Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 472
________________ नयमीमांसा। भ्यामर्थक्रियाविरोधात् ततो निवर्तमानं सत्त्वं निरन्वयविनश्वरस्वभावमिति सत् क्षणिकमेवेति प्रमाणम् , क्षणिकेऽपि तथैवार्थक्रियाविरोधात् । तथाहि-क्षणिकत्वे कार्य-कारणयोर्योगपद्येन कुतः कार्यकारणभावव्यवस्था? क्रमोत्पादे हेतोरसतः कुतः फलजनकत्वम्? निरन्वयविनाशाभ्युपगमे चानन्तरं विनष्टस्य चिरतरविनष्टस्य च विनष्टत्वाविशेषाञ्चिरतरविनष्टादपि कार्योत्पत्तिप्रसक्तिः । भावस्य हि विद्यमानत्वाद् अनन्तरकार्योत्पादनसामर्थ्यम् न व्यवहिततदुत्पादनसामर्थ्य मिति५ विशेषो युक्तः न पुनरभावस्य, निःस्वभावत्वाविशेषात् । अनेकान्तवादिना हि कथञ्चिद्भेदाभेदी हेत-फलयोर्व्यवस्थापयितुं शक्यी संवेदनस्य ग्राह्यग्राहकाकारयोरिव । भेदाऽभेदेकान्तो तु परस्परता न विशेषमासादयत इति न निरन्वयविनाशव्यवस्था नित्यताव्यवस्था वा कर्तुं शक्या, यतो न क्षणिकपक्षेऽपि सत्ताव्यतिरेकेण अपरार्थक्रिया सम्भवति सा चाक्षणिकेऽपि समाना। यथा हि क्षणिकस्य खसत्ताकाले कुर्वतोऽपि कार्य स्वत एव न भवति, भावे वा कार्य-कारणयोर्योगपद्येन न१० कार्यकारणव्यवस्था नापि सन्तानव्यवस्था भवेत् किन्तु कार्यस्य स्वकालनियमात् तत्तदभावाविशेबेऽपि द्वितीय एव क्षणे भावः तथा अक्षणिकस्यापि प्रागपि विवक्षितकार्योत्पादनसामयें ततो भवत् कार्य स्खकालनियतमेव भविष्यतीति समानं पश्यामः। न चासति कारणविनाशे कार्योत्पत्तिर्न भवतीत्यत्र निबन्धनं किञ्चिदस्ति येनाक्षणिकात् कार्योत्पत्तिर्न भवेत् । यदि चाक्षणिकस्य कार्योत्पत्तिक्षणे स्थितिः कार्योत्पत्तिप्रतिबन्धहेतुः एवं क्षणिकस्यापि तदा तदभावः किं न प्रतिबन्धहेतु-१५ र्भवेत् ? यदि च कारणविनाशे कार्योत्पत्तिः, स प्रागिव चिरतरविनष्टे कारणेऽस्तीति तदापि कार्योत्पत्तिः स्यात् । अथ कार्योत्पत्तिकाले नैव कारणसन्निधेरुपयोगः; ननु कारणव्यावृत्तेरपि तदुत्पत्तिकाले नैव कश्चिदुपयोगः, यतः कारणव्यावृत्तौ कार्य भवेत् । कारणव्यावृत्तिश्च तदभावः, स च प्राक् पश्चादपि कालान्तरेऽस्त्येवेति सर्वदा कार्योत्पत्तिप्रसक्तिरित्युक्तम् । न च कारणस्य प्राग्भावित्वमात्र कार्योत्पत्तावुपयोगः तस्याकारणाभिमतेष्वपि जगत्क्षणेषु भावात् ; तद्विशेषकल्पनायास्त्व-२० क्षणिकेष्वप्यविरोधात । तथाहि-यद यदा यत्र कार्यमुत्पित्सु तत् तदा तत्रोत्पादनसमर्थमक्षणिक