Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 476
________________ नयमीमांसा। ४१७ [नित्यानित्यैकान्तपक्षद्वयेऽप्यात्मनि संसारसुख-दुःखादेरनुपपत्तिप्रदर्शनम् ] न केवलं बाह्यघटादिवस्तु उभयात्मकं तथाविधप्रमाणग्राह्यत्वात् किन्त्वान्तरमपि हर्ष-शोकभय-करुणौदासीन्याद्यनेकाकारविवर्तात्मकैकचेतनास्वरूपम् तदात्मकहर्षाद्यनेकविकारानेकात्मकं च खसंवेदनाध्यक्षप्रतीतम् तस्य भेदाभेदैकान्तैकरूपताभ्युपगमे दृष्टाऽदृष्टविषयसुखदुःखसाधनखीकार-त्यागार्थप्रवृत्ति-निवृत्तिस्वरूपसकलव्यवहारोच्छेदप्रसक्तिरिति प्रतिपादयितुमाह ण य दव्वढियपक्वे संसारो व पजवणयस्स। सासय-वियत्तिवायी जम्हा उच्छेअवाईआ॥ १७ ॥ द्रव्यार्थिक-पर्यायार्थिकनयद्वयाभिमते वस्तुनि न संसारः सम्भवति, शाश्वतव्यक्तिप्रतिक्षणान्यत्वैकान्तात्मकचैतन्यग्राहकविषयीकृतत्वात् पावकज्ञानविषयीकृते उदकवत् । तथाहि-संसारः संसृतिः सा चैकान्तनित्यस्य पूर्वावस्थाऽपरित्यागे सति न सम्भवति तत्परित्यागे-१० नैव-गतेःभावान्तरापत्ता-संसृतेः सम्भवात्। नाप्युच्छेदे उत्पत्त्यनन्तरनिरन्वयध्वंसलक्षणे संसृतिः सम्भवति गतेः भावान्तरापत्तेर्वा कथञ्चिद् अन्वयिरूपमन्तरेण अयोगात्। अथैकस्य पूर्वाऽपरशरीराभ्यां वियोग-योगौ संसारः असावपि सदा अविकारिणि न सम्भवति, नित्यस्य पूर्वाऽपरशरीराभ्यां वियोग-योगानुपपत्तः । निरन्वयक्षणध्वंसिनोऽप्येकाधिकरणत्वासम्भवात् न तल्लक्षणः संसारः। न च अमुर्तस्यात्मनः असर्वगतैकमनोऽभिष्वक्तशरीरेण विशिष्टवियोग-योगौ संसारः मन-१५ सोऽकर्तृत्वेन शरीरसम्बन्धस्यानुपपत्तेः। यो ह्यदृष्टस्य विधाता स तन्निर्वर्तितशरीरेण सह सम्बध्यते, न चैवं मनः; न च मनसः शरीरसम्बन्धेऽपि तत्कृतसुख-दुःखोपभोक्तत्वम् आत्मनि तस्याभ्युपगमात् तदर्थ च शरीरसम्बन्धोऽभ्युपगम्यत इति तत्सम्बन्धपरिकल्पनं मनसो व्यर्थम् मनसि सुख-दुःखोपभोक्तत्वाभ्युपगमे वा आत्मकल्पनायथ्ये मनस आत्मत्वसिद्धेः॥ १७ ॥ तथा सुह-दुक्खसम्पओगो ण जुज्जए णिच्चवायपक्खम्मि । एगंतुच्छेयम्मि य सुह-दुक्खवियप्पणमजुत्तं ॥१८॥ सुखेन अबाधास्वरूपेण, दुःखेन बाधनालक्षणेन, सम्प्रयोगः सम्बन्धः न युज्यते न घटते आत्मनो नित्यवादपक्षे द्रव्यास्तिकाभ्युपगमे सुखस्वभावस्य अविचलितरूपत्वात् सदा सुखरूपतैव आत्मनः न दुःखसम्प्रयोगः दुःखस्वभावत्वे तद्रूपतैव तत्त्वादेव । एकान्तोच्छेदे च २५ पर्यायास्तिकपक्षे सुख-दुःखसम्प्रयोगो न युज्यत इति सम्बन्धः। तथा पक्षद्वयेऽपि सुखार्थम् दुःखवियोगार्थ च विशिष्टं कल्पनं यतनम्-'कल्पतेः' अत्र यतनार्थत्वात्-अयुक्तम् अघटमानकम् सुख-दुःखोपादानत्यागार्थप्रयत्नस्याप्ययुक्तत्वमुक्तन्यायात् । "संसरति निरुपभोगं भीवैरधिवासितं लिङ्गम्।" [साल्यका०४०] इति साङ्ख्यमतमपि निरस्तम् न्यायस्य सर्वेकान्तसाधारणत्वात् ॥ १८॥ ३० १-भयात्मकस्तथा-बृ० वा. बा०। २णेय प-वृ० ल० वा. बा। "नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क प्रमाणं व तत्फलम्" ॥३७॥ "प्रमाण-कारकैयक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोते शासनाद् बहिः" ॥३८॥ "यदि सत् सर्वथा कार्य पुंवन्नोत्पत्तुमर्हति । परिणामप्रकृप्तिश्च नित्यत्वैकान्तबाधिनी" ॥ ३९॥ "पुण्य-पापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्ध-मोक्षौ च तेषां न येषां त्वं नासि नायकः" ॥ ४०॥ "क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ।" ॥४१॥ -आप्तमीमां० पृ०२२-२३ परि० ३ । अष्टस• पृ० १७८-१८१। ३-तिःस चै-आ. ४-निवर्तित-ल.। ५ सम्बन्ध्य-आ०। ६-सिद्धेः सुह-आ० हा०वि०।-शिष्ट क-भा.। . "अहंकारादिभिः"-मांटि.।

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516