SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३८३ ब्रह्म विवृत्तम्' इत्येतन सिद्धिमासादयेत् नै यतोऽर्थान्तरोत्पादे तत्स्वभावमनासायतोऽन्यस्य तादूप्येण विवतॊ युक्तिसङ्गत इति सर्वथापि प्रतिज्ञार्थो न घटते । 'शब्दानुस्यूतत्वात्' इति हेतुश्चासिद्धः ने यतः परमार्थेनैकरूपानुगमो भावानां सम्भवति स्वस्वभावव्यवस्थिततया सजाती यावृत्तस्वरूपत्वात् तेषाम् विजातीयव्यावृत्तिकृतं त्वेकाकारानुस्यूतत्वं कल्पनाशिल्पिनिर्मितमेषाम् घट-शरावोदञ्चनादिषु परमार्थतो भिन्नेष्वपि अमृदात्मकपदार्थव्यावृत्तिकृतमृदूपानुस्यूतिवत् । न ५ च नीलादीनां कल्पनाविरचितमपि शब्दाकारानुस्यूतत्वमस्ति, नील-पीतादिषु प्रतिभासं बिभ्राणेषु शब्दानुस्यूतत्वस्य कल्पनयाप्यनुल्लेखात् तत् कथं नासिद्धो हेतुः? अथ अविभक्तमेव सदा ब्रह्मात्मकं तत्त्वम् न तस्य परमार्थतः परिणामः-येनैकदेशत्वं नीलादेरेकाकारं वा संवेदनं भवेदिति प्रेर्यते-तैच्च अविद्योपहतबुद्धयो नीलादिभेदेन विविक्तमिव (विचित्रमिव) मन्यन्ते । यदुक्तम् "यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः। सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥” [ "तदेवममृतं (तथेदममलं) ब्रह्म "निर्विकारमविद्यया। कलुषत्वमिवापन्नं "भेदरूपं विवर्त्तते ॥" [ __] इति । १-म निव-आ. हा. वि. विना। २ “न हि अर्थान्तरस्य उत्पादे अन्यस्य तत्वभावमनाविशतस्ताद्रूप्येण विवर्तो युक्तः”-तत्त्वसं० पञ्जि० पृ० ७१ पं० २६ । "न हि अर्थान्तरस्य उत्पादे अन्यस्य तत्खभावमनाश्रयतस्ताद्रूप्येण विवर्ती युक्तः”-प्रमेयक० पृ० १२ द्वि० पं० १० । ३-ब्दानुस्सूत-हा० वि०।-ब्दानुस्सत-आ०। ४-तुश्च सि-आ० हा. वि. विना। ५ "अतद्रूपपरावृत्तमृदूपत्वोपलब्धितः। कुम्भ-कोशादिभेदेषु मृदात्मैकोऽत्र कल्प(ल्प्य ते" ॥ "नील-पीतादिभावानां न त्वेवमुपलभ्यते । अशब्दात्मपरावृत्तिरवीजा कल्पनाऽपि तत्"। तत्त्वसं० का० १४२-१४३ पृ०७२। "न हि भावानां परमार्थेन एकरूपानुगमोऽस्ति"-तत्त्वसं. पजि. पृ० ७२ पं०७।। ६ “अथाविभागमेवेदं ब्रह्मतत्त्वं सदा स्थितम् । अविद्योपप्लवाल्लोको विचित्रं त्वभिमन्यते"॥ तत्त्वसं० का० १४४ पृ. ७२ । ७ तथाविद्योपह-हा० वि०। ८ विवृत्तमि-आ० हा० वि० । "विचित्रमिव"-तत्त्वसं० पजि. पृ. ७२ पं० १९ । "ननु परमार्थतोऽनादिनिधनेऽभिन्नखभावेऽपि शब्दब्रह्मणि अविद्यातिमिरोपहतो जनः प्रादुर्भाव-विनाशवत् कार्य मेदेन विचित्रमिव मन्यते"-प्रमेयक. पृ० १२ द्वि. पं० ११। “यथैव हि तिमिरतिरस्कृतलोचनो जनो विशुद्धमपि आकाशं विचित्ररेखानिकरकरम्बितमिव मन्यते”–स्याद्वादर० पृ. ४४ प्र० पं० १२ । ९ शास्त्रवा० समु० स्तब० ८ श्लो०२ पृ. २८६ द्वि०। बृहदा० उ० भाष्यवार्ति० ३,५पृ० १२४६ श्लो० ४३ । अष्टस० पृ० ९३ पं० २१ । प्रमेयक० पृ० १२ द्वि. पं० ११ । स्याद्वादर० पृ. ४४ प्र० पं० १५ । नयोप० वृ० पृ. ७६ प्र.पं. १२। “यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः" ॥ माण्डुक्योप० गौडपादका०३ पृ. ११३ श्लो०८॥ १० "तथेदममृतं ब्रह्म"-तत्त्वसं० पञ्जि. पृ० ७२६०२१। “तथेदममलं ब्रह्म"-शास्त्रवा० समु० स्तब०८ श्लो०३ पृ० २८७ द्वि० । बृहदा० उ० भाष्यवार्ति० ३, ५ पृ० १२४६ श्लो० ४४ । अष्टस० पृ. ९३ पं० २२। प्रमेयक० पृ. १२ द्वि० पं० १२। स्याद्वादर० पृ. ४४ प्र० ५० १६ । नयोप० वृ० पृ० ७६ प्र. पं० १३ । ११ “निर्विकल्पमविद्यया"-शास्त्रवा० समु० स्तब० ८ श्लो०३पृ० २८७ द्वि० । अष्टस० । नयोप० वृ० पृ० ७६ प्र. पं० १३ । “निर्विकल्पम् विजातीयभेदविकल्पविकलम्"-शास्त्रवा० स्याद्वादक० पृ० २८७ द्वि. पं. ४। १२ "भेदरूपं विवर्ततः"-तत्त्वसंपजि. पृ० ७२ पं० २२ । “भेदरूपं प्रकाशते"-शास्त्रवा०। बृहदा० उ० भाष्यवार्तिक । “भेदरूपं प्रपश्यति"-अष्टस। प्रमेयक पृ० १२ द्वि० ५० १२ । “कलुषत्वमिवापन्नभेदरूपं तु पश्यति"-स्याद्वादर० पृ०४४ प्र. पं० १६॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy