Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 458
________________ नयमीमांसा। ३९९ अथापि स्यात् अर्थक्रियास्वरूपं सत्वं नित्यतायामसम्भवि अन्यथाभूतं च तन्न सम्भवतीति क्षयिणः सर्वेऽपि भावाः। तथाहि-सत्तासम्बन्धः तावत् सत्त्वं नोपपद्यते व्यक्तिव्यतिरेकेण तस्या अनवभासनात् । न ह्यक्षान्वय-व्यतिरेकानुविधायिनि दर्शनोदये परिस्फुटप्रतिभासव्यक्तिस्वरूपव्यतिरेकेणाऽपरा वर्णसंस्थानविरहिणी बहिग्राह्याकारतां बिभ्राणा सत्ता प्रतिभाति तदवभासिन्या अक्षप्रभवसंविदोऽननुभवात् । न च सकलजनताविशदसंवेदनगोचरातिकान्ता सा समस्तीति५ शक्यमभिधातुम् अभावव्यवहारोच्छेदप्रसक्तेः । न च कल्पनावुद्धिः 'सत सत्' इति सत्तास्वरूपम्ल्लिखन्ती प्रतिभातीति तदवसेयत्वात् सत्ता सतीति वक्तव्यम् कल्पनाबुद्धावपि बहिःपरिस्फुटव्यक्तिस्वरूपान्तर्नामोल्लेखाध्यवसायव्यतिरेकेण सत्तास्वरूपस्याप्रकाशनात् । तन्न कल्पनार्बुद्ध्यध्यवसेयापि सत्तेति कथं सा सतीति? किञ्च, न तावत् सतः सत्तासम्बन्धात् सत्त्वम् सत्तासम्बन्धात् प्रागेव पदार्थस्य सत्त्वप्रसक्तेः प्राक् सत्ताभ्युपगमे च सत्तासम्बन्धवैयर्थ्यम् । नाप्यसतस्तत्सम्बन्धात् सत्वम् १० शशशृङ्गादेरपि सत्त्वप्रसक्तेः। न च खरविषाणादेः स्वरूपविरहात् न सत्तासम्बन्धः इतरेतराश्रयप्रसक्तेः-शशशृङ्गादेः स्वरूपविरहात् सत्तासम्बन्धाभावसिद्धिः तत्सिद्धौ च खरूपविरह सिद्धिरितीतरेतराश्रयत्वम् । यदि च शशशृङ्गादेः स्वरूपविरहान्न सत्तासम्बन्धस्तर्हि यत्र गोशृङ्गादौ स्वरूपसद्भावस्तत्र सत्तासम्बन्ध इति स्वरूपसत्त्वमायातम् तथा सत्ताऽपि यदि न स्वरूपेण सती तदा अपरसत्तासम्बन्धात् सा सती स्यात् साऽपि सत्ता अन्यसत्तासम्बन्धात् सत्यभ्युपेयेत्यनवस्थाप्र-१५ सक्तिः । अथ सा न सती न तर्हि तत्सम्बन्धो भावसत्त्वव्यवस्थापकः न हि गगनारविन्दसम्बन्धः कस्यचित् सत्त्वव्यवस्थापकः । न च गगनारविन्दस्य सम्बन्धाभावात् न तद्योगः कस्यचित् सत्त्वं व्यव स्थापयति सत्तायास्तु सम्बन्धसद्भावात् तद्योगात् पदार्थसत्त्वमिति वक्तव्यम् यतः सम्बन्धोऽपि विद्यमानस्य भवेत् अविद्यमानस्य वा? यदि विद्यमानस्य न किञ्चित् सम्बन्धकल्पनया तदन्त(तमन्त) रेणापि विद्यमानत्वात् । अथाविद्यमानस्य गगनारविन्दस्यापि स्यात् इति न सत्तासम्बन्धः२० सत्त्वम् । नापि स्वरूपतः सत्त्वम् स्वप्नावस्थावगतेऽपि