वस्त्विति कल्पनायां न काचित् क्षतिः। न च स्वयमेव प्रतिनियतसमयस्य कार्यस्योत्पत्त्यभ्युपगमे न किञ्चित् कारणाभिमतभावेन तस्य कृतमिति न तत् कार्यतया तद्यपदेशमासादयेदिति वक्तव्यम् , क्षणिकपक्षेऽप्यस्य समानत्वात् । तस्मात् कथञ्चिद व्यवस्थितस्यैव भावस्य जन्म-विनाशयोर्दर्शनाद यथादर्शनं हेतुफलभावव्यवस्थितेः परिणामसिद्धिः समायाता । न चाभेदबुद्धिर्धान्ता, भेदबुद्धावपि तत्प्रसक्तेः, स्वप्नावस्थाहस्त्यादिभेदबुद्धिवत् । न च मिथ्याबुद्धीनामपि विसंवादो भावमात्रे, भेदेष्वेव तद्दर्शितेषु विप्रतिपत्त्युपलब्धेः। तस्माद् अक्षणिकत्वे क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वमभ्युपगच्छन् क्षणिकानामर्थक्रियादर्शनमभ्युपगच्छेत्; अन्यथा सत्त्वादेहेंतोर्विपक्षव्यावृत्तिप्रसाधिकाया अनुपलब्धेर्व्यतिरेकासिद्धेरक्षणिकत्वेऽर्थक्रियाविरोधः क्षणिकत्वेऽर्थक्रियोपलम्भमन्तरेण कथं सिद्धिमासादयेत् ? न चाक्षणिकेऽर्थक्रिया-३० विरोधादेव क्षणिकेऽर्थक्रियोपलब्धिः , इतरेतराश्रयप्रसक्तेः। [?? तथाहि-विपक्षे प्रत्यक्षवृत्तेरनुपलब्धे र्व्यतिरेकसिद्धिः, तत्र प्रत्यक्षवृत्तिरक्षणिकत्वेऽर्थक्रियाविरोधात् तद्विरोधसिद्धिरनुपलब्धेय॑तिरेकनिश्चयात् तद्विपक्षे प्रत्यक्षवृत्तेरिति व्यक्तमितरेतराश्रयत्वम् ??] । क्षणिकत्वेऽपि च भावानां यथातत्त्वमुपलम्भनियमाभावाद् ग्राह्यग्राहकाकारसंवेदनवद् अयथातत्त्वोपलम्भसंभवान्न क्षणिकत्वमध्यक्षगोचर इत्यतोऽप्यनेकान्तः सिद्धिमासादयति । न च सदृशापरापरोत्पत्तिरनिश्चयहेतुः, मेदैकान्ते ३५ तस्या अप्ययोगात् । न हि तत्र सादृश्यं भावानां व्यतिरिक्तमव्यतिरिक्तं वा सम्भवति । न चाविद्यमानमनुपलभ्यमानं वा तद् विभ्रमहेतुः, अतिप्रसङ्गात् । न च विशेषाणां स्थितिभ्रान्तिजननशक्तिरेव सादृश्यम्, क्षणिकावेदकप्रमाणान्तराभांवतः स्थितिप्रतिपत्तेभ्रान्त्यसिद्धेः । न चान्याहग्भूतं १ कर्तुं युक्ता य-भां०। २-कस्व स-बृ०। ३-पद्येन कार्य-वा० बा० । ४ भवेत् ल. भां. मां०। ५-ति सामान्यं प-वा० बा०। ६ “प्राग्भावित्वस्य"-बृ० ल. मा. टि.। ७ पृ. २५७ पं० २४-२७ तथा टि. २७॥ ८-मर्थ क्ष-बृ० वा. बा० । ९-बुद्धिभ्रा-बृ०। १० “सत्त्वग्राहक"प्रत्यक्षवृत्तेः-मांटि.। ११-भावात् स्थि-आ० ।-भावातः स्थि-हा० वि० ।-भावतः सिद्धिस्थि-वा. बा। ५३ स० त.

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516