Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 485
________________ प्रथमे काण्डे पिण्डाकारपरित्यागेन शिवकाद्याकारतया परिणममानम् नहि तत्र 'इदं कार्यमाधेयभूतं मित्रमुपजातं पं पङ्कजवत्' इति प्रतिपत्तिः । नापि तत्करण निर्वर्त्यतया दण्डोत्पादितघटवत् । नापि तत्कर्तृतया कुविन्दव्यापारसमासादिनात्मलाभपटवत् । नापि तदुपादानतया आम्रवृक्षोत्पादिताम्रफलवत् । तस्मात् पूर्व पर्यायविनाश उत्तरपर्यायोत्पादात्मकः, तद्देशकालत्वात्, उत्पादात्म५ वत् । अभावरूपत्वाद्वा प्रदेशस्वरूपघटाद्यभाववत् । प्रागभावाभावरूपत्वाद्वा घटखात्मवत् एवमनभ्युपगमे पूर्व पर्यायस्य ध्वंसात् उत्तरस्य चानुत्पत्तेः शून्यताप्रसक्तिः । उत्तरपर्यायोत्पादाभ्युपगमे वा तदुत्पादः पूर्वपर्यायप्रध्वंसात्मकः प्रागभावाभावरूपत्वात् प्रध्वंसाभावाभाववत् । न च प्राक्तनपर्यायविनाशात्मकत्वे उत्तरपर्याय भवनस्य तद्विनाशे पूर्व पर्यायस्योन्मज्जनप्रसक्तिः अभावाभावमात्रवानभ्युपगमाद् वस्तुनः तस्य प्रतिनियतपरिणतिरूपत्वान् । भावाभावोभयरूपतया प्रतिनियतस्य १० वस्तुनः प्रादुर्भावे मुरादिव्यापारानन्तरमुपलभ्यमानस्य कपालादेग्भावस्य नाहेतुकता । न चोभयस्यैकव्यापारादुत्पत्तिविरोधः तथाप्रतीयमाने विरोधासिद्धेः । ततस्तद्विपरीत एव विरोधसिद्धेरुभयैकान्ते प्रमाणानवतारात् । तथात्मकत्वेन प्रतीयमानं प्रति हेतोर्जनकत्वविरोधे घटक्षणसत्तायाः स्व परविनाशोत्पादकत्वं विरुध्येत एवं चाकारणा घटक्षणान्तरोत्पत्तिर्भवेत् । न च विनाशस्य प्रसज्य - पर्युदासपक्षद्वयेऽपि व्यतिरिक्ताऽव्यतिरिक्तादिविकल्पतो हेत्वयोगान्निर्हेतुकता युक्ताः, सत्ता१५ हेतुत्वेऽपि तथाविकल्पनस्य समानत्वेन प्राक् प्रदर्शितत्वात् । ४२६ यदपि 'विनाशस्य निर्हेतुकत्वात् स्वभावादनुबन्धितेति निरन्वयक्षणक्षयिता भावस्येति नान्वयः, ' तदप्यसङ्गनम् ः विनाशहेतोर्मुङ्गरादे घटादिनाशस्य प्रत्यश्न सिद्धत्वान् । न हाध्यक्ष सिद्धे वस्तुन्यनुमानं विपरीतधर्मापस्थापकत्वेन प्रामाण्यमात्मसात्करोति । यदपि 'विनाशं प्रति तद्धेतोरसामर्थ्यात् क्रियाप्रतिषेधाच्च स्वरसवृत्तिर्विनाश इति नान्वयः, तदप्यसङ्गतम् ः विनाशहेतोर्भावाभावीकरणसामर्थ्यात् । २० यथा हि भाव हेतुर्भावीकरोति, अन्यथा स्वयमेव नाशेऽपि भावानां द्वितीयक्षणे 'स्वयंमेवभावो भावीभवति' इति भवेत् । यथा हि निष्पन्नस्य भावस्य नाभावो नाम