________________
३८४
प्रथमे काण्डेन हि नीलादीनामवस्तुस्वरूपत्वादेकदेशत्वप्रसङ्गः, नापि संवेदनस्यामेदः अविद्याविरचितत्वात तद्भेदस्येति श्लोकद्वयाभिप्रायः।
[तस्य च दर्शनस्य पर्यायास्तिकमतेन प्रतिविधानम्] अत्र प्रतिविधीयते-प्रमाणाधीना हि प्रमेयव्यवस्था । न चैवंभूतब्रह्मसिद्धये प्रमाणमुपलभ्यते ५ किश्चित् । तथाहि-न तावत् प्रत्यक्षं तथावस्थितब्रह्मस्वरूपावेदकम् नीलादिव्यतिरेकेण तत्रापरस्य ब्रह्मस्वरूपस्याप्रतिभासनात् । अथ ज्ञानात्मरूपवत् स्वसंवेदनस्याध्यक्षत एव शब्दब्रह्म सिद्धम् ज्योतिस्तदेव शब्दात्मत्वाच्चैतन्यरूपत्वाच्चेति प्रतिपाद्यते, असदेतत्; स्वसंवेदनविरुद्धत्वात् । तथाहि-अन्यत्र गतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव नीलादिप्रत्ययमनुभवतीति विस्तरेण प्रतिपादितमेव सौगतैः नेह प्रदर्श्यते ग्रन्थगौरवभयात् । तेन “वाग्रूपता चेद् व्युत्क्रामेत्" इत्यादिना(त्यादि) १० तथा "न सोऽस्ति प्रत्ययो लोके” इति च प्रत्युक्तं द्रष्टव्यम् । तन्नाध्यक्षतो बाह्येन्द्रियजात् स्वसंवेदनाद्वा तथाभूतब्रह्मसिद्धिः । नाप्यनुमानतस्तत्सिद्धिः यतोऽनुमानं कार्यलिङ्गजम्, स्वभावहेतुप्रभवं वा तत्सिद्धये व्याप्रियेत? अनुपलँब्धेः प्रतिषेधविषयत्वेन विधावनधिकारित्वात् । तत्र न तावत् कार्यलिङ्गजं तत्र व्याप्रियते, नित्यस्य क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् ततः कार्यस्यैव कस्यचिदसम्भवात् । नापि स्वभावहेतुप्रभवस्य तस्य तत्र व्यापारः ब्रह्माख्यस्य धर्मिणोऽसिद्धत्वेन १५ तत्स्वभावभूतस्य धर्मस्य सुतरामसिद्धेः। न चैतद्व्यतिरिक्तमपरं विधिसाधकं लिङ्गमस्ति तस्य स्वसाध्यप्रतिबन्धाभावात् । न चाप्रतिबद्धं लिङ्गं युक्तम् अतिप्रसङ्गात् । शब्दरूपान्वयत्वं चासिद्धत्वात् न पारमार्थिकब्रह्मस्वरूपसाधनायालम् । नाप्यागमात् तत्सिद्धिः तस्यानवस्थितत्वात् । किञ्च,
"ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म चामृतम् ।
तदयोग्यतयाऽरूपं तद्वा वस्तुषु (?) लक्षणम् ॥” [ २० इत्येतत् प्रतिपादितमनेकधा न पुनरुच्यते । यदपि न्यगादि "तं तु परमं ब्रह्मात्मानमभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव पश्यन्ति' इति, तदप्यसङ्गतमेव; येतो यदि योगजे
१ "तत्रापि वेद्यते रूपमविद्योपप्लुतैर्जनैः । यन्नीलादिप्रकारेण त्यागादाने निबन्धनम्" ॥ तद्रूपव्यतिरेकेण ब्रह्मरूपमलक्षितम् । कथं व्युत्थितचेतोभिरस्तित्वेन प्रतीयते" ॥
तत्त्वसं. का. १४५-१४६ पृ. ७२ । २-ह्मरूपा-आ० हा० वि० । “न तत् प्रत्यक्षतः सिद्धमविभागमभासनात्"। तत्त्वसं० का० १४७ पृ. ७३। ३ "स्यादेतत् स्वसंवेदनप्रत्यक्षत एव तत् सिद्धम् ज्ञानात्मरूपत्वात् । तथाहि-ज्योतिस्तदेव शब्दात्मकत्वात् चैतन्यरूपत्वाच"-तत्त्वसं० पजि. पृ० ७३ पं० १०। ४ वीक्ष्यमा-आ.विना। ५ पृ. ३८० पं० १४ तथा ९।
६ "नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं च तत्र न" ॥ "धर्मिसत्त्वाप्रसिद्धस्तु न खभावः प्रसाधकः । न चैतदतिरेकेण लिङ्गं सत्ताप्रसाधकम्" ॥
तत्त्वसं. का. १४७-१४८ पृ. ७३ । ७-लब्धे प्र-आ० हा० वि०। ८-करणोऽप्य-आ०। ९-मृताम् । हा० वि० । १० "ज्ञानमात्रार्थकरणेऽप्ययोग्यं ब्रह्म गम्यताम् । तदयोग्यतया रूपं तङ्यवस्तुत्वलक्षणम्" ॥
तत्त्वसं० पजि. पृ. ७३ पं० २६ । ११ "ज्ञानं शेयक्रमात् सिद्धं क्रमवत् सर्वमन्यथा । यौगपद्येन तत् कार्य विज्ञानमनुषज्यते ॥ ज्ञानमात्रेऽपि नैवास्य शक(क्य?)रूपं ततः परम् । भवतीति प्रसकाऽस्य वन्ध्यासूनुसमानता" ॥
तत्त्वसं० का. १४९-१५० पृ०७३-७४ । "एतच्च पूर्वम् ईश्वरपरीक्षायां प्रसाधितम्"-तत्त्वसं० पजि. पृ० ७४ पं० ४ । तच्चैवम्
"क्रमाक्रमविरोधेन नित्या नो कार्यकारिणः । विषयाणां ऋमित्वेन तज्ज्ञानेष्वपि च क्रमः॥ क्रमभावीश्वरज्ञानं ऋमिविज्ञेयसंगतः। देवदत्तादिविज्ञानं यथा ज्वालादिगोचरम्" ॥
तत्त्वसं. का. ७६-७७ पृ.५०। १२ तत्तु भां० मां० वि०। १३ पृ० ३८० ५० ५। १४ "विशुद्धज्ञानसंताना योगिनोऽपि ततो न तत् । विदन्ति ब्रह्मणो रूपं ज्ञाने व्यापृत्य संगतेः" ।
तत्त्वसं० का० १५१ पृ०७४।