Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 484
________________ नयमीमांसा । ४२५ त्योर्यौगपद्यासम्भवात् असत्वेऽप्यधिकरणत्वविरोधः असतोऽधिकरणत्वायोगात् तस्य वस्तुधर्मत्वात् । अथ कारणं निवृत्तेर्नाधिकरणम् अपि तु तद्धेतुः, न निवृत्तेरुत्तर कार्यवत् तत्कार्यत्वप्रसङ्गात् तदनभ्युपगमे कारणस्य तद्धेतुत्वप्रतिज्ञाहानिः अकार्यस्य तद्धेतुत्वविरोधात् अविरोधे वन्ध्याया अपि सुतं प्रति हेतुत्वप्रसक्तेः । न च कारणा हेतुकैव कारणनिवृत्तिः, कारणानन्तरभावित्वविरोधात् । न च कारणहेतुका तन्निवृत्तिः, कारणसमानकालं तदुत्पत्तिप्रसङ्गतः प्रथमक्षण एवं कारणस्यानुपलब्धि- ५ प्रसक्तेः उपलम्भे वा न कदाचित् कारणस्यानुपलब्धिर्भवेत् तन्निवृत्त्याऽविरुद्धत्वात् । न च कारण निवृत्तिः स्वहेतुका, स्वात्मनि क्रियाविरोधात् । न च निर्हेतुकैव कारणानन्तरमेव तस्या भावविरोधात् अहेतोर्देशादिनियमाभावात् । अथ न कारणं निवृत्तेर्हेतुः अधिकरणं वा किन्तु स्वयमेव न भवति, नन्वत्रापि किं स्वसत्तासमय एव स्वयं न भवति, आहोस्विदुत्तरकालमिति विकल्पद्वयानतिक्रान्तिः । यदि प्राक्तन विकल्पस्तदा १० कारणानुत्पत्तिप्रसङ्गः प्रथमक्षण एव निवृत्त्याऽऽक्रान्तत्वात् उत्पत्त्यभावे न निवृत्तिरपि अनुत्पन्नस्य विनाशासम्भवात् । नापि द्वितीयः तदा निवृत्तिभवने उत्पन्नाऽनुत्पन्नतया कारणस्वरूपाऽभवनयोस्तादात्म्यविरोधात् यदि हि स्वसत्ताकाल एव न भवेत् तदा भवनाऽभवनयोरविरोधात् “स्वयमेव भावो न भवेत्" [ ] इति वचो घंटेत नान्यथा । न च जैन्मानन्तरं भावाभावस्य भावात्मकत्वात् तदव्यतिरिक्त एवाभावः नन्वेवमपि जन्मानन्तरं 'स एव न भवति' इत्यनेन १५ अभावस्य भावरूपतैवोक्तेत्युत्तरकालमपि कारणानिवृत्तेस्तथैवोपलब्ध्यादिप्रसङ्गः । भावस्य अभावात्मकत्वान्नायं दोष इति चेत्, नः अत्रापि पर्युदासाभावात्मकत्वं भावस्य प्रसज्यरूपाभावात्मकत्वं वा ? प्रथमपक्षे स्वरूपपरिहारेण तदात्मकतां प्रतिपद्यते, अपरिहारेण वा ? प्रथमपक्षे स्वभवनप्रतिषेधपर्यवसानत्वान्न पर्युदासाभावात्मको भावो भवेत् । न चासौ तथा तड्राहकप्रमाणाभावात् तथाभूतभावग्राहक प्रमाणाभ्युपगमे च प्रसज्यपर्युदासात्मको भावो भवेदित्यनेकान्त- २० प्रसिद्धिः । द्वितीयपक्षेऽपि न पर्युदासः अनिषिद्धतत्स्वरूपत्वात् पूर्वभावस्वरूपवत् । प्रसज्यरूपाभावात्मकत्वेऽपि भावस्य प्रतिषिध्यमानस्याश्रयो वक्तव्यः न तावत् मृत्पिण्डलक्षणं कारणमाश्रयः