Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 466
________________ नयमीमांसा। [ द्रव्य-पर्याययोरन्योन्यव्याप्तिज्ञप्तये निरपेक्षनयाश्रितवचसामसत्यत्वकथनम् ] एतदपि नयद्वयं शास्त्रस्य परमहृदयम् 'द्रव्यं पर्यायाशून्यम् पर्यायाश्च द्रव्याविरहिणः' इत्येवं. भूतार्थप्रतिपादनपरम् नान्यथेत्येतस्यार्थस्य प्रदर्शनार्थमाह पजवणिस्सामण्णं वयणं दवट्ठियस्स 'अत्थि'त्ति। अवसेसो वयणविही पज्जवभयणा सपडिवक्खो ॥७॥ परस्परनिरपेक्षस्य नयद्वयस्य प्रत्येकमेवं वचनविधिः-द्रव्यास्तिकस्य अननुषक्तविशेषं वचनम् 'अस्ति'इत्येतावन्मात्रम्, पर्यायास्तिकस्य स्वपरामृष्टसत्तास्वभावं 'द्रव्यम्' 'पृथिवी' 'घटः' 'शुक्लः' इत्याद्याश्रितपर्यायम् । परस्परनिरपेक्षं चोभयनयवचोऽसदेव, वचनार्थासत्त्वात् । वचनमसदर्थमिति तदर्थस्याप्यसत्त्वमावेदितं भवतीति समुदायार्थः । अवयवार्थस्तु-पर्यायनयेन सह निःसामान्यम् असाधारणं वचनं द्रव्यास्तिकस्य १० 'अस्ति' इति एतत् , भेदवाद्यभ्युपगतस्य विशेषस्य सत्तारूपतानुप्रवेशात् । एतच्च वचो निर्विषयम्, निर्विशेषत्वात्, वियत्कुसुमाभिधानवत् "निर्विशेषं हि सामान्यं भवेच्छशविषाणवत्" [ श्लो० वा० आकृति० श्लो० १०] इति प्रसाधितत्वान्नाव्याप्तिहेतोः । असिद्धिः पराभ्युपगमादेव परिहृता । तन्न एकान्तभावनाप्रवृत्तस्य द्रव्यास्तिकनयस्य परमार्थता । पर्यायोस्तिकस्याप्येवंप्रवृत्तस्य न सेति पश्चार्द्धन प्रतिपादयति-१५ अवशेष इति शेषः स चोपयुक्तादन्यः वचनविधिः वचनभेदः सत्ताविकलविशेषप्रतिपादकः पर्यायेषु सत्ताव्यतिरिक्तेष्वसत्सु भजनात्-सत्ताया आरोपणात् सप्रतिपक्षः इति सतः प्रतिपक्षः-विरोधी असन् भवति । तथाहि-पर्यायप्रतिपादको वचनविधिरवस्तुविषयः, निःसामान्यत्वात्, खपुष्पवत् । भावना तु द्रव्यार्थिकवचनविपर्ययेण प्रयोगस्य कार्या। __ अथवा “अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः" [ ] इति अर्थ-प्रत्यययोः स्वरूप-२० मभिधाय अभिधानस्य द्रव्यास्तिक-पर्यायास्तिकस्वरूपस्य तद्भिधायकस्य वा प्रतिपादनार्थमाहपजवणिस्सामण्णं इत्यादि । पर्यायान्निष्क्रान्तम्-तद्रिकलम्-सामान्य सङ्ग्रहस्वरूपं यस्मिन् वचने तत् पर्यायनिस्सामान्यं वचनम् । किं पुनस्तत् ? इत्याह-'अस्ति' इति, तच्च द्रव्यार्थिकस्य स्वरूपम् प्रतिपादकं वा । यद्वा पर्यायः ऋजुसूत्रनयविषयाद् अन्यो द्रव्यत्वादिविशेषः, स एव च निश्चितं सामान्यं यस्मिंस्तत् पर्यायनिस्सामान्यं वचनम् द्रव्यत्वादिसामान्यविशे-२५ षाभिधायीति यावत् । तच्च अशुद्धद्रव्यार्थिकसम्बन्धि तत्प्रतिपादकत्वेन तत्स्वरूपत्वेनं वा। अवशेषो वचनविधि:-वर्णपद्धतिः सप्रतिपक्षः अस्य वचनस्य पर्यायार्थिकनयरूपः तत्प्रति. पादको वा पर्यायसेवनात् ; अन्यथा कथमवशेपवचनविधिः स्यात् यदि विशेषं नाश्रयेत् ? ॥७॥ १-वक्खे वा० बा०। २-यार्थिक-वृ० वा. बा०। ३-दक प-आ• हा० वि०। ४-रिक्तेषु रूपभवा. बा०। ५-कस्वरू-भां० मा०। ६-त्वावि-वा. बा०। ७ यस्मिन् वचने तन्निःसा-हा. वि०। यस्मिन् वचने तस्मिन् वचने तन्निःसा-आ०। ८-व्यार्थिकं स-बृ०। ९-नच वा. बा।

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516