Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 483
________________ ४२४ प्रथमे काण्डे[ (३) वैशेषिकाभिमतत्वेनोपन्यस्तस्यासत्कार्योत्पत्तिवादस्य निरसनम् ] । मृत्पिण्डावस्थायां घटार्थक्रिया-गुणव्यपदेशाभावात् 'असदुत्पद्यते कार्यम्' इत्ययमप्येकान्तो मिथ्यावाद एव । कार्योत्पत्तिकाले कारणस्याविचलितरूपस्य कार्याव्यतिरिक्तस्य सत्त्वे पूर्वोक्क दोषप्रसङ्गात् । तद्यतिरिक्तस्य तस्य सद्भावे कारणस्य प्राक्तनस्वरूपेणैवावस्थितत्वात् अकारणा ५कार्योत्पत्तिर्भवेत् कारणस्य प्राक्तनाऽकरणस्वरूपापरित्यागात् परित्यागे वा कार्यकरणस्वरूपस्वीकारेण तस्यैवावस्थितत्वादनेकान्त सिद्धिः । व्यतिरेके च कारणात् कार्यस्य पृथगुपलम्भप्रसङ्गः। न च तदाश्रितत्वेन तस्योत्पत्तेर्न तेत्प्रसङ्ग इति वक्तव्यम्, अवयविनः समवायस्य च निषेत्स्यमानत्वात् निषिद्धत्वाच्च। [(४) बौद्धाभिमतत्वेनोपन्यस्तस्य 'कारणाद् भिन्नं कार्य तत्रासदेव' इति वादस्य निरसनम् ] १० कारणाद् व्यतिरिक्तं तत्र असदेव कार्यमित्ययमपि पक्षो मिथ्यात्वमेव । तथाहि-एकान्ततो निवृत्ते कारणे कार्यमुत्पद्यत इत्यत्र कारणनिवृत्तिः सद्रूपा, असद्रूपा वेति वक्तव्यम् । सद्रूपत्वेऽपि न तावत् कारणस्वरूपा, कारणस्य नित्यत्वप्रसक्तेः निवृत्तिकालेऽपि कारणसद्भावात् । न चाविचलितस्वरूपमृत्पिण्डसद्भावे घटोत्पत्तिदृष्टेति कार्यानुत्पत्तिप्रसक्तिश्च । नापि कार्यरूपा तन्निवृत्तिः कारणानिवृत्ती कार्यस्यैवानुत्पत्तेः । एवं च कार्यानुत्पादकत्वेन कारणस्याप्यसत्त्वमेव । न च कार्योत्पत्तिरेव कारण१५ निवृत्तिरिति कारणानिवृत्तेर्न कार्योत्पत्तिरिति नायं दोषः, कार्यगतोत्पादस्य कारणगतविनाशरूपत्वायोगात् भिन्नाधिकरणत्वात् कारण निवृत्तेश्च कार्यरूपत्वे कारणं कार्यरूपेण परिणतमिति घटस्य मृत्स्वरूपवत् कपालेष्वप्युपलब्धिप्रसङ्गः। नाप्युभयरूपा तन्निवृत्तिः, कारण निवृत्तिकाले कार्य-कारणयोर्युगपदुपलब्धिप्रसक्तेः। नाप्यनुभयस्वरूपा तन्निवृत्तिः, मृत्पिण्डविनाशकाले विवक्षितमृत्पिण्डघटव्यतिरिक्ताऽशेषजगदुत्पत्तिप्रसक्तेः। अथ असद्रूपा तन्निवृत्तिः तत्रापि यदि कारणाभावरूपा २० तदा कारणाभावात् कार्योत्पादप्रसक्तेर्निर्हेतुकः कार्योत्पाद इति देश-कालाऽऽकारनियमः कार्यस्य न स्यात् अभावाञ्च