तस्य प्रतिषिध्यमानत्वात् निषिध्यमानस्य चाश्रयत्वानुपपत्तेः । नापि घटलक्षणं कार्यमाश्रयः, कारणनिवृत्तेर्हि प्रागू घटस्यासत्वेन 'अयम्' इतिप्रत्ययाविपयत्वात् 'अयं' प्रत्ययविषयत्वे च 'अयं ब्राह्मणो न भवति' 'ब्राह्मणादन्योऽयम्' इति च प्रसज्यपर्युदास व्यवहारो दृष्टः नान्यथेति प्रतिषेध-: प्रधान विध्युपसर्जन विधिप्रधान प्रतिषेधोपसर्जनयोः शब्दयोः प्रवृत्तिनिमित्तधर्मद्वयाधारभूतं द्रव्यं विषयत्वेनाभ्युपगन्तव्यमन्यथा तदयोगात् । तथा चानेकान्तवादापत्तिरयत्न सिद्धेति तथाभूतस्यै तस्य वस्तुनः प्रमाणबलायातस्य निषेद्धुमशक्यत्वात् । एकान्तेन घटस्योत्पत्तेः प्रागस्तित्वे क्रियायाः प्रवृत्यभावः फलसद्भावात् तत्सद्भावेऽपि प्रवृत्तावन वस्थाप्रसक्तेः । कारणेऽप्येतद विशेषतस्तद्वैत् सङ्गे द्वयोरप्यभावप्रसङ्गः । न चैतदस्ति तथाऽप्रतीतेः । तन्न मृत्पिण्डे घटस्य सत्त्वम् । २५ नाप्येकान्ततोऽसत्वम्, मृत्पिण्डस्यैव कथञ्चित् घटरूपतया परिणतेः । सर्वात्मना पिण्डनिवृत्तौ पूर्वोक्तदोषानतिवृत्तेः घटसदसत्त्वयोराधारभूतमेकं द्रव्यं मृलक्षणमेकाकारतया मृत्पिण्डघटयोः प्रतीयमानमभ्युपगन्तव्यम् । न च कारणप्रवृत्तिकाले कारणगता मृदूपता तन्निवृत्तिकाले च कार्यगता सापरैव नोभयत्र मृद्रूपताया एकत्वम्, भेदप्रतिपत्तावपि मृत्पिण्ड - घटरूपतया कथञ्चिदेकत्वस्यावाधितप्रत्ययगोचरत्वात् उपलभ्यत एव हि कुम्भकारव्यापारसव्यपेक्षं मृद्रव्यं ३५ १" कार्यत्ववत् " - बृ० टि० । २ " कार्यत्वा" मभ्युपगमे वृ० टि० । मा० । च कारणहे - बृ० सं० । ४ घटते भां० मां० । घटेत प्र० मां० नन्तरं प्र० मां० बहिः । ६ "भावा" व्यतिरिक्तः घृ० ल० मां० टि० । बहिः । ८ "पर्युदासात्मको (S)भावः " - वृ० ल० टि० । “पर्युदासात्मकोऽभावः " - मां०] टि० । हाररूपतया " - बृ० ल० मां० टि० । १०-पगमे वा प्र-० ल० वा० बा० । १४- कान्तघट-आ० । का - आ० । १३ -स्य वस्तु वा० वा० आ० । टि० । १६ “ कार्यवत् " - बृ० ल० मां० टि० १७ प्रसङ्गेन द्व-आ०। १८ “कारण-कार्ययोः” - बृ० ल० मां० । टि० । ३ च कारण कारण हे वृ० भा० बहिः । ५ जन्मान्तरं मां० । जन्मा७- रण नि-मां० । रणानि - प्र० मां० ९ तथा " स्वरूपपरि११- त्मकेऽपि मां० । १२ - क्षण १५ " सत्त्वाविशेषात् बृ० ल० मां० “क्रियायाः " प्रसङ्गे - बृ० ल० मां० टि० । १९ चैवत - आ० । २० कारणनिवृ-प्र० मां० बहिः । ३०

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516