्सद्भावः कुतश्चित् प्रमाणावगत १-याऽप्रामा-वा. बा०। २-गमेवा ख-वृ० ल. वा. बा.। ३ तदू "अर्थप्रत्यायकत्वम्"-ल. टि.। ४-रक ए-बृ०। ५-तस्यार्थ-भां० मां०। ६ अस्य "अन्त्यवर्णस्य"-बृ० ल. टि०। ७-वा स्फो-वा० बा. भां०। ८ "निरवयवत्वादेव"-बृ० ल. मां. टि.। ९प्र० पृ. पं० २२। १०-माभावा-भां• मां० । ११ "स्फोट" व्यजकत्वम्-बृ० ल. मां० दि०। १२ "वायुभिरेव तयोः कुतत्वातू"-बृ० ल० मा० टि.।

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516