कार्योत्पत्तौ विश्वमदरिद्रं भवेत् । नापि कार्याभावरूपा तन्निवृत्तिः कार्यानुत्पत्तिप्रसङ्गात् । नाप्युभयाभावस्वभावा द्वयोरप्यनुपलब्धिप्रसक्तेः। नाप्यनुभयाभावरूपा विवक्षितकारण-कार्यव्यतिरेकेण सर्वस्यानुपलब्धिप्रसक्तेः कारणस्योपलब्धिप्रसक्तेश्च । कारणभावाभावरूपापि न तन्निवृत्तिः, कारणस्यानुगतव्यावृत्तताप्रसक्तेः । अत एव च सदसद्रूपं स्व-पररूपापेक्षया अनेकान्त२५वादिमिर्वस्त्वभ्युपगम्यते । पररूपेणेव स्वरूपेणाप्यसत्त्वे वस्तुनो निःस्वभावताप्रसक्तेः । स्वरूपवत् पररूपेणापि सत्त्वे पररूपताप्रसक्तेः। एकरूपापेक्षयैव सदसत्त्वविरोधात् अन्यथा वस्त्वेव न भवेत् । नापि कार्यभावाभावरूपा, कार्यस्योत्पत्त्यनुत्पत्त्युभयरूपताप्रसक्तेः तथा च सिद्धसाध्यता केवलोभयपक्षोक्तंदोषप्रसक्तिश्च । नापि कार्यकारणोभयभावाभावरूपा, प्रत्येकपक्षोदितसकलदोषप्रसक्तेः। परस्परसव्यपेक्षकार्यकारणभावाभावरूपकारणनिवृत्त्यभ्युपगमेऽनेकान्तवादप्रसक्तिश्च । नाप्यनुभय३० भावाभावरूपा अनुभयरूपस्य वस्तुनोऽभावात् । न च तन्निवृत्तेः सत्त्वम् एकान्तभावाभावयोर्वि रोधात । अनुभयभावाभावरूपत्वे तु तस्याः कारणस्याऽप्रच्यतत्वात तथैवोपलब्धिप्रसङ्गः। अपि च, कारणनिवृत्तिस्तत्वरूपाद मिन्ना, अभिन्ना वा? यद्यभिन्ना, निवृत्तिकालेऽपि कारणस्योपलब्धिप्रसङ्गः तन्निवृत्तेः कारणात्मकत्वात् स्वकालेऽपि वा कारणस्योपलब्धिर्न स्यात् तस्य तन्निवृत्तिरूपस्वात् । भिन्ना चेत् 'कारणस्य निवृत्तिः' इति सम्बन्धाभावात् अभिधानानुपपत्तिः। सङ्केतवशात् ३५ अभिधानप्रवृत्तावपि आधेयनिवृत्तिकाले अधिकरणस्य सत्त्वम् असत्त्वं वेति वक्तव्यम् । सत्वे कारः णविनाशानुपपत्तिः आधेयनिवृत्त्या कारणस्वरूपस्याऽऽधारस्याऽविरोधात् विरोधे वा कारण-तन्निवृ. १घटाद्यर्थ-मा. आ.वि.। २-रणे का-वृ० ल० वा. बा. विना।-रणका-भां०। ३-नाकारणमां०। ४ कार्यकार-वा. बा. मां०। ५ "पृथगुपलम्भः"-मां. टि.। ६ पृ० १०६५०९। ७-पालेखूपल-बृ० ल० ।-पालेष्टपल-वा. बा० । ८ "घटस्यानिवृत्तेः"-मां० टि०। ९ प्र. पृ० पं० १३ तथा पं० २१॥ १० प्र० पृ. पं० १७ तथा २२ । ११-गमे । ने-बृ०। १२ तस्य का-बृ०। ल. सं० । १३ "कारण"खरूपातू-बृ. ल.टि.। १४ "आधेया चासौ निवृत्तिश्च"-मांटि।

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516