Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 486
________________ नयमीमांसा। ४२७ किञ्च, कारणसत्तासमये कार्यस्याभवतः स्वयमेव पश्चाद् भवतः तदकार्यत्वप्रसक्तिश्च । तथाहि-यस्मिन् सति यन्न भवति असति च भवति तत् तस्य न कार्यम् इतरच्च न कारणम् , यथा कुलालस्य पटादिः। क्षणक्षयपक्षे च प्रथमक्षणे कारणाभिमतभावसद्भावे न भवति कार्यम् असति तस्मिन् द्वितीयक्षणे भवति चेति ने तत् तत्कार्य इतरञ्च तत्कारणमिति हेतुफलभावाऽभावस्य तन्मात्रनिबन्धनत्वात् । अत एव क्षणिकाद् अर्थक्रिया व्यावर्त्तमाना खं व्याप्यं सत्त्वलक्षणमादाय निवर्त्तत५ इति यत्र सत्त्वं तत्राऽक्षणिकत्वं सिद्धिमासादयति । न च कार्यकालेऽभवतोऽपि कारणस्य प्राक्तनानन्तरक्षणभावित्वात् कारणत्वम् कार्यकाले खयमेवाभवतोऽकारणान्तरवत् कारणत्वायोगात् कार्यस्य च कारणकाले आत्मनैवाऽभवतः कार्यान्तरवत तत्कार्यत्वानुपपत्तेः। क्षणिकस्य च प्रमाणाविषयत्वान्न तत्र कार्यकारणभावपरिकल्पना युक्तिसङ्गता। न चानुपलब्धेऽपि तत्र कार्यकारणभावव्यवस्था अतिप्रसङ्गात् । न च क्षणक्षयमीक्षमाणोऽपि सदृशापरापरोत्पत्त्यादिविभ्रम निमित्ताद् १० नोपलक्षयतीति वक्तव्यम् यतो नाध्यक्षात् क्षणक्षयमलक्षयंस्तत्र कार्यकारणभावं व्यवस्थापयितुं शक्नोति, नाप्यनुमानात् क्षणिकत्वं व्यवस्थापयितुं समर्थः, तस्य स्वांशमात्रावलम्वितया वस्तु. विषयत्वायोगात् । न च मिथ्याविकल्पेनाध्यवसितं क्षणिकत्वं वस्तुतो व्यवस्थापितं भवति । यदपि 'अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधात्' इत्याद्युक्तम् , तदपि सहकारिसन्निधानवशादक्षणिकस्य क्रमेणार्थक्रियां निर्वर्त्तयतोऽयुक्तमेव । यदप्युक्तम् 'तत्करणस्वभावश्चदक्षणिकः १५ प्रागेव तत्करणप्रसङ्गः पश्चादिव स्वभावाविशेषात्' इति, तदप्ययुक्तम् । यतो ने वै किञ्चिदेकं जनकम् सामग्रीतः फलोत्पत्तेः । अक्षणिकश्च सामग्रीसन्निधानापेक्षया कार्य निर्वर्तनस्वभावः केवलस्तु तदकरणस्वभावः। न च तदा भाविकार्याकरणादवस्तुत्वम् , क्षणिकेऽपि प्रथमक्षणे कार्याकरणादवस्तुत्वप्रसक्तेः । अत एकत्र कारणान्तरापेक्षानपेक्षाभ्यां जनकत्वाजनकत्वे अविरुद्ध यतः न क्षणिकवाद्यभ्युपगतक्षणस्यापि सम्बन्ध्यन्तरसन्निधानासन्निधानकृतः स्वभावभेदः अन्यथा २० अनेकसामग्रीसन्निपातिन एकक्षणस्यैकदा विलक्षणानेककार्योत्पादनेऽनेकत्वप्रसक्तिर्भवेत् दृश्यते च प्रदीपक्षणस्य समानजातीयक्षणान्तरकजलचक्षुर्विज्ञानाद्यनेककार्यनिर्वर्तकत्वमेकस्य नानासामग्र्युपनिपातिन इति क्रमेणाप्यक्षणिकस्य तदविरुद्धम् । यथा चैकक्षणस्य स्वपरकार्यापेक्षयैकदा जनकत्वाजनकत्वे अविरुद्ध तथा अक्षणिकस्यापि सहकारिकारणसन्निधानाऽसन्निधानाभ्यां क्रमेण कार्यजनकत्वाजनकत्वे न "विरोत्स्यते । विज्ञप्तिपरमाणपक्षऽपि यथको शानपरमाणुः सम्वन्ध्यन्तरजनितस्वभावभेदेऽप्यभिन्नः अन्यथा दिक्षट्कयोगात् सावयवत्वकल्पनया अवस्तुत्वप्रसक्तेः सेना-वनादिवत् स्वसंविदि निर्विकल्पिकायाम प्रतिभासतः सर्वप्रतिभासविरतिर्भवेत् एवमक्षणिकोऽपि क्रमभाव्यनेकतत्तत्सहकारिसम्बन्ध्यन्तरसव्यपेक्षकार्यजननस्वभावमेदेऽप्यभिन्नोऽभ्युपगन्तव्यः जनकत्वाजनकत्वमेदेऽपि वाऽभिन्नस्वभाव इति नाक्षणिकेऽर्थक्रियाविरोधः। न च क्षणक्षये अध्यक्षप्रवृत्तिव्यतिरेकेण अक्षणिके अर्थक्रियाविरोधः सि-३० ध्यति इतरेतराश्रयप्रसक्तेः-तथाहि-अक्षणिकत्वे अर्थक्रियाविरोधात् प्रतिक्षणविशरारुषु अध्यक्षप्र १-श्चाद्भाव-बृ० । “सत्यभवतः खयमेव नियमेन पश्चाद् भवतस्तत्कायेत्वं विरुद्धम्" सति "कारणत्वेनाभिमते पूर्वक्षणे" अभवतः "उत्तरक्षणलक्षणकार्यस्य" खयमेव "पूर्वक्षणरूपकारणमन्तरेण" तत्कार्यत्वम् "पूर्वक्षणकार्यत्वम" अष्टश तथा टि.अं.२-३-४-५ अष्टस० पृ. ९० पं०१। २ न तत्का-भां० मा० आ०। ३-ना स्वव्यावा० बा० आ०। ४ व्याप्य स-भां० मां०। ५-यतो का-वा० बा० भां० मा० आ०।६ "अनमानस्य" बृ० ल• टि०। ७-कल्पना-आ०। ८-स्तुनो व्य-वा. बा. भां० मा० विना। ९ “यथोक्तम् "न किश्चिदेकमेकस्मात् सामन्याः सर्वसंभवः"-तत्त्वसं० पजि. पृ. १५५५० १४ । १. कत्ववाद्य-वा. बा०।-कत्वाद्य-आ०। ११-कत्वाप्र-ल. भां० मा० ।-कत्वप्र-प्र. मां. बहिः । १२-नादने-भां० मा० ।-नाद्यने-प्र० मा० बहिः। १३ विरात्स्येते आ० । विरात्स्यते वा० बा०। १४-सम्बन्धान्त-आ० । १५-त्वभेदेऽप्यभिन्न-आ० ।-त्वमेदेऽपि वा अभ्युपगन्तव्य भिन्न-भां० मा० । १६ “अभ्युपगन्तव्यः" इति शेषः-मां. टि.।

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516