Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 456
________________ नयमीमांसा। भानविषयावगमस्वभावप्रतिपत्तेः तद्विपरीतार्थालम्बनाप्रतीतिः अपरैव लोकेनानुभूयते । न चैकसन्तानपूर्वसन्तानव्यावृत्तिनिवन्धनाऽपरसन्तानोत्पत्तिनिवन्धनोऽयं प्रतिपत्तिभेदः क्षणिकत्वसिद्धावेतद्वचनस्य घटमानत्वात् तत्र चाद्यापि विवादात् । न च जनकोऽर्थी वर्तमानकालतया नाक्षसंविदि प्रतिभाति किन्तु तस्यां तत्समानकालभाव्याकारस्तेनाधीयते तस्य तथावभासात वर्तमानार्थावगम इत्यच्यते ज्ञानकाले बहिरवभासमानस्य नीलादेओनाकारतयाऽसिद्धरन्यथाऽन्तरवभासमानस्य५ सखादेरप्याकारताप्रसक्तिः इति ज्ञानसत्तैवोत्सीदेत् । निराकरिष्यते च साकारता ज्ञानस्य ।न चार्थस्य ज्ञानजनकत्वे अवगते क्षणद्वयस्थायित्वमर्थस्य सिध्यति तदेव तु तस्यावगन्तुमशक्यम् । तथाहि-न तावत् तदवभासिना ज्ञानेन तस्य जनकताऽवगन्तुं शक्या तेन तत्स्वरूपस्यैव ग्रहणात्, जनकता तु तज्ज्ञानहेतुत्वम् न तत् तेन परिच्छेत्तुं शक्यम् , नापि तदवभासिना झानान्तरेण तस्यापि तत्तुल्यत्वात् अतत्प्रतिभासिनाप्यतणस्वभावत्वात् न तज्जनकतापरिच्छेदः तत्स्वरूप-१० प्रतिभासे हि 'इदमस्मादुत्पन्नम्' इत्यवगन्तुं शक्यं नान्यथेति वक्तव्यम् यतो देवदत्तावभासिनो ज्ञानस्य तद्देशदेवदत्तसन्निधेः प्रागभावमवगत्य तद्देशसन्निहितदेवदत्तावभासोदये तस्य तदन्वय-व्यतिरेकानुविधायित्वमवगतं तजन्यतां तस्य व्यवस्थापयति अन्वय-व्यतिरेकावगमनिबन्धनत्वात् तज्जन्यतावगतेः अथवा कार्यव्यतिरेकाच्चक्षुरादेरिव विषयस्यापि तज्जनकत्वमवसीयते केवलं चक्षुरादेर्विशिष्टज्ञानव्यतिरेकेण जनकत्वावधारणेऽपि स्वरूपाप्रतिभासादेतीन्द्रियत्वम् विष-१५ यस्य पुनः कार्यव्यतिरेकादवगतस्य जनकत्वेन तत्स्वरूपावभासात् तदध्यक्षता । नहीन्द्रियज्ञानविषयत्वव्यतिरेकेणान्यत् प्रत्यक्षलक्षणमिति विषयस्य तजनकत्वे स्थिते वर्तमानताहण एव तस्याक्षणिकत्वग्रह इति तेन तद्विरुद्धानुमानवाधा। अथ वर्तमानार्थावभासिनाऽध्यक्षेण न प्राक्तनक्षणभाविनोऽर्थस्य जनकत्वनिश्चयः तस्यानुमानगम्यत्वात् तेन ज्ञानोदयात् प्रागर्थप्रतिपत्तिरनुमानफलम् जनकत्वात् ज्ञानसत्तातः प्राग्भावो विषयस्यान्यकारणस्येव इति कथमनुमानबाधा २० वर्तमानावभासिनाऽध्यक्षेणेत्युच्यते, असदेतत्; यतो न जनकत्वमनुमानगम्यम् तस्याध्यक्षाविषयत्वे