Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 469
________________ प्रथमे काण्डे द्वादशगाथाव्याख्या। [अन्योन्यमुक्तयोर्द्रव्य-पर्याययोर्नास्तित्वोक्तिपूर्वकमुत्पाद-व्यय-ध्रौव्याणां द्रव्यलक्षणत्वेन वर्णनम्] परस्परनिरपेक्षं चोभयनयप्रदर्शितं वस्तु प्रमाणाभावतो न सम्भवतीत्याह दव्वं पजवविउयं दव्वविउत्ता य पन्जवा णत्थि । उपाय-ट्टिइ-भंगा हंदि दवियलक्खणं एयं ॥१२॥ द्रव्यं पर्यायवियुक्तं नास्ति मृत्पिण्ड-स्थास-कोश-कुशूलाद्यनुगतमृत्सामान्यप्रतीतेः। द्रव्यविरहिताश्च पर्याया न सन्ति अनुगतैकाकारमृत्सामान्यानुविद्धतया मृत्पिण्ड-स्थास. कोश-कुशूलादीनां विशेषाणां प्रतिपत्तः। अतो द्रव्यार्थिकाभितं वस्तु पर्यायाक्रान्तमेव न तद्विवि क्तम् पर्यायाभिमतमपि द्रव्यार्थानुषक्तं न तद्विकलम् परस्परविविक्तयोः कदाचिदप्यप्रतिभासनात् । १० किंभूतं पुनर्द्रव्यमस्तीत्याह-उत्पाद-स्थिति-भङ्गा यथाव्यावर्णितस्वरूपाः परस्पराविनिर्भागवर्तिनः, 'हन्दि' इत्युपप्रदर्शने; द्रव्यलक्षणं द्रव्यास्तित्वव्यवस्थापको धर्मः एतद् दृश्यताम् , यतः पूर्वोत्तरपर्यायपरित्यागोपादानात्मकैकान्वयप्रतिपत्तिस्तथाभूतद्रव्यसत्त्वं प्रतिपादयतीत्युत्पाद-व्यय-ध्रौव्य. लक्षणं वस्त्वभ्युपगन्तव्यम् । एतच्च त्रितयं परस्परानुविद्धम् , अन्यतमाभावे तदितरयोरप्यभावात् । __ [उत्पाद-व्यय-ध्रौव्याणां परस्परव्याप्यत्वसमर्थनम् ] १५. . तथाहि-न ध्रौव्यव्यतिरेकेण उत्पाद-व्ययौ सङ्गतो, सर्वदा सर्वस्याऽनुस्यूताकारव्यतिरेकेण 'विज्ञान-पृथिव्यादिकस्याप्रतिभासनात् । न चानुस्यूताकारावभासो बाध्यत्वादसत्यः तद्बाधकत्वा. नुपपत्तेः यतोऽनुस्यूताकारस्य विशेषप्रतिभासो बाधकः परिकल्प्येत; स एव चानुपपन्नः । तथाहि-अनुगतरूपे प्रतिपन्ने अप्रतिपन्ने वा विशेषावभासोऽभ्युपगम्येत ? यदि प्रतिपन्ने तदा किमनुस्यूतप्रतिभासात्मको विशेषप्रतिभासः, उत तयतिरिक्त इति कल्पनाद्वयम् । यद्यव्यति२० रिक्तस्तदा ध्रौव्यावभासस्य मिथ्यात्वे विशेषावभासस्यापि तदात्मकत्वाद् मिथ्यात्वापत्तेः कथमसौ तस्य बाधकः ? अथ द्वितीयो विकल्पस्तत्रापि ध्रौव्यप्रतिभासमन्तरेण स्थास-कोशादिप्रतिभासस्य तयतिरिक्तस्यासंवेदनात् कथं तद्वार्धकतोपपत्तिः? न चाक्षव्यापारानन्तरमन्वयप्रतिभासमन्तरेण विशेषप्रतिभास एवोपजायत इति वक्तव्यम् , प्रथमाक्षव्यापारे प्रतिनियतदेशवस्तुमात्रस्यैव प्रतीतेः। अन्यथा तत्र विशेषावभासे संशयाद्यनुत्पत्तिप्रसक्तिः, विशेषावगतेस्तद्विरोधित्वात् । न च तदुत्तर२५कालभाविसादृश्यनिमित्तैकत्वाध्यवसायनिबन्धनेयं संशयाद्यनुभूतिः प्राग् विशेषावगमे एकत्वाध्यवसायस्यैवासम्भवात् अनुभूयते च दूरदेशादौ वस्तुनि सर्वजनसाक्षिकी प्राक् सामान्यप्रतिपत्तिः तदुत्तरकालभाविनी च विशेषावगतिः । अत एव अवग्रहादिज्ञानानां कालभेदानुपलक्षणेऽपि क्रमोऽभ्युपगन्तव्यः उत्पलपत्रशतव्यतिभेद इव । द्वितीयविकल्पोऽप्यत एवानभ्युपगमार्हः, अनुग. ताकाराप्रतिपत्ती तद्विशेपावभासस्यासम्भवादिति । नहि मूल-मध्याऽग्रानुस्यूतस्थूलैकाकारप्रति३०भासनिह्नवे विविक्ततत्परमाणुप्रतिभासानपह्नव इति कुतस्तस्य स्वविषयव्यवस्थापनद्वारेणान्यबाधकत्वम् ? न चकत्वप्रतिभासस्य मिथ्यात्वम् तद्विषयस्य विकल्प्यमानस्याघटमानत्वादिति वक्तव्यम, विकल्पमात्रात् प्रमाणस्यान्यथात्वायोगात् । न चानुगतावभासस्याप्रामाण्यम्, तन्निबन्धनाभावात् । न च क्षणिकानेकनिरंशपरमाण्ववभासस्तनिवन्धनम्, तस्याभावात् । न ह्यसंवे. द्यमानस्तथाभूतावभासः प्रमाणम् इतर वा, प्रतीतिधर्मत्वात् प्रमाणेतरयोः। न च सञ्चितपरमाणु १-झानि पृ-वा. बा.। २-गम्यते घृ. ल.। ३-स्य त मि-वा. वा०। ४-थ्यात्ववि-आ० हा. वि०। ५-थ्याप-वा. बा०। ६-धकोपप-आ० हा०वि०। ७-पारप्र-वा. बा०। ८ "संशय"विरोधित्वात्-पृ. ल. मां० टि०। ९-क्षणोऽपि भां० मां०। १०-तिमेदा -भां० मा० । ११ “'अप्रतिपन्नम्' इत्ययम्"-बृ० ल. मा. टि.। १२-व्यं किं वि-आ० हा०वि०। १३-गात् तान् न वा. बा.

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516