Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 482
________________ नयमीमांसा । ४२३ 'दिष्वावल्यादिः क्षीरादिषु दध्यादिर्वा यो यत्र अर्थः ते मण्यादय आवल्यादि कार्यम् क्षीरं वा दध्यादिकैम् तत्र तत्सद्भावात् तस्य तत्परिणामरूपत्वात् । 'समूह सिद्ध:' 'परिणामकृतो वा' इति aureurari लौकिकव्यवहारापेक्षया । परमार्थतस्तु परमाणुसमूहपरिणामात्मकत्वात् सर्व एव समूहकृतः परिणामकृतो वेति न भेदः । [ ( १ ) सांख्याभिमतत्वेनोपन्यस्तस्य सत्कार्यवादस्य निरसनम् ] अयं चाभ्युपगमो मिथ्या । तथाहि - यद्येकान्तेन कारणे कार्यमस्ति तदा कारणस्वरूपवत् कार्यस्वरूपानुत्पत्तिप्रसक्तिः । न हि सदेवोत्पद्यते उत्पत्तेरविरामप्रसङ्गात् । न च कारणव्यापारसाफयम् तैयापार निर्वर्त्यस्य विद्यमानत्वात् । तथाहि कारणव्यापारः किं कार्योत्पादने, आहोस्वित् कार्या भिर्व्यक्तौ, उत तदावरणविनाशे इति पक्षाः । तत्र न तावत् कार्योत्पादने, तस्य सत्त्वे कारकव्यापारवैफल्यात् असत्वे स्वाभ्युपगमविरोधात् । अभिव्यक्तावपि पक्षद्वयेऽप्येतदेव दूषणम् । आवरणवि- १० नाशेऽपि न कारकव्यापारः, सतो विनाशाभावात् असतो भावस्योत्पादवत् । तन्न सत्कार्यवादे कर कव्यापार साफल्यम् । न चान्धकारपिहितघटाद्यनुपलम्भे अन्धकारोपलम्भवत् कार्यावारकोपलम्भः येन प्रतिनियतं किञ्चित् तदावारकं व्यवस्थाप्येत । न च कारणमेव कार्यावारकम् तस्य तदुपकारकत्वेन प्रसिद्धेः न ह्यालोकादि रूपज्ञानोपकारकं तंदावारकत्वेन वकुं शक्यम् । किञ्च, आवारकस्य मूर्त्तत्वे कारणरूपस्य न कार्यस्य तदभ्यन्तरप्रवेशः मूर्त्तस्य मूर्त्तेन प्रतिघातात् अप्रतिघाते च यथा १५ कार्य कारणाभ्यन्तरप्रविष्टत्वात् तेन आवृतमिति नोपलभ्यते तथा कारणस्याप्यनुपलब्धिप्रसङ्गः अप्रतिघातेन तदनुप्रविष्टत्वाविशेषात् । अथ अन्धकारवत् तद्दर्शनप्रतिबन्धकत्वेन तद् आवारकम् ; नवे दर्शनेऽपि तस्य स्पर्शोपलम्भप्रसङ्गः तैस्याप्यभावे तैस्याऽसत्त्वमिति तद् आवारकं तत्स्वरूपविनाशकं प्रसक्तम् । न च पटादेरिव घटादिकं प्रति कारणस्य कार्याssवारकत्वमिति न स्पर्शोपलब्धिः, पटध्वंसे इव मृत्पिण्डध्वंसे तदावृतकार्योपलब्धिप्रसङ्गात् एकाभिव्यञ्जकव्यापारादेव २० सर्वव्यङ्गयोपलब्धिश्च भवेत् एकप्रदीपव्यापारात् तत्सन्निधानव्यवस्थिताने कघटादिवत् । किञ्च, कारणकाले कार्यस्य सत्वे स्वकाल इव कथमें सौ तेनांवियते ? नापि मृत्पिण्डकार्यतया पटादिवत् घटो व्यपदिश्येत, असत्त्वे च नावृतिः अविद्यमानत्वादेव । एकान्तसतः करणविरोधात् असदकरणादिभ्यो न सत्कार्यसिद्धिः । प्रतिक्षिप्तश्च प्रागेव सत्कार्यवाद इति न पुनरुच्यते । ५ [ (२) सांख्यविशेषमतत्वेनोपन्यस्तस्य कारणात्मक परिणामवादस्य निरसनम् ] अनर्थान्तरभूत परिणामवादोऽपि प्रतिक्षिप्त एव । न हि अर्थान्तरपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरेकत्वविरोधात् । न च परिणामाभावे परिणामिनोऽपि भावो युक्तः परिणाम निबन्धनत्वात् परिणामित्वस्य । अभिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मतया एकस्य वृत्तिलक्षणः परिणामो न युक्तियुक्तः । तन्नैकान्ताभेदे कारणमेवानर्थान्तरकार्यरूपतया परिणमत इति स्थितम् । २५ ३० १ “यथाक्रमं योगः " - बृ० ल० मां० दि० । २ " समूहः " - मो० टि० । ३ परिणामः " - मां०] टि० । ४ तस्य परि-प्र० मां० बहिः । ५ " कारणव्यापार " - वृ० ल० मां० टि० । ६ - व्यक्तात वृ० । यथा 'तेऽत्र' 'कोऽत्र ' इत्यादौ अकारलोपे तत्सूचकम् अवग्रहाभिधेयं चिह्नं विधीयते तथा पुरातनप्रतिषु 'व्यक्तौ उत' इत्यस्य संधौ 'व्यक्तावत' इति निष्पन्ने 'वु' इत्यस्य शिरसि ७ इति चिह्नम् उकारसूचकं विहितं लिपिकारैः इति प्रदर्शनार्थमयं पाठो न्यस्तः नैतत् पाठान्तरम् । ७ “ सदसत्व " (त्व) रूपपक्षद्वये मां० टि० । ८ कारणव्या - बृ० ल० भ० हा० विना । ९ "ज्ञानावारकत्वेन" - मां० टि० । १० " कार्यदर्शन" - बृ० ल० मां० टि० । ११ " कारण " - मां० टि० । १२ " कार्यस्य"मां० टि० । १३ तस्य " स्पर्शस्य" - मां० टि० । १४ तस्य " कार्यस्य " - मां० टि० । १५ - शकत्वं प्रवृ० ल० वा० बा० विना । १६ “ कार्यरूप भावः " - बृ० ल० टि० । “कार्यरूपोऽभावः " मां० टि० । १७ तेन " कारणेन"बृ० ल० मां० टि० । १८ - सत्कर-आ० हा० । १९ “ असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ साङ्ख्य सप्ततौ” ( साङ्ख्यका ० ९ ) - भ० मां० दि० । पृ० २८२०१८ । २० पृ० २९६ पं० ८ । २१-क्षण प-मां० आ० हा ० वि० ।

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516