कश्चित् तत्सम्बन्धी यद्यन्योऽभावो भवेत् निष्पन्नस्य भावस्य तदा तेन तस्य सम्बन्धासिद्धेः पूर्ववद् दर्शनप्रसङ्ग इति 'स्वयमेव भावो न भवति' इत्यभिधीयते तथा न निष्पन्नस्य भावस्य भावो नामान्यः कश्चित् तेन तस्य सम्बन्धासिद्धेर्न भावस्य सत्ता भवेदिति 'स्वयमेव हेतुनिरपेक्षो भावो भवति' इत्येतदपि वक्तव्यम् । यदि पुनस्तत्र २५ न किञ्चिद् भवतीति क्रियाप्रतिषेधमात्रमिति न हेतुव्यापारः कथं तर्हि तदवस्थस्य भावस्य दर्शनादिक्रिया न भवेदिति वक्तव्यम् ? स एव न भवतीति चेत्, तर्हि तस्यैवाभवनं करोति विनाशहेतुरित्यन्यभ्युपगन्तव्यमिति तद्धेतृनाम किञ्चित्करतयाऽनपेक्षणीयत्वमनुपपन्नम् । अत एवापेक्षणीयत्वोपपत्तिर्भावस्यान्यथाकरणात् कथञ्चिदन्यथा सहानवस्थानलक्षण विरोधीसिद्धेः प्रतिनियतव्यवहारोच्छेदप्र सक्तिः । अपि च, यदि नाम स एव न भवति तथापि प्रध्वंसाभावः प्रागभावाभावात्मक उत्तरकार्य३० वदभ्युपगन्तव्यः तस्यापि तदनन्तरमुपलम्भात् । एतावान् विशेषः - विनाशप्रतिपादनाभिप्राये सति तत्प्राधान्येतरोपसर्जनविवक्षायाम् 'विनष्टो भावः' इति प्रयुज्यते प्रतिपत्तिरपि तथैव, विनाशोपसजनेतर प्राधान्यविवक्षायाम् 'उत्पन्नानि कपालानि' इति प्रयुज्यते प्रतिपत्तिरपि तथैव । परमार्थतस्तु उभयमप्युभयात्मकम् अन्यथा पूर्वोक्तदोषानतिवृत्तेः । न च कारणस्य निरन्वयविनाशे कार्यस्यादलस्यात्यन्तासत उत्पत्तिर्घटते, विनष्टस्य सकलशक्तिविरहिणः कारणस्य कार्यक्रियायोगात् अविनष्टस्य ३५ स्वसत्ताकाले कार्यनिर्वर्त्तने हेतु फलयोः सहभाव इति तद्व्यपदेशः सव्येतरगोविषाणयोरिव न 'भवेत् । स्वकाले पश्चात् कार्यस्य भावे तदा कारणस्य स्वसत्तामत्यजतः क्षणक्षयपरिक्षयोऽनिष्टोऽ• नुषज्यते । १ शिबिका - भ० मां० । २ " साध्यं त्रिष्वपि एकमेव " - बृ० ल० मां० टि० । भां० मां० । वा० । ४ " यथाक्रमम्" - बृ० ल० मां० टि० । ५- रुध्यते तेति मां । स्वभावानुबन्धितेति वा० १० - द्यन्यो भा-आ० । ११ - सङ्गत इ-आ० । बा० । १४ " प्रध्वंसाभावस्य " - बृ० ल० टि० । १५ १७- निर्वर्तनो हे - वा० बा० । निवर्तने ल० आ० । आ० । ३- साभाववत् । आ० । ६ एवं वा-आ० । ७ स्वभावहेतुबन्धि ८ नाशोऽपि मां० आ० । ९ - यमेवा भावा० बा० । १२ - पत्तिभा - बृ० वा० सं० । १३ - धासिद्धिः प्र-वा० “प्रागभावा”नन्तरम् बृ० ल० दि० । १६- क्रियायो-ल०

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516