Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 474
________________ नयमीमांसा। यदपि 'कार्य-कारणयोरमेदाभावः सिध्यति भेदात् अकार्यकारणवत्' इति, तदपि ग्राह्यग्राहकसंवित्यादिभिरनैकान्तिकमित्युपेक्षामर्हति । नहि स्वभावभेदात् अभेदे ग्राह्यग्राहकसंवित्त्यादेः कालभेदाद्धेतु-फलयोरभेदाभावो युक्तः कालभेदादपि स्वरूपमेद एव भावानामवसेयः स्वभावतोऽभिनस्य कालमेदादपि भेदायोगात्-स्वभावभेदश्चेन्न भेदकः कालभेदः क्वोपयोगी? इति न तद्भेदात कार्यकारणयोरात्यन्तिकमेदसिद्धिः एवं चांशेन वृत्तिः कार्य कारणस्योपपन्ना। न च प्रतिक्षणमंशवृत्तौ५ दृष्टान्ताभावः संवित्तेााग्राहकाकारादेदृष्टान्तत्वेन सिद्धत्वात् अनंशवृत्तिस्तु न क्वचिदर्थस्य प्रमाणसिद्धा या दृष्टान्तत्वेन प्रदश्येत सर्वस्य सांशवृत्तितयोपलब्धेः। ततो नाध्यक्षसिद्धमनुगमस्वरूपं भावानां लक्षणं प्रतिक्षेप्तं युक्तम् तत्प्रतिक्षेपे प्रमाणान्तराभावात्। नहि सुखादि-नीलादीनां निरन्वयानां क्वचित् संवेदनमध्यक्षम् अनुमानं वाऽनुभूयते । नापि तेषां भेदविकलानां कदाचिदप्यनुभूतिरिति यथा संविदाकारमन्तरेण ग्राह्यग्राहकाकारयोरसंवित्तेरनुपपत्तिस्तथा तावन्तरेण १० तस्या अप्यसंवित्तेरनुपपत्तिरिति भेदाभेदरूपं सर्व प्रमाणप्रमेयलक्षणमभ्युपगन्तव्यम्। न च पूर्वापराऽधोमध्योर्ध्वादिभेदाभावेऽनुगताकारलक्षणं सामान्यं तेष्वेकाकारप्रतिभासग्राह्य सम्भवति, अनुगतिविषयाभावे तदनुगतैकाकारस्याप्यभावात् । तदभावे च तेदवृत्तेः सामान्यस्याभाव एव । न च तेष्ववर्तमानमपि तत् सामान्य व्यक्त्यन्तरस्वरूपवत् । किञ्च, तदनुगतं रूपं व्यावृ. तरूपाभावे किं कार्यरूपम् , उत कारणरूपम्, आहोस्विदुभयात्मकम् , उतानुभयस्वभावम्, इति १५ विकल्पाः । आद्यविकल्पे तस्यानित्यत्वप्रसक्तिः। द्वितीयेऽपि सैवेति न तत् सामान्यस्वभावम् । तृतीयपक्षे उभयदोषप्रसक्तिः। तुर्यविकल्पेऽप्यभावप्रसङ्ग इति विशेषाभावे नानुगतिरूपसामान्यसम्भवः सम्भवेऽपि तत्प्रतिपादकं प्रमाणमभिधानीयम् , तच्चाक्षणिकत्वविरोधि कथञ्चित् क्षणिकत्वावासितयाऽनुभूयत इति विपर्ययसाधकं भवेत् कथञ्चित् क्षणिकत्वावभासस्य भ्रान्तत्वे विप. रीतावभासस्यापि भ्रान्तत्वप्रसक्तिः । तदवभासस्याभ्रान्तत्वे वा भ्रान्ताभ्रान्तरूपमेकं विज्ञानमेकान्त-२० पक्षप्रतिक्षेप्यनेकान्तं साधयतीत्यलमतिप्रसङ्गेनेति स्थितमेतत्--ध्रौव्यमुत्पाद-व्ययव्यतिरेकेण न सम्भवति तौ च तदन्तरेणेत्युत्पाद-स्थिति-भङ्गा अपरित्यक्तात्मस्वरूपास्तदितरस्वरूपत्वेनं त्रैलक्षण्यं प्रत्येकमनुभवन्तो द्रव्यलक्षणतामुपयान्ति अन्यथा पृथकपक्षोक्तदोषप्रसक्तिनिवारेति व्यवस्थितम् उत्पाद-स्थिति-भङ्गा द्रव्यलक्षणम् इति ॥ १२॥ [स्वतत्राणामुत्पाद-व्यय-ध्रौव्याणां द्रव्यलक्षणत्वाभावात् प्रत्येकं नयद्वयस्य मिथ्यात्वकथनम् ] २५ एते च परस्परसव्यपेक्षा द्रव्यलक्षणम् न स्वतन्त्रा इति प्रदर्शनायाह एए पुण सङ्गहओ पाडिक्कमलक्खणं दुवेण्हं पि। तम्हा मिच्छद्दिट्ठी पत्तेयं दो वि मूलणया ॥१३॥ एते उत्पादादयः सङ्ग्रहतः शिबिकोद्वाहिपुरुषा इव परस्परखरूपोपादानेनैव लक्षणम् । प्रत्येकं एकका उत्पादादयो द्वयोरपि द्रव्यास्तिक-पर्यायास्तिकयोः अलक्षणम् उक्तवत् तथा-३० भूतविषयाभावे तबाहकयोरपि तथाभूतयोरभावात् उत्पादादीनां च परस्परविविक्तरूपाणामसम्भवात् । तस्मात् मिथ्यादृष्टी एव प्रत्येकं परस्परविविक्तौ द्वावपि एतौ द्रव्यार्थिक-पर्यायार्थिकस्वरूपौ मूलनयौ समस्तनयराशिकारणभूतौ ॥ १३ ॥ [उभयारब्धतृतीयनयाभावेऽपि द्वयोरेव नययोरन्योन्यसव्यपेक्षयोस्सम्यक्त्वप्रतिपादनम् ] __ स्यादेतत् भवतु परस्परनिरपेक्षयोमिथ्यात्वम् , उभयनयारब्धस्त्वेकः सम्यग्दृष्टिभविष्यती ३५ त्याह १ कार्यका-ल० । २-मनस्व-वा० बा०। ३ “संविदः"-बृ० ल० मां० टि०। ४ तदनुगतैकाकारस्य "ज्ञानस्य"-मां० टि०। ५ “विशेषा"वृत्तेः-मां. टि.। ६-भासतया-बृ० वा. बा०। ७-न वैल-बृ. क. वा. बा. विना। ८ पाडेक-ल.।

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516