Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 459
________________ प्रथमे काण्डेसिद्धिमासादयेत् । न चार्थक्रियापि प्रतिक्षणं भेदवती सिद्धा तत् कथं स्वयमसिद्धा हेतोः प्रतिक्षणभेदमवगमयति । न च सौगतानां कालाभावादर्थक्रियाक्रमो युक्तिसङ्गतः । यदि ह्यतीतानागतवर्तमानकालभेदसङ्गतिमासादयेयुः कार्याणि तदा क्रमवन्ति भवेयुः। न च कार्यपरम्पराव्यतिरिक्तः कालः सौगतैरभ्युपगत इति भिन्नफलमात्रमेव । न च फलभेदमात्राद्धेतुभेदव्यवस्था कर्तु ५शक्या एकस्यापि प्रदीपादेरेकदाऽनेककार्यकरणात् । अथ वैशेषिकादिपरिकल्पितः पदार्थव्यतिरिक्तः कालोऽभ्युपगम्यते तथापि तस्यैकत्वात् न तद्भेदनिमित्तः कार्यभेदो युक्तिसङ्गतः। न चैककालानुपङ्गात् कार्याणि क्रमवन्ति भवन्ति योगपधाभावप्रसक्तेः। न च कालस्यैकत्वेऽपि क्रमवद्वर्षातपादिसम्बन्धात् क्रमः इतरेतराश्रयप्रसक्तेः। तथाहि-कालक्रमाद् वर्षादेः क्रमः तत्क्रमाच्च कालक्रम इति कथं नेतरेतराश्रयत्वम् ? न च काल१० क्रमहेतुरपरः कालोऽभ्युपगमविषयः अनवस्थाप्रसक्तेः कालक्रमनिमित्तापरापरकालाभ्युपगमानिष्ठितेः । न च कालः स्वरूपादेव क्रमवान् कार्याणामपि स्वरूपत एव क्रमवत्त्वप्रसक्तेः एवं च कालपरिकल्पनावैयर्थ्यप्रसक्तिः । तन्न कालाभ्युपगमेऽपि कार्यक्रमो युक्त्या सङ्गच्छत इति कथं कार्यक्रमो हेतुभेदमवगमयति? न च कार्यक्रमाभ्युपगमेऽपि हेतुरनित्यतामासादयतीत्युक्तम् । अथ क्रमेण कार्योदये अनेककर्तृत्वसङ्गतेरनित्यता, ननु कार्यक्रमदर्शनात् यदि नाम कारणस्य क्रमः स्वभाव. १५ मेदस्तु कथं सिध्यति? न च क्रमेण कार्यजनने जनकत्वाजनकत्वे भवत इति स्वभावभेदलक्षण मनित्यत्वं सिध्यति यतः क्रमोपेतकार्योपलम्भाद्धेतोर्जनकाजनकस्वभावं भेदं कल्पनाऽध्यवस्यति । न च तत्प्रदर्शितस्वभावभेदाद भावा भिद्यन्ते तथाऽभ्युपगमे वा कल्पना भावानामेकत्वमध्यवस्य न्त्युदयतीति नित्यता तेषां भवेत् । कल्पनाप्रदर्शितश्च भावानां जनकत्वाजनकत्वलक्षणः स्वभावभेदः । तथाहि-उदितप्रयोजनापेक्षया कल्पना भावानां जनकत्वमध्यवस्यति अनुदितफलापेक्षया तु २० तत्रैवाऽजनकत्वं सैवाध्यारोपयति, न च कल्पनाप्रदर्शितस्वभावभेदात् भावानां भेदो युक्तः अन्यथा परोपजनितकार्यापेक्षयैकस्यैव क्षणस्याजनकत्वम् स्वोत्पाद्यकार्यापेक्षया तु जनकत्वं तदैव तस्यासौ व्यवस्थापयति इति युगपदेकस्य क्षणस्य स्वरूपभेदप्रसक्तिः। अथात्राभेदप्रतिभासः कल्पनाप्रदर्शितं मेदं बाधते तर्हि क्रमेण कार्यजननेऽपि कल्पनाप्रदर्शितो जनकत्वाजनकत्वलक्षणः स्वभावभेदोऽभेदनिर्भासेन किं न बाध्यते ? न च क्रमेण कार्योत्पत्ती हेतुभेदः प्रतिक्षणमवभात्येव भ्रान्त्या तु २५न निश्चीयत इति वक्तव्यम् प्रतिक्षणं भेदसंवेदनस्याननुभवात् अननुभवे तु तत्कल्पने अतिप्रसंक्तिरित्युक्तमिति नार्थक्रियाभेदात् कारणभेदः अन्यभेदस्यान्याभेदकत्वात् । किञ्च, यदि नाम क्रम-योगपद्याभ्यां नित्यात् अर्थक्रिया व्यावृत्ता तथापि न ततः क्षणक्षयसिद्धिः। तथाहि-यथैषा अक्षणिकेभ्यो व्यावृत्तत्वात् क्षणिकत्वं साधयति तथा क्षणिकेभ्योऽपि व्यावृत्त त्वादक्षणिकतां साधयेत् । न च क्षणिकेभ्योऽस्या अव्यावृत्तिः। यतः क्षणिका अपि कार्यमुत्पादयन्तः ३० किं केवला एकमुत्पादयन्ति, उतानेकम् ? तथा समुदिता अपि तदेकम् , अनेकं वा? न तावदेक एकमुत्पादयत्यनभ्युपगमात् अदर्शनाच्च । तथाहि-एक एवाग्निः इन्धनविकार-धूम-भस्मादिकमनेकं कार्यमुत्पादयन्नुपलभ्यत इति नैक एकमेव जनयतीति नियमः "न वै किश्चिदेकं जनकम्" ] इत्यभ्युपगमविरोधश्चैकस्यैकजनकत्वेनाप्येकमनेकोत्पादकम् सामग्र्या एव जनकत्वाभ्युपगमात् अनेकस्मात् कार्योत्पत्युपलब्धेश्च । नाप्यनेकमेकोत्पादकम् कार्यस्यानेक३५ स्मादुपजायमानस्य नानात्वापत्तेः। न हि विज्ञानवाद्यभ्युपगतकार्यव्यतिरेकेण बाह्य वस्तु सामग्रीत उपजायमानं विज्ञानं वा एकं भवति । सौत्रान्तिक-वैभाषिकमतेन सञ्चितेभ्यः परमाणुभ्यः सश्चि १-त्रकमे-आ० हा० वि०विना। २-र्यकारणा-आ० हा० वि० । ३-भाव मेदं क-आ०। ४-क्षण स्व-आ०। ५ "कल्पना"-बृ० टि.। ६-दात् मेदानां भेदो हा० वि०। ७ “कल्पना"-बृ० टि० । ८-दर्शितजन-६०। ९-सक्तिरित्युक्तमिति अत्र बृ० प्रतौ 'रि' 'मि' इत्यनयोरुपरि यदेतद् अर्धचन्द्रसदृशं चिह्नमस्ति तद् इकारदर्शकमस्ति । १० “न तु खोपादानमात्रभावि किञ्चित् कार्य संभवति सामग्रीतः सर्वस्य संभवात् । यथोक्तम्-"न किञ्चिदेकमेकस्मात् सामय्याः सर्वसंभवः" "-तत्त्वसं० पजि० पृ० १५५ पं०१३। ११ “विज्ञानवादिमते विज्ञानमनेकस्मादुपजायमानं नैकम् सौत्रान्तिकमते बाह्य वस्तु । एतदेव विवृण्वन्नाह"-बृ० म०टि०।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516