Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 452
________________ नयमीमांसा। ३९३ तथाहि-क्षणमपि स्वरसत एव स्थानोः कल्पान्तरस्थायित्वमपि किं न भवेत् अन्यथा अग्निरिव शैत्ये न क्षणमपि स्वयमस्थानोः स्थायिता युक्तिमती । विनाशहेतुपक्षनिक्षिप्तश्च विकल्पो भावोत्पत्तिहेतावपि समानः । तेस्या(तथा)हि-उत्पत्तिहेतुः स्वभावत एव भावमुत्पित्सुमुत्पादयति, आहोखिदनुत्पित्सुम् ? प्रथमपक्षे विफलता तद्धेतोः। द्वितीयपक्षेऽप्यनुत्पित्सोरुत्पादने वियत्कुसुमादेरप्युत्पादनप्रसङ्गः। वहेतुसन्निधेरेवोत्पित्सोरुत्पादनाभ्युपगमे विनाशहेतुसन्निधानादू विनाशहेतु-५ विनश्वरं विनाशयतीत्यभ्युपगमनीयम् न्यायस्य समानत्वात् स्वयमेवोत्पित्सोस्तत्कृतोपकाराभावात् सम्बन्धाभावतो व्यपदेशाभावतोऽपि(भावोऽपि) समानः एवं च प्रयोजनाभावाद् भावहेतुर्भावं नोत्पादयतीति नाप्यभावं भावयतीति कथं नाकिञ्चित्करत्वम? अभावं भावीकरोति इति चेत् नन्वेवं हेतुर्विनाशहेतुर्भावमभावीकरोतीति तुल्यम् । यदपि 'स्वकारणादुत्पत्तिरात्मलाभो धर्मो यस्योः सा (यस्य स) स्वोत्पत्तिधर्मा तं यदि स्वहेतुर्नोत्पादयति तदा विरुद्धमभिधानं स्यात्' इत्याद्युक्तं तद् विना-१० शहेतावपि तुल्यम् । तथाहि-विनाशकारणाद्विनाश आत्मप्रच्युतिलक्षणो धर्मो यस्य तं यदि विनाशहेतुर्न विनाशयति तदा विरुद्धाभिधानमित्याद्यपि कथ(थं) न समानम् । यदपि 'उत्पत्तः प्रार उत्पत्तिधर्मिणोऽसत्त्वात् किमुत्पत्तिधर्माणमुत्पत्तिहेतुरुत्पादयति, आहोस्विद् अनुत्पत्तिधर्माणम् इत्यादिविकल्पानुपपत्तिः' तदपि विनाशहेतौ समानम्-प्रागभाववत् प्रध्वंसाभावस्यापि भवन्मतेना. भावात् कथं तत्रापि विकल्पोत्पत्तिः? 'येषां च न घटनिवृत्तिः कपालस्वरूपादन्या तेषां कथं न १५ कपालहेतुर्घटध्वंसहेतुर्भवेत् ? अथ कथं कपाललक्षणस्य वस्त्वन्तरस्य प्रादुर्भावे 'घटो विनष्टः' इति व्यपदिश्यते? नैष दोषः, मुद्गरादेर्घटस्यैव कपालभावाद् 'घटो विनष्टः' कथं स एवान्यथा भवतीति चेत् , नन्वसत् कथं भवतीति समानम् । अथ प्राग् घटादिकमसत् सद् भवत्युत्पत्तिसमय इत्यविरुद्धम् । नन्वन्यदा घटः सन् कपालीभवति इत्यविरुद्धमेव । कथं तस्यैव तदन्यत्वमिति चेत् , यथा संवेदनस्यैकय ग्राह्यग्राहकाद्याकारभेदः यथा ह्यरूपेणानेकमेवं(क) भवन्न विरुध्यते इत्यस-२० कृदावेदितम् तेने निवृत्तिः कारणस्य कार्यात्मना परिणतिरेवाभिधीयते तथा च घटप्रच्युतेः कपालस्वरूपत्वे कुतःक्षणिकत्वम् ? अथ भावान्तरं