Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 480
________________ ४२१ नयमीमांसा। जहणेयलक्खण-इत्यादि जहणेयलकवणगुणा वेरुलियाई मणी विसंजुत्ता। रयणावलिववएसं न लहंति महग्घमुल्ला वि ॥ २२॥ तह णिययवायसुविणिच्छिया वि अण्णोण्णपक्वणिरवेक्खा। सम्मइंसणसहं सव्वे वि णया ण पावेंति ॥ २३ ॥ जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा। 'रयणावलि'त्ति भण्णइ जहंति पाडिकसण्णाउ ॥ २४ ॥ तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा । सम्मइंसणसई लहन्ति ण विसेससण्णाओ॥ २५ ॥ यथा अनेकप्रकारा विषविघातहेतुत्वादीनि लक्षणानि नीलत्वादयश्च गुणा येषां ते १० वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ॥२२॥ तथा प्रमाणावस्थायाम् इतरसव्यपेक्षस्वविषयपरिच्छेदकाले वा खविषयपरिच्छेदकत्वेन सुनिश्चिता अपि अन्योन्यपक्षनिरपेक्षाः 'प्रमाणम्' इत्याख्या सर्वेऽपि नया न प्राप्भवन्ति निजे च इतरनिरपेक्षसामान्यादिवादे सुविनिश्चिता हेतुप्रदर्शनकुशला अन्योन्यपक्षनिरपेक्षत्वात् सम्यग्दर्शनशब्दं 'सुनयाः' इत्येवंरूपं सर्वेऽपि संग्रहादयो नया न प्रामुवन्ति ॥ २३ ॥ १५ यदा पुनस्त एव मणयो यथा गुणविशेषपरिपाट्या प्रतिबद्धाः 'रत्नावलि' इति आख्यामासादयन्ति प्रत्येकाभिधानानि च त्यजन्ति रत्नानुविद्धतया रत्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः 'रत्नावली' इति तत्र व्यपदेशः न पुनः प्रत्येकाभिधानम् ॥ २४ ॥ तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्या इति यथा इति वीप्साथै अनु इति सादृश्ये रूपम् इति स्वभावे तेनानुरूपमित्यव्ययीभावः पुनर्यथाशब्देन स एव "यथाऽसा-२० दृश्ये” [पाणि० अ०२ पा०१ सू०७ सिद्धान्तकौ० अं० ६६१ पृ० १६३] इत्यनेन । यद् यदनुरूपं तत्र विनिर्युक्तं वक्तव्यं उपचारात् तद्वाचकः शब्दो येषां ते तथा-यथानुरूपद्रव्यध्रौव्यादिषु प्रमाणात्मकत्वेन व्यवस्थिताः सम्यगूदशेनशब्द 'प्रमाणम्' इत्याख्या लभन्त न विशेषसंज्ञा: पृथग्भूतामिधानानि एकानेकात्मकत्वेन चैतन्यप्रतिपत्तेरन्यथा चाप्रतिपत्तेरिति । ननु नय-प्रमाणास्मकचैतन्यस्याध्यक्षसिद्धत्वेन 'रत्नावलि' इति दृष्टान्तोपादानं व्यर्थम्, न अध्यक्षसिद्धमप्यनेका-२५ न्तमनभ्युपगच्छन्तं प्रति व्यवहारसाधनाय दृष्टान्तोपादानस्य साफल्यात् । प्रवर्तितश्च तेनापि तत्रानेकान्तव्यवहारः॥२५॥ १-सद्दा स-ल.। २-रूपं चि-बृ०। ३ अत्र मूलगाथागत 'विणिउत्त' इति प्राकृतपदानुसारेण 'विनियक्त' इत्येव सम्यग् भाति, 'विनियुक्त'इत्यस्य तु प्राकृतपदम् 'विणिजुत्त' इति भवेत्। ४ “अव्ययीभावः"-बृ० ल. मांटि ५ “यथाऽथा" | ३।१।४१। हैम०। ६ “सत्रेण"-बृ० ल. मा० टि०। ७ “वक्तव्ये" उपचारात् बृ. ल. मां. टि०। ८-द्धत्वे र-बृ० वा. बा० । ५४ स० त०

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516