Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 462
________________ नयमीमांसा । स्वरूपसत्त्वमायातम्, अपि चार्थक्रियाकाले हेतोरदर्शनात् असतस्तस्य कथं सत्ताऽवगम्यते ? न च 'अर्थक्रियोदयात् प्राक् कारणमासीत्' इति व्यवस्थापयितुं शक्यम् , यतो यदि स्वरूपेण पूर्व हेतुरवगतो भवेत् तदनन्तरं चार्थक्रियोपलम्भानुभवः स्यात् ततोऽर्थक्रिया अवगतप्रतिबन्धोपलभ्यमाना प्राग् हेतुसत्ताव्यवस्थापनपटीयसी भवेत् । न चार्थक्रियामन्तरेण हेतुः स्वरूपेण कदाचिदप्युपलब्धिगोचरः स्वरूपसत्त्वप्रसक्तेः। किञ्च, यद्यर्थक्रिया हेतुसत्ताव्यवस्थापिका तस्या अप्यपरार्थ-५ क्रिया व्यवस्थापिकेत्यनिष्ठाप्रसक्तेर्न हेतुसत्ताव्यवस्थितिर्भवेत् । न चार्थक्रिया अनधिगतसत्त्वस्वरूपाऽपि हेतुसत्त्वव्यवस्थापिका शशविषाणादेरपि तत्सत्त्वव्यवस्थापकत्वप्रसक्तेः। न च हेतुजन्यत्वादर्थक्रिया सती नार्थक्रियान्तरोदयादिति वक्तव्यम् इतरेतराश्रयप्रसक्तेः। तथाहि-हेतुसद्भावादर्थक्रिया सती तत्सत्त्वाञ्च हेतोः सत्त्वमिति परिस्फुटमितरेतराश्रयत्वमिति नार्थक्रियालक्षणं सत्त्वम् । भवतु वार्थक्रियालक्षणं सत्त्वं तथापि नातः क्षणक्षयानुमानम् यतोऽसौ भावानां १० क्षणस्थायितां साधयति, उत क्षणादूर्ध्वमभावम् ? प्रथमपक्षे सिद्धसाध्यता नित्यस्यापि भावस्य क्षणावस्थानाभ्युपगमात् अन्यथा सदावस्थितिरेव न भवेत् क्षणावस्थितिनिवन्धनत्वात् क्षणान्तरादिस्थितेः। न चोत्तरकालमभावमवगमयति अभावेन सह तस्याः प्रतिबन्धाभावात् न चाप्रतिबन्धविषयः शशविषाणादिवदनुमेयः । किञ्च, समानकालं वा सा साध्यं साधयेत् मिन्नकालं वा? यदि समानकालं सदूपं साध्यं साधयति तदा तत्समानकालभाविनः सत्तामात्रस्य १५ सिद्धत्वात् सिद्धसाध्यता अभावेन च प्रतिवन्धाभावान्न ततस्तत्सिद्धिः। अथ मिन्नकालं साधयति तत्रापि प्रतिबन्धाभावात् न ततस्तत्सिद्धिः न हि भिन्नकालेन विद्यमानेनाविद्यमानेन वा सत्तायाः कश्चिदविनाभाव इति यत्राविनाभावस्तत्र विप्रतिपत्तिर्नास्ति यत्र च विप्रतिपत्तिस्तत्राविनाभावस्याभाव इति न सत्तातः क्षणक्षयानुमानम् । न च सत्त्वं वर्तमानकालभावित्वम् तच्च पूर्वापरकालसम्बन्धविकलतया क्षणिकत्वं तदात्मकतया भावानां प्रकटयति यतो वर्तमानं क्षणिक-२० मिति कुतोऽवगम्यते ? पूर्वापरयोस्तत्रादर्शनादिति चेत्, न; दृश्यादर्शनस्यैवाभावव्यवहारसाधकत्वात् । अदर्शनमात्रस्य तु सत्यपि वस्तुनि सम्भवात् न तत्र प्रमाणता । न च सर्व वस्तु सर्वदा दर्शनयोग्यम् चक्षुर्व्यापाराभावे वस्तुनोऽप्रतिभासनात् तदैव च चक्षुर्व्यापारात् परेणोप लम्भात् तन्न पूर्वापरयोरनुपलम्भमात्रादभावनिश्चय इति न प्रत्यक्षानुमानाभ्यां क्षणिकतावगमः । न चैतद्यतिरिक्त प्रमाणान्तरं परैरभ्युपगम्यते इति कुतः क्षणिकत्वसिद्धिः? २५ यदपि 'यद् यथावभासते तत् तथैवाभ्युपगन्तव्यम् यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेणाभ्युपगमविषयःक्षणपरिगतेन च रूपेण पदार्थाः प्रतिभान्तीति प्रत्यक्षसिद्धे क्षणिकत्वे तद्यवहारसाधनाय हेतूपादानम् इति परैः प्रतिपादितम् तदप्ययुक्तम् । 'क्षणपरिगतेन रूपेण प्रतिभासनात्' इति हेतोरसिद्धेः कालान्तरस्थायितयाऽध्यक्षे भावानां प्रतिभासनस्य प्रतिपादितत्वात् । यदप्यभिहितम् 'न प्रथमदर्शनेन कालान्तरस्थितिरवसातुं शक्या' तदप्यसङ्गतम् : स्थिर-३० रूपपदार्थदर्शनात आ विनाशकारणसन्निधानात् स्थायितया आद्यदर्शनेनैव भावस्य ग्रहणात अन्यथैकक्षणस्थायितया तस्य ग्रहणे व्यवहारार्थमुपादानं न भवेत् । न च तत् क्षणप्रभवं वस्तु व्यवहारं साधयिष्यतीति तदुपादानम् एवंभूतप्रतिपत्तेरभावात् । नहि व्यवहारिणः 'इदमर्थक्रियाकारि वस्त्वन्यदेव' इति प्रतिपद्यन्ते। न च सन्ताननिबन्धनोऽयं व्यवहारःक्षणिकत्वासिद्धौ सन्तानस्यासिद्धेः। न च भ्रान्तोऽयं व्यवहारः अतस्मिंस्तद्ब्रहणरूपस्य भ्रान्तत्वस्य क्षणक्षयासिद्धावसिद्धेः । न च क्षणिकत्वं ३५ १ तत्स्वत्वव्य-वा. बा. आ०। २-दत्रार्थ-आ०। ३ “अस्तु वा अर्थक्रियालक्षणं सत्त्वम् तथापि अतोऽर्थानां क्षणस्थायिता क्षणिकत्वं साध्येत क्षणाद् ऊर्ध्वमभावो वा"-प्रमेयक० पृ. १४८ द्वि० ५० १०। ४ “यदि हि एकस्मिन् क्षणे न स्थितिर्भावस्य तदा क्षणान्तरेऽपि कथं स्यात्"-वृ० मां.टि.। ५ तस्याप्र-वृ० वा. बा. हा०वि०। ६ वा साध्यं आ० हा० वि० । ७-कालसद्र-बृ०। ८ "सत्ता"-मां. टि. । “साधन"-वृ० टि। ९-वान्नतस्त-वा० बा० ।-वात् ततस्त-ल. । वा ततस्त-आ० । १० “अन्येन पुंसा"-बृ० मां.दि.। ११-क्षसिद्धक्ष-भां० मा०।

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516