Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 478
________________ नयमीमांसा। बंधम्मि अपूरन्ते संसारभओघदन्सणं मोझं । बन्धं व विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ॥२०॥ बन्धे वाऽसति संसारो जन्म-मरणादिप्रबन्धस्तत्र तत्कारणे वा मिथ्यात्वादावुपचारात् तच्छब्दवाच्ये भयोघो भीतिप्राचुर्यम् तस्य दर्शनम् ‘सर्व चतुर्गतिपर्यटनं दुःखात्मकम्' इति पर्यालोचनं मौढ्यं मूढता अनुपपद्यमानसंसारदुःखौघविषयत्वात् मिथ्याज्ञानं वन्ध्यासुतजनितबाधा-'५ गोचरभीतिविषयपर्यालोचनवत् मिथ्याज्ञानपूर्विका च प्रवृत्तिर्विसंवादिन्येव, बन्धन विना संसारनिवृत्ति-तत्सुखप्रार्थना च न भवत्येव तथा मोक्षश्चानुपपन्नः निरपराधपुरुषवत् अबद्धस्य मोक्षासम्भवात्, बन्धाभावश्च योग-कषाययोः प्रकृति-स्थिति-अनुभाग-प्रदेशात्मकबन्धहेत्वोरेकान्तपक्षे विरुद्धत्वात् । न चैकरूपत्वात् ब्रह्मणो बन्धाद्यभावप्रेरणा न दोषाय, चेतनाऽचेतनादिभेदरूपतया जगतः प्रतिपत्तेः। न च भेदप्रतिपत्तिर्मिथ्या अविद्यानिर्मितत्वादिति वक्तव्यम१० अविद्यायाः प्रतिपत्तिजननविरोधात्, अविरोधे विद्यारूपताप्राप्तेद्वैतप्राप्तिरिति । प्रतिविहितैश्चाद्वै. तवाद इति न पुनः प्रतन्यते ॥ २०॥ [ सर्वेषामपि नयानामन्योऽन्यानिश्रितत्वे मिथ्यात्वम् अन्योन्यनिश्रितत्वे पुनः सम्यक्त्वमिति प्रतिपादनम् ] तदेवमेकान्ताभ्युपगमे बन्धहेत्वाद्यनुपपत्तरैहिकाऽऽमुष्मिकसर्वव्यवहारविलोपः इत्येकान्तव्य-१५ वस्थापकाः सर्वेऽपि मिथ्यादृष्टयो नयाः अन्योन्यविषयाऽपरित्यागवृत्तयस्तु त एव सम्यक्त्वं प्रतिपद्यन्त इत्युपसंहरन्नाह तम्हा सव्वे वि णया 'मिच्छादिट्ठी सपक्खपडिबद्धा। अपणोण्णणिस्सिआ उण हवंति सम्मत्तसब्भावा ॥ २१ ॥ यस्माद् एकान्तनित्याऽनित्यवस्त्वभ्युपगमो बन्धादिकारणयोग-कषायाभ्युपगमबाधितः तद-२० भ्युपगमोऽपि नित्यायेकान्ताभ्युपगमप्रतिहतः इत्येवंभूतपूर्वोत्तराभ्युपगमस्वरूपाः तस्माद् मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः स्व आत्मीयः पक्षः अभ्युपगमस्तेन प्रतिबद्धाः प्रति. हता यतस्तत इति । नयज्ञानानां च मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव । तेनैवं प्रयोगः-मिथ्या सर्वनयवादाः, स्वपक्षेणैव प्रतिहतत्वात् चौरवाक्यवत् । अथ तेषां प्रत्येकं मिथ्यात्वे बन्धाद्यनुपपत्तौ सम्यक्त्वानुपपत्तिः सर्वत्रेत्याह-अन्योन्यनिश्रिताः परस्परापरित्यागेन २५ व्यवस्थिताः पुनर् इति त एव सम्यक्त्वस्य यथावस्थितवस्तुप्रत्ययस्य सद्भावा भवन्तीति न बन्धाद्यनुपपत्तिः। ननु यदि नयाः प्रत्येकं सन्ति कथं प्रत्येकावस्थायां तेषां सम्यक्त्वाभावः स्वरूपव्यतिरेकेण अपरसम्यक्त्वाभावात् तस्य च तेष्वभ्युपगमात् ? अथ न सन्ति, कथं तेषां समुदायः सम्यक्त्वनिबन्धनो भवेत असतांसमुदायानुपपत्तेः?न च असतोऽऽपि सम्यक्त्वम् नयवादेष्वपि सम्यक्त्वप्रसक्तेः।३० न च प्रत्येकं तेषां संतामसम्यक्त्वेऽपि तत्समुदाये सम्यक्त्वं भविष्यति 'दव्वढिओ त्ति तम्हा नस्थि णओ' इत्याद्युपसंहारसूत्रविरोधात् । न च प्रत्यकमेकैकांशग्राहिणः सम्पूर्णवस्तुग्राहकाः समुदिता इति सम्यग्व्यपदेशमासादयन्ति, तत्तत्स्वगोचरापरित्यागेन तंत्रापि विषयान्तरे तेषा १-धमि अ-बृ० ल० ।-धमि अपूरेंते बृ०-धमि यपूरेंते वा० बा०। २ चासति बृ० ल० वा. बा०। ३-ज्ञान व-वृ० ल०। ४ पृ. २८५ पं०६। ५ मिच्छाद्दिट्टी वा० बा० । मिच्छहिट्रि आ० । ६-निःसृताः बृ० विना। -दावो भ-आ. हा. विना। ८ "वरूपस्य"-बृ० ल. मां० टि०। ९ सतो सम्य-वा. बा०। १०णउ बृ० हा०। ११ पृ०४०८ गा०९। १२ “समुदाये"-मांटि।

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516