Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 441
________________ ३८४ प्रथमे काण्डेन हि नीलादीनामवस्तुस्वरूपत्वादेकदेशत्वप्रसङ्गः, नापि संवेदनस्यामेदः अविद्याविरचितत्वात तद्भेदस्येति श्लोकद्वयाभिप्रायः। [तस्य च दर्शनस्य पर्यायास्तिकमतेन प्रतिविधानम्] अत्र प्रतिविधीयते-प्रमाणाधीना हि प्रमेयव्यवस्था । न चैवंभूतब्रह्मसिद्धये प्रमाणमुपलभ्यते ५ किश्चित् । तथाहि-न तावत् प्रत्यक्षं तथावस्थितब्रह्मस्वरूपावेदकम् नीलादिव्यतिरेकेण तत्रापरस्य ब्रह्मस्वरूपस्याप्रतिभासनात् । अथ ज्ञानात्मरूपवत् स्वसंवेदनस्याध्यक्षत एव शब्दब्रह्म सिद्धम् ज्योतिस्तदेव शब्दात्मत्वाच्चैतन्यरूपत्वाच्चेति प्रतिपाद्यते, असदेतत्; स्वसंवेदनविरुद्धत्वात् । तथाहि-अन्यत्र गतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव नीलादिप्रत्ययमनुभवतीति विस्तरेण प्रतिपादितमेव सौगतैः नेह प्रदर्श्यते ग्रन्थगौरवभयात् । तेन “वाग्रूपता चेद् व्युत्क्रामेत्" इत्यादिना(त्यादि) १० तथा "न सोऽस्ति प्रत्ययो लोके” इति च प्रत्युक्तं द्रष्टव्यम् । तन्नाध्यक्षतो बाह्येन्द्रियजात् स्वसंवेदनाद्वा तथाभूतब्रह्मसिद्धिः । नाप्यनुमानतस्तत्सिद्धिः यतोऽनुमानं कार्यलिङ्गजम्, स्वभावहेतुप्रभवं वा तत्सिद्धये व्याप्रियेत? अनुपलँब्धेः प्रतिषेधविषयत्वेन विधावनधिकारित्वात् । तत्र न तावत् कार्यलिङ्गजं तत्र व्याप्रियते, नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् ततः कार्यस्यैव कस्यचिदसम्भवात् । नापि स्वभावहेतुप्रभवस्य तस्य तत्र व्यापारः ब्रह्माख्यस्य धर्मिणोऽसिद्धत्वेन १५ तत्स्वभावभूतस्य धर्मस्य सुतरामसिद्धेः। न चैतद्व्यतिरिक्तमपरं विधिसाधकं लिङ्गमस्ति तस्य स्वसाध्यप्रतिबन्धाभावात् । न चाप्रतिबद्धं लिङ्गं युक्तम् अतिप्रसङ्गात् । शब्दरूपान्वयत्वं चासिद्धत्वात् न पारमार्थिकब्रह्मस्वरूपसाधनायालम् । नाप्यागमात् तत्सिद्धिः तस्यानवस्थितत्वात् । किञ्च, "ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म चामृतम् । तदयोग्यतयाऽरूपं तद्वा वस्तुषु (?) लक्षणम् ॥” [ २० इत्येतत् प्रतिपादितमनेकधा न पुनरुच्यते । यदपि न्यगादि "तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव पश्यन्ति' इति, तदप्यसङ्गतमेव; येतो यदि योगजे १ "तत्रापि वेद्यते रूपमविद्योपप्लुतैर्जनैः । यन्नीलादिप्रकारेण त्यागादाने निबन्धनम्" ॥ तद्रूपव्यतिरेकेण ब्रह्मरूपमलक्षितम् । कथं व्युत्थितचेतोभिरस्तित्वेन प्रतीयते" ॥ तत्त्वसं. का. १४५-१४६ पृ. ७२ । २-ह्मरूपा-आ० हा० वि० । “न तत् प्रत्यक्षतः सिद्धमविभागमभासनात्"। तत्त्वसं० का० १४७ पृ. ७३। ३ "स्यादेतत् स्वसंवेदनप्रत्यक्षत एव तत् सिद्धम् ज्ञानात्मरूपत्वात् । तथाहि-ज्योतिस्तदेव शब्दात्मकत्वात् चैतन्यरूपत्वाच"-तत्त्वसं० पजि. पृ० ७३ पं० १०। ४ वीक्ष्यमा-आ.विना। ५ पृ. ३८० पं० १४ तथा ९। ६ "नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं च तत्र न" ॥ "धर्मिसत्त्वाप्रसिद्धस्तु न खभावः प्रसाधकः । न चैतदतिरेकेण लिङ्गं सत्ताप्रसाधकम्" ॥ तत्त्वसं. का. १४७-१४८ पृ. ७३ । ७-लब्धे प्र-आ० हा० वि०। ८-करणोऽप्य-आ०। ९-मृताम् । हा० वि० । १० "ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म गम्यताम् । तदयोग्यतया रूपं तङ्यवस्तुत्वलक्षणम्" ॥ तत्त्वसं० पजि. पृ. ७३ पं० २६ । ११ "ज्ञानं शेयक्रमात् सिद्धं क्रमवत् सर्वमन्यथा । यौगपद्येन तत् कार्य विज्ञानमनुषज्यते ॥ ज्ञानमात्रेऽपि नैवास्य शक(क्य?)रूपं ततः परम् । भवतीति प्रसकाऽस्य वन्ध्यासूनुसमानता" ॥ तत्त्वसं० का. १४९-१५० पृ०७३-७४ । "एतच्च पूर्वम् ईश्वरपरीक्षायां प्रसाधितम्"-तत्त्वसं० पजि. पृ० ७४ पं० ४ । तच्चैवम् "क्रमाक्रमविरोधेन नित्या नो कार्यकारिणः । विषयाणां ऋमित्वेन तज्ज्ञानेष्वपि च क्रमः॥ क्रमभावीश्वरज्ञानं ऋमिविज्ञेयसंगतः। देवदत्तादिविज्ञानं यथा ज्वालादिगोचरम्" ॥ तत्त्वसं. का. ७६-७७ पृ.५०। १२ तत्तु भां० मां० वि०। १३ पृ० ३८० ५० ५। १४ "विशुद्धज्ञानसंताना योगिनोऽपि ततो न तत् । विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य संगतेः" । तत्त्वसं० का० १५१ पृ०७४।

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516