Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 479
________________ ४२० प्रथमे काण्डेमप्रवृत्तेः । न च प्रत्येकमसम्यक्त्वे समुदायेऽपि सम्यक्त्वं युक्तम् सिकतासु तैलवत् , असत सदुत्पत्तेः सतो वा असदुत्पत्तेर्विरोधाच्च । अत्राभिधीयते-प्रत्येकमप्यपेक्षितेतरांशस्व विषयग्राहकतयैव सन्तो नयाः तद्यतिरिक्तरूपतया त्वसन्त इति सतां तत्समुदाये सम्यक्त्वे न कश्चिद् दोषः, नन्वितरेतरविषयाऽपरित्यागवृत्तीनां ५ज्ञानानां कथं समुदायः सम्भवी येन तत्र सम्यक्त्वमभ्युपगम्येत? अनुक्तोपालम्भ एपः न ह्येकदा. ऽनेकज्ञानोत्पादस्तेषां समुदायो विवक्षितः अपि त्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः। अन्योन्यनिश्रिताः इत्यनेनाप्ययमेवार्थः प्रतिपादितः । नहि द्रव्यार्थिक-पर्यायार्थिकाभ्यामत्यन्तपृथग्भूताभ्यामङ्गुलिद्वयसंयोगवदुभयवादोऽपरः प्रारब्धः, ननु यदि प्रमाणं नयाः “प्रमाण-नये रधिगमः” [ तत्त्वार्थ० अ० १ सू० ६] इति प्रमाण-नयभेदकल्पनावैयर्थ्यप्रसक्तिः अथ अप्रमाणम् १० तथाप्यधिगमानुपपत्तिः तत्पृथग्भूतस्यापरस्यासंवेदनात् प्रमाणाभावप्रसक्तिश्च, असदेतत्; यतः अप्रमाणं नेयाः नयन्ति इतररूपसापेक्षं स्वविषयं परिच्छिन्दन्तीति नया इति व्युत्पत्तेः । न चापरिच्छेदकाः नयतेर्गत्यर्थत्वेन ज्ञानार्थत्वात् ज्ञानस्य च परिच्छेदात्मकत्वात् । न च परिच्छेदकत्वेऽपि प्रमाणता, समस्तनयविषयीकृतानेकान्तवस्तुग्राहकत्वेन 'प्रकृष्टं मानं प्रमाणम्' 'इतरांशसव्यपेक्ष. स्वांशग्राही नयः' इति तत्स्वतत्त्वव्यवस्थितेः। न चानेकान्तात्मकवस्तुग्राहिणो नया न भवन्ति, १५प्रत्येकं स्वविषयनियतत्वात तेषाम् तयतिरिक्तस्य चान्यस्य तद्विषयस्याननुभवात् । प्रमाणाभावोऽपि न, आत्मनः कथञ्चित् तद्यतिरिक्तस्य प्रमाणत्वेनानुभवसिद्धत्वात् तत्तन्नयविषयीकृताशेषवस्त्वं. शात्मकैकद्रव्यग्राहकत्वस्य तंत्र प्रतीतेः। न च संशयादिज्ञानैरात्मनः प्रमाणत्वेऽतिप्रसङ्गः, प्रमीयतेऽनेन प्रमिणोतीति वा प्रमाणमिति 'प्र'शब्देन तस्य निरस्तत्वात् । न चात्मनः कर्तृत्वात् करण रूपप्रमाणतानुपपत्तिः, उत्पाद-व्यय-ध्रौव्यात्मकस्य तस्यानेकरूपत्वेन कर्तृ-करणभावाविरोधात २०एतेन 'प्रत्येकं मिथ्यायो नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्त इत्यत्र न नयसमुदायोऽर्थद्रया प्रत्येकमद्रपृत्वात् जात्यन्धसमूहवत्' इत्येतन्निरस्तम् अद्रष्टतत्समूहस्य सम्यक्त्वानभ्युपगमात् स्वविषयपरिच्छेदकत्वाच्च नयानाम् 'अद्रष्ट्रत्वात्' इति हेतुरसिद्धः । 'परिपूर्णवस्त्वनधिगन्तृत्वात्' इति हेतौ प्रतिज्ञार्थंकदेशासिद्धिः सिद्धसाध्यता च समुदायिनो द्रष्टुत्वनिषेधे साध्ये । अथ तत्समु. दायस्य द्रष्टुत्वनिषेधः साध्यस्तदा अध्यक्षविरोधः समुदायिव्यतिरिक्तस्यैकान्तेन समुदायस्याभावात् २५धर्मिणोऽप्रसिद्धिः सिद्धसाध्यता च ॥ २१ ॥ [प्रत्येकं नयेषु मिथ्यात्वेऽपि समुदितेषु सम्यक्त्वस्य रत्नावलीदृष्टान्तेन समर्थनम् ] न च समुदायाभावे नया एय परस्परव्यावृत्तस्वरूपा इति न क्वचित् सम्यक्त्वम्, नय-प्रमाणात्मकैकचैतन्यप्रतिपत्तेः रत्नावलीवत् इत्येतदाह 'यद्वा यत् प्रत्येकं नयेषु न सम्यक्त्वम् तत् तेषां समुदायेऽपि न भवति, यथा सिकतासु ३० प्रत्येकमभवत् तैलं तासां समुदायेऽपि न भवति' इत्यत्र हेतोरनैकान्तिकताप्रतिपादनार्थमाह १-धात्व । अ-भां० आ० । २ "उत्तरम्"-बृ० मां० टि। ३-दतस्ते-आ० हा०। ४ पृ. ४१९ प्र० गा। ५-नापायनेकार्थः प्र-भा० मां० ।-नापायमेवार्थः प्र-आ० ।-नापायमेकार्थाः प्र-हा० ।-"नाप्यमेवार्थः इत्यर्थः-प्रत्यन्तरे ।-नाप्य उ तस्यार्थः द्वितीयप्रत्य० । (अयं च द्वितीयप्रयन्तरसत्कः पाठः वा० बा. पुस्तके विद्यते)-नाप्ययमेवार्थः प्रतिपादितः इति तु संभावना"-मां. बहिः । ६ तत् “प्रमाण"-मांटि.। . अपरस्य "अधिगमस्य"-मां० टि.। ८ प्रमाणभावप्र-वा. बा० आ. हा० वि० ।-प्रमाणाभावाप्र-भां० । -प्रमाणाभावप्र-मां० सं०। ९ नया नयन्तातररू-हा। नया न नयन्तीतररू-बृ० । नया य नयन्तीतरू-वा० बा०। १०-परिच्छेदकेत्वे-बृ० ।-परिच्छेदात्मकत्वे-भां० । ११-कृष्टमा-बृ०। १२ "तयोः प्रमाण-नययोः"-बृ० ल० मा० टि.। १३ “आत्मनि"-बृ. ल. मां० टि०। १४-स्वादि हेतौ भां० मां० हा० वि० । -स्वादिहिती आ० । १५ “ 'अनित्यः शब्दः अनित्यत्वात्' इतिवत् अत्र च अर्थाद्रष्टत्वं साध्यम् तदेव च अक्षरान्तरिहेतुतयोपन्यस्ता (न्तरैर्हेतुतयोपन्यस्तम् )"-मां. टि.।-शासिद्धः बृ० वा. बा० । १६-णात्मिकै- बृ० वा. बा।

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516