पदार्थात्मनि स्वरूपसद्भावात् सत्वप्रसक्तः। यदि हि परिस्फुटसंवेदनावभासनं स्वरूपमुच्यते तत् स्वप्नदशायामपि पदार्थात्मनो विद्यत इति कथं न तत्सत्त्वप्रसक्तिः? तत्पारिशेप्यात् अर्थक्रियायोगः सत्त्वम् स च क्रम-योगपद्याभ्यां व्याप्तः ते च न नित्ये सम्भवतः यतो न क्रमवती अर्थक्रिया नित्ये सम्भविनी तस्य स्वरूपमात्रेण कार्यकरणसामर्थ्य तदैव सकलकार्योत्पत्तिप्रसक्तिः कालविलम्बायोगात्। नहि पदार्थस्वरूपनिवन्धनं कार्य २५ तत्स्वरूपस्य प्रागपि सन्निधाने क्रमोत्पत्तिकं युक्तम् । न च नित्यस्याविचलितरूपस्य सहकारिसव्यपेक्षस्य स्वकार्यकरणात् सहकारिक्रमात् कार्यक्रमः, नित्यस्य सहकार्यपेक्षायोगात् । नहि स्थायिनो निरतिशयं स्वरूपं बिभ्राणस्य सहकारिणा क्रमवता कश्चिद्व्यतिरिक्त उपकारः कर्तुं शक्यः। नापि व्यतिरिक्तोपकारजननात् तस्य सहकारीणि किञ्चित्कराणि भवन्ति अतिप्रसङ्गात् । न चाकिञ्चि. त्कराण्यपेक्ष्यन्त इति युगपत् सकलकार्योदयप्रसक्तिः। न च योगपद्येनाप्यर्थक्रिया नित्यात् सम्भवति ३० पूर्वोत्तरकालयोरपि तत्स्वभावाप्रच्यतेस्तावतः कार्यस्योदयप्रसक्तरित्यादिक्षणिकतां व्यवस्थापयद्भिः सौगतैः प्रतिपादितम् न पुनरुच्यते ग्रन्थविस्तरभयात् । ततः क्रम-योगपद्याभ्यामर्थक्रिया नित्याद् व्यावर्त्तमाना क्षणिकतायामेवावतिष्ठत इति कथं न सत्ता क्षणिकताव्याप्ता? __ असदेतत्, यतो यद्यर्थक्रिया क्रमेणोत्पत्तिमती भिन्ना हेतोः किमायातम् येन तद्भेदाद्धेतोर्भेदो भवेत् न ह्यन्यभेदादन्यद भिन्नमतिप्रसङ्गात् । न च हेतोः प्रतिक्षणमभिन्नरूपत्वे एकस्वभावत्वादर्थ-३५ क्रियापि युगपद् भवेत् यतो नायं नियमः एकस्वभावत्वे हेतोरर्थक्रियया युगपद् भवितव्यम् यदि हि कारणसद्भावेऽर्थक्रिया युगपदुपलभ्येत तदा युगपदुदेतीति व्यवस्था भवेत् न च कारणाभेदेऽपि युगपदुदयमासादयन्ती सा ततो लक्ष्यत इत्यनुभववाधितमर्थक्रियायोगपद्यम् । न च प्रतिक्षणविशरारुताऽविनाभूतः क्रमवदर्थक्रियोत्पादः क्वचिदुपलब्धो येन तदुदयक्रमात् तद्धेतोः प्रतिक्षणभेदः १ बहिरप-बृ० वा० बा०। २-व्यक्तिः स्व-वा० बा० । ३-न्तर्नामोल्लेख्यध्य-आ० । ४-बुद्ध्यवभा० हा० वि०। ५-दार्थ स-आ०।६ यदि श-आ०। ७ यदि स्व-बृ०। ८-गते प-वा० बा० । -कतां प्रस्था-आ. हा० वि० ।

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516