Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 477
________________ ४१८ प्रथमे काण्डे[एकान्तपक्षे चात्मनि कर्मणो बन्ध-स्थितिकारणानुपपत्तिप्रकटनम् ] एकान्तपक्षे आत्मसुख-दुःखोपभोग-निर्वर्त्तकशरीरसम्बन्धहेत्वदृष्टोत्पादकनिमित्तानामप्यसम्भवं दर्शयन्नाह कम्म जोगनिमित्तं यज्झइ बन्ध-ट्टिई कसायवसा। अपरिणउच्छिण्णेसु य बंधढिइकारणं णत्थि ॥ १९ ॥ कर्म अदृष्टम् , योगनिमित्तं मनो वाक्-कायव्यापारनिमित्तम् , बध्यते आदीयते, बध्यत इति बन्धः अदृष्टमेव तस्य स्थितिः कालान्तरफलदातृत्वेन आत्मन्यवस्थानम् सा कषायवशात् क्रोधादिसामर्थ्यात् एतदुभयमपि एकान्तवाद्यभ्युपगते आत्मचैतन्यलक्षणे भावे अपरिणते उत्सन्ने च बन्धस्थितिकारणं नास्ति । न ह्यपरिणामिनि अत्यन्ताऽनाधेया१० तिशये आत्मनि क्रोधादयः सम्भवन्ति, नाप्येकान्तोत्सन्ने अनुसन्धानविकले 'अहमनेनाऽऽक्रुष्टः' इति द्वेषसम्भवः तथा च 'अन्य आक्रुष्टः अन्यो रुष्टः' 'अंन्यो व्यापृतः अपरो बद्धः अपरश्च मुक्तः' इति कुशलाकुशलकर्मगोचरप्रवृत्त्याद्यारम्भवैफल्यप्रसक्तिः। न चैकसन्ततिनिमित्तोऽयं व्यवहारः, क्षणिकैकान्तपक्षे सन्ततिकल्पनाबीजभूतोपादानोपादेयभावस्यैव अघटमानत्वात् । न चेयमनुसन्धानप्रतिपत्तिर्मिथ्या, द्वेष-गर्व-शाठ्याऽसन्तोषादीनामन्योन्यविरुद्धस्वभावानांक्रमविवर्तिनांचिद्विवर्तानां १५स्वसंवेदनाध्यक्षसिद्धानाम् तथा तथाऽनुभवितुश्च संशय-विपर्यासाऽदृढशानागोचरीकृतस्यैकस्य चैतन्यस्यानुभवात् । न च वाधारहितानुभवविषयस्यापह्नवः सुखादेरप्यनुभवविषयस्यापह्नुतिप्रस जात् तथा च प्रमाणप्रमेयादिव्यवहारोच्छेदप्रसक्तिः । यदपि "मिथ्याऽध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [ इत्युक्तम् , तदप्यनेनैव प्रतिविहितम् ; यथोक्तप्रतिपत्तेर्मिथ्यात्वासिद्धेः । न चानुमाननिश्चितेऽर्थे २० आरोपबुद्धरुत्पत्तिधूमनिश्चयावगतधूमध्वज इव, न च मिथ्याज्ञानस्य सहजत्वात् विपरीतार्थोपस्था पकानुमानप्रवृत्तावपि न निवृत्तिः तथाभ्युपगमे बोधसन्तानवत् तस्य सर्वदाऽनिवृत्तिरित्यमुक्तिप्रसक्तिः असहजं तु तत्त्वज्ञानप्रादुर्भावेऽवश्यं निवर्तते शुक्तिकावगमे रजतभ्रम इव अनिवृत्ती वा न प्रमाणमप्रमाणबाधकं भवेत् । न च क्षणक्षयनिश्चये ‘स एवाहम्' इति प्रत्ययो युक्तः अपि तु 'स इव' इति स्यात् , नहि गवयनिश्चये 'गौरेव' इति प्रत्ययो दृष्टः अपि तु 'गौरिव' इति । न च क्रमर्व२५र्तिम्वमिष्वङ्ग-द्वेषादिपर्यायेषु चैतन्यानुस्यूतिप्रत्ययस्य मानसत्वमात्मनि क्षणक्षयमनुमानाद् निश्चिन्वतोऽपि तदैव स्पष्टमनुभूयमानत्वाद् विकल्पद्वयस्य युगपदुत्पत्तिः परैर्नेटेति विकल्परूपत्वे एकत्वप्रत्ययस्य क्षणिकत्वनिश्चयसमये सद्भावो न भवेत् इत्येकान्तनित्याऽनित्यव्युदासेनोभयपक्ष एव बन्धस्थितिकारणं युक्तिसङ्गतम् ॥ १९ ॥ [एकान्तवादे बन्धाऽभावेन तन्मूलकसंसारनिवृत्यादेरनुपपत्तिप्रकाशनम् ] ३० किश, एकान्तवादिनां संसारनिवृत्ति-तत्सुखमुक्तिप्राप्त्यर्था प्रवृत्तिवासनतेत्याह १ अन्यो व्यावृत्तः वा० बा० आ० । अन्यो वावृतः बृ.। २ तथाऽनु-आ• हा०। ३-निश्चितार्थ आ-आ० ।-निश्चितथे आ-हा०। ४-तार्थो स्था-ल.। ५-दा नि-वा० बा०। -दुर्भावोमा० ।-दुर्भावे प्र. मां• बहिः। स एव भा० मा. विना। -वत्तेप्व-मा० ।-वर्तिप्व-प्र. मा० बहिः। -स्य च युन. वा. बा.। १.-कत्वं प्र-वृ. वा. बा.। "-निवृत्तिवस्तुब-बा.बा. -मिर्च्यवस्मक-.-विधिवतम-प्र• मां• बहिः ।

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516