तत्प्रतिबद्धत्वेन लिङ्गस्यानिश्चयादनुमानगम्यताऽपि न भवेत् तत् कुतो ज्ञानार्थव्यतिरिक्तस्यापि वस्तुनो जनकत्वमनुमीयेत? तत् मानसाध्यक्षगम्यम् ऊहाख्यप्रमाणगम्यं वा अभ्युपगन्तव्यम् । यच्च 'जनकत्वात् कार्यसत्तातः पूर्व कारणसत्तेत्यनुमानगम्यत्वं जनकस्य' इत्युक्तम् , तदपि परिहृतमेव; यतः एका भावावगमपूर्विका चक्रमूर्द्धव्यवस्थितघटप्रतिपत्तिः अपरा प्रदीपादिव्यापार-२५ प्रभवा तदनवगमपूर्विका यया स्वविषयपरिच्छेद एवं क्रियते-'न सम्प्रत्येवायं भावः अपि त प्रागा सीत्' इति अतीते च क्षणेऽक्षव्यापारः शतादिप्रतीत्या प्रदर्शितः। यदपि 'न गृह्यमाणस्य ज्ञानसमानसमयस्य जनकता जनकस्य च क्षणिकत्वेन वर्त्तमानतयाऽतीतस्य न प्रतिभासः इति समारोपिताकारग्राहि सर्वमेव ज्ञानम्' इत्युच्यते, तदप्यसारम्; नील-द्विचन्द्रज्ञानयोरविशेषप्रसक्तेः। न च बाह्यार्थवादिना तयोरविशेषोऽभ्युपगन्तव्यः प्रमाणाऽप्रमाणपविभागप्रलयप्रसक्तेः। न चानेन ३० न्यायेन विज्ञाननय एवावतार्यत इति वक्तव्यम् तस्य निषेत्स्यमानत्वात् । न च ज्ञानाऽर्थयोरेकसामग्रीजन्ययोः सहभावित्वेन वर्तमानग्रहणं क्षणिकत्वेऽपि वैभाषिकमताश्रयणेनाभ्युपगन्तव्यम क्रियानियमस्य कर्मशक्तिनिमित्तत्वेन व्यवस्थापितस्याभावप्रसक्तेः।। भवतु वाऽनुमानात् प्राक्तनक्षणे सत्ताप्रतीतिस्तथाप्यनन्यथासिद्धनानेनान्यथासिद्धस्य क्षणक्षयानुमानस्य बाधनात् कुतस्तत्सिद्धिः? न च क्षणक्षयानुमानस्यान्यथासिद्धत्वासिद्धिर्बाधकप्रमाणब-३५ लात् सत्ता-क्षणिकत्वयोरविनाभावसिद्धेरिति वक्तव्यम्, यतस्तद्वाधकं प्रमाणं सत्तायाः क्षणिकावि १-न पूर्व सन्तानव्या-बृ० ।-न ६ पूर्वसन्तान ६ व्या-वा० बा०। २-नाभिधीय-बृ० ल० वा. बा.विना। ३ इत्यच्यते बृ०। ४ “यदि हि ज्ञानेऽवभासमानत्वेन बहिः सत्त्वेन ज्ञायते तदा सुखादेरप्यवभासमानत्वेन ज्ञाने बहिर्भावप्रसक्तिः"-वृ. भा. मा. टि०। ५ "ज्ञानजनकत्वम्"-बृ० मां. टि.। ६ शक्य तेन तत ल.। ७ “परेण"-बृ० मांटि.। ८-सन्निधिः आ०। ९-दपीन्द्रिय-ल.। १०-ग्रह एव बृ० वा. बा. भां० मां०। ११ "क्षणक्षयग्राहि"-बृ. टि.। १२-म्यं ते त-आ०। १३-गम्यं चा-भां०मा०। १४ "चक्रमूर्धनि व्यवस्थितघट"-भां० मा० टि। १५ “अध्यक्षेण"-मां० टि। ५१ स० त०

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516