घट-कपालव्यतिरिक्तं घटप्रच्युतिः, नन्वेवमपि तेन सह घटस्य युगपदवस्थानाद्यविरोधात् कथं तत् तत्प्रच्युतिः ? अथ कपालमन्यभावोपलक्षणम् तेन घटाणस्यान्यस्य प्रादुर्भावः पूर्वस्य च प्रध्वंसः सदृशापरापरानुभवश्च दलितपुनरुदितकररुहनिकरादिष्विव 'स एवायम्' इत्येको(का)ऽध्यवसायोदयः। नन्वत्रापि किं स एव पदार्थात्मा प्रतिभाति, २५ आहोस्वित् तत्प्रतिसमयमन्यान्यसंवेदनेऽपि सादृश्यादेकत्वभ्रान्तिरिति नात्र निश्चयो बाधकानुत्पत्तौ दर्शनस्य वितथत्वात् सिद्धः?? ] न च क्षणक्षयव्यवस्थापकमनुमानमेकत्वाध्यवसायि दर्शनस्य बाधकम् अनुमितेरध्यक्षबाधकत्वेन प्रवृत्तेस्तस्यास्तत्पूर्वकत्वात् यतोऽध्यक्षावगतं प्रतिबन्धमाश्रित्य पक्षधर्मता. दर्शनबलादूनुमितिरुदयति अनुमानादविनाभावावगमेऽनवस्थाप्रसक्तेः । न च स्थायितादर्शनमनु मानेन बाधितत्वान्नाध्यक्षतामनुभवतीति वाच्यम्, क्षणक्षयानुमानमध्यक्षेण बाधनादनुमान(नं न)३० भवतीत्यपि पर्यनुयोगस्य तुल्यत्वात् । अतः स्थायितादर्शनं क्षणक्षयग्राहिणा परेणाध्यक्षेण बाधकेनाध्य(नानध्यक्षीकर्तव्यम् क्षणक्षयनिर्भासविरहेण तस्य (?) अन्यथा तेन सह विरोधासिद्धेः । ततः प्रतिक्षणभेदावास्येवाध्यक्षं नित्यताध्यवसायिदर्शनस्य बाधकं नान्यत् । न च प्रतिक्षणविशरारुतावभास्यध्यक्षमनुभूयते, स्थिरस्थूरार्थावभासिनोऽध्यक्षप्रभवस्य संवेदनस्य सर्वदोपलक्षणत्वात् । अथ प्रत्यक्षेऽपि बाधकेऽभ्युपगम्यमाने द्वयोरपि दर्शनयोः परस्परप्रतिहतिद्वारेणानध्यक्षता कस्मान्न भवति३५ येनैकमेवानध्यक्षीभवति, नैतदेवम् ; अतुल्यत्वात् दुर्बलं हि बलवता प्रतिहन्यते रजतदर्शनमिव १ "तथाहि-उत्पादहेतुः खभावतः" इत्यादि-प्रमेयक० पृ० १४६ प्र. पं० ११ । २-प्य भावयती-आ० । ३-स्था सा हा० वि०। ४-था वि-आ० । ५ धर्मोप्यस्य हा०। ६ येषां न च घ-आ० हा. वि.। ७-पादेन्या मा. आ. वि. विना। ८-स्य ग्राहकाद्या-हा० ।-स्य श्रीकाद्या-आ० । ९-रहेतभे-वि० । १०-न न निवृत्तिः भां० मा० ।-न विवृत्तिः हा० । वि० सं० । ११ “युगपदवस्थानाविरोधात् कथं तत् तत्प्रध्वंसः"-प्रमेयक० पृ० १४६ प्र० ५० ५। १२-क्षणस्यान्यप्रा-आ० ।-क्षणान्यस्य प्रा-भां० मां० । १३-परानु-आ०। १४ नत्तत्रापि हा०। नतत्रापि वि० । न त्रापि आ० । १५-कत्वं भ्रा-हा० । १६-नाथप्र-आ०। १७-क्षयि ग्रा-भां० मा०। १८ तत प्र-भां०। तत्र प्र-आ० हा० वि०। १९-भा स्यैवा-हा०। २०-णाध्यक्ष-आ० हा. वि.।

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516