SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३८२ प्रथमे काण्डेसविकल्पकत्वाभ्युपगमात् सर्वसंविदाम् सविकल्पकत्वेन च सर्वात्मना शब्दस्य निश्चितत्वादगृहीतस्वभावान्तरानुपपत्तेः। _ "निश्चयैः। यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ? ॥"[ ५ इति प्रतिपादनात् । न चाविकल्पकस्यापि ज्ञानस्याभ्युपगमादयं न दोषः, 'न सोऽस्ति प्रत्ययो लोके' इत्यादेविरुद्धत्वप्रसक्तेः 'शब्दाकारानुस्यूतत्वात्' इति हेतोरसिद्धिप्रसक्तिश्च । न च यथा प्रमाणान्तरतः क्षणिकत्वप्रसिद्धेः 'अध्यक्षतोऽनुभूतमपि तन्न निश्चीयते' इति व्यपदिश्यते तथा शब्दात्मता भावानां व्यपदेशमासादयति, तत्प्रसाधकप्रमाणान्तरस्याप्रसिद्धेः। किन्तु शब्दात्मा घटादिरूपतया परिणमन् प्रतिपदार्थ भिद्यते न वेति वक्तव्यम् । यद्याद्यः पक्षस्तदा शब्दब्रह्मणोऽनेकत्वप्रसक्तिः १० विभिन्नानेकभावात्मकत्वात् तत्स्वरूपवत् एकं च परैर्ब्रह्मेष्यते इत्यभ्युपगमापनमः । अथ यदि द्वितीयः पक्षस्तदा एकदेश-कालाकाररूपतापत्तिर्जगतः इत्येकपः प्रतिभासो भवेत् नीलादेरेकब्रह्मरूपाव्यतिरेकात् । अपि च, नित्यशब्दमयत्वे जगतः शब्दस्वरूपवत् सर्वभावानां नित्यत्वप्रसक्तिरिति तेन सह सर्वदोपलब्धेः परिणामासिद्धिः कैशयति परिणामप्रतीतेः(तिम्)। तन्न परिणामकृतं शब्दमयत्वं भावानाम् । १५ नौपि हेतुकृतम्, शब्दस्य नित्यत्वेन अविकारित्वात् ततः कार्योदयासम्भवात् । नाप्यक्रमा च्छब्दब्रह्मणः क्रमवत्कार्योदयो युक्तः, कारणवैकल्याद्धि कार्याणि उदयं प्रति सविलम्बानि भवन्ति शब्दाख्यं चेत् कारणमविलम्बम् अपरस्यापेक्षणीयस्याभावात् किं न तानि युगपदुदयमनुभवेयुः? अपि च, एकस्वभावाच्छब्दब्रह्मणोऽन्यस्य भावान्तरस्योत्पत्तिर्यद्यङ्गीक्रियते तदा 'अर्थरूपेण तद १-खनान्तरा-आ०। २-श्चयैर्यत्न नि-हा० ।-श्चयैर्यत्र नि-वि० ।-श्वयर्यन्न नि-आ० । “यथोक्तम्"निश्चयः(यैः)। यन निश्चीयते रूपं तत् तेषां विषयः कथम्" इति"-तत्त्वसं. पजि. पृ. ७. पं०१२। ३ पृ. ३८०५०९। ४ "किश्च, क्षणिकत्तं भावानां प्रमाणान्तरतः सिद्धेरनुभूतमपि न निश्चीयते इति व्यपदिश्यते । शब्दात्मता तु भावानां कुतः सिद्धा येन साऽप्येवं व्यवस्थाप्यते"-तत्त्वसं० पजि. पृ० ७० पं० १६। ५ "किञ्च, असौ शब्दात्मा परिणाम गच्छन् प्रतिपदार्थभेदं प्रतिपद्यते न वा?"-प्रमेयक० पृ. १२ द्वि. पं०५। ६ "प्रतिव्यक्ति तु भेदेऽस्य ब्रह्मानेकं प्रसज्यते । विभिन्नानेकभावात्मरूपत्वाद् व्यक्तिमेदवत्"॥ तत्त्वसं. का. १३७ पृ. ७०। ७ परिव्राह्मे-आ० । “एकं च परमब्रह्मेष्यते"-तत्त्वसं० पञ्जि. पृ० ७१५० ३। ८-गमेः अगमा अत यदि आ०। ९-रूप प्रति-आ० । "प्रतिभावं च यद्येकः शब्दात्मा(s)भिन्न इष्यते । सर्वेषामेकदेशत्वमेकाकारा च विद भवेत्" । तत्त्वसं० का० १३६ पृ. ७०। १० "नित्यशब्दमयत्वे च भावानामपि नित्यता । तद्योगपद्यतः सिद्धेः परिणामो न संगतः" ॥ तत्त्वसं. का. १३८ पृ. ७१। ११-ब्दरूप-आ० हा० वि०। ११ कृतं शय-हा। "एकरूपतिरोभावे ह्यन्यरूपसमुद्भवे । मृदादाविव संसिध्येत् परिणामस्तु नाऽक्रम"। तत्त्वसं. का. १३९ पृ. ७१। १३ “अथापि कार्यरूपेण शब्दब्रह्ममयं जगत् । तथापि निर्विकारत्वात् ततो नैव क्रमोदयः" ॥ तत्त्वसं• का० १४० पृ०७१। १४-मविकलम् मां. बहिः । “तच्चेद् अविकलम् किमपरं तैरपेक्ष्यं येन युगपन्न भवेयुः”-प्रमेयक० पृ. १२ द्वि० ५० ५। १५ “अन्योन्यरूपसंभूतौ तस्मादेकखरूपतः। विवृत्तमर्थरूपेण कथं नाम तदुच्यते" ॥ तत्त्वसं० का० १४१ पृ. ७१। १६-णोऽन्यान्यस्य प्र० भा० बहिः । "यदि तस्मादेकखभावाच्छन्दात्मनोऽन्यान्यस्य खभावस्य उत्पत्तिरङ्गीक्रियते"-तत्त्वसं० पजि० पृ० ७१ पं० २५। "किश्च, अपरापरकार्यप्रामोऽतोऽर्थान्तरमनान्तरं वोत्पद्येत।"-प्रमेयक० पृ० १२ द्वि०५०९।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy