SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३८१ मयत्वं साध्यते, उत शब्दात् तस्योत्पत्तेः शब्दमयत्वं यथा 'अन्नमयाः प्राणाः' इति हेतौ 'मयट्'विधानात् ? न तावदाद्यः पक्षः परिणामानुपपत्तेः । तथाहि-शब्दात्मकं ब्रह्म रूपाद्यात्मकतां प्रतिपद्यमानं स्वरूपपरित्यागेन वा प्रपद्येत, अपरित्यागेन वा ? यदि परित्यागेन इति पक्ष आश्रीयते तदा 'अनादिनिधनम्' इत्यनेन यदविनाशित्वमभ्युपगतम् तस्य हानिप्रसक्तिः पौरस्त्यस्वभावध्वंसात् । अथ अपरित्यागेन इति पक्षस्तदा रूपसंवेदनसमये बधिरस्य शब्दसंवेदनप्रसङ्गः तव्यतिरेकात् नीला-५ दिवत् । तथाहि-यत् यव्यतिरिक्तं तत् तत्संवेदने संवेद्यते, यथा तत्स्वरूपम् , रूपाद्यव्यतिरिक्तश्च शब्दात्मेति स्वभावहेतुः । अन्यथा भिन्नयोगक्षेमत्वात् तत् तदात्मकमेव न स्यादिति विपर्यये बाधकं प्रमाणम् । अथ तत्समये न तत्संवेदनमिष्यते तदा रूपादेरप्यसंवेदनप्रसङ्गः एकस्वभावत्वात् । भिन्नधर्मत्वे वा शब्द-रूपादेरत्यन्तभेद एव । नोकप्रमा(मात्र)पेक्षयैकस्यैव ग्रहणमग्रहणं वा एकत्वहानिप्रसङ्गात् । यदि पुनर्विरुद्धधर्माध्यासेऽप्यभेदः घट-पटादिव्यक्तीनामपि कल्पितभेदानाम १० भेदप्रसक्तिः। परेणाभ्युपगतश्च घटादिव्यक्तीनां भेदः यतः स्वात्मनि व्यवस्थितस्य ब्रह्मणो नास्ति भेदः अविकारविषयत्वादस्य इति परसिद्धान्तः । नहि घटाद्यात्मना तस्यानादिनिधनत्वम् किन्तु परमात्मापेक्षया । घटादयश्च परिदृश्यमानोदय व्ययाः परिच्छिन्नदेशायश्चोपलभ्यन्त एव । अयं चोपलब्धिलक्षणप्राप्तत्वे ब्रह्मणो दोष उक्तः। अतिसूक्ष्मतयाऽतीन्द्रियत्वे तु तस्य तत्स्वरूपवन्नीलादीनामप्यग्रहणप्रसक्तिर्दोषः । तेन 'उदयव्ययवतीमेवार्थमात्रामपरदर्शनाः प्रतियन्ति' इत्ययुक्तमेवाभि-१५ धानम् । न च यथा नीलत्वाव्यतिरिक्तमपि क्षणिकत्वं तत्संवेदने न संवेद्यते तद्वच्छब्दरूपमपीति वक्तव्यम् यतो नॉस्मन्मते नीलसंवेदने क्षणिकत्वं न संवेद्यते किन्तु भ्रान्तिकारणवशानिर्विकल्पकेन गृहीतमपि नि(न नि)श्चीयत इत्यनुभवापेक्षया तद्हणे तदपि गृहीतमेव निश्चयापेक्षया त्वगृहीतमिति शानभेदाद् गृहीतत्वमगृहीतत्वं चैकस्याविरुद्धमेव । न चैवं शब्दब्रह्मणो भवन्मतेन ग्रॅहणाऽग्रहणे, १ "मयद च"-अ०४।३।८। सिद्धान्तकौ० अं० १४६२ । “नृ-हेतुभ्यो रूप्य-मयटौ"-अ० ६।३।१५६। हैमः । २ "इति संचक्षते येऽपि ते वाच्याः किमिदं निजम् । शब्दरूपं परित्यज्य नीलादित्वं प्रपद्यते"॥ तत्त्वसं० का० १२९ पृ. ६८। ३ "न वा तथेति यद्याद्यः पक्षः संश्रीयते तदा। अक्षरत्ववियोगः स्यात् पौरस्त्यात्मविनाशतः"॥ तत्त्वसं० का० १३० पृ०६८। ४ “अथाप्यनन्तरः पक्षस्तत्र नीलादिवेदने । अश्रुतेरपि विस्पष्टं भवेच्छब्दात्मवेदनम्"॥ "येन शब्दमयं सर्व मुख्यवृत्त्या व्यवस्थितम् । शब्दरूपापरित्यागे परिणामानि(भि)धानतः" ॥ "अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते । तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम्"॥ तत्त्वसं० का० १३१-१३२-१३३ पृ० ६८-६९ । ५ "शब्दः सैवेदन प्राप्नोति नीलादिसंवेदनवत् तदव्यतिरेकात्"-तत्त्वसं० पजि. पृ०६८ पं० २७। ६-कादनीला-आ०। ७ तत्सं-आ० हा० वि०। ८ तथात्म-आ०।। ९ “अस्याऽवित्तौ हि नीलादेरपि न स्यात् प्रवेदनम् । ऐकात्म्याद भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते" ॥ तत्त्वसं० का० १३४ पृ० ६९। १०-कत्वभा-आ०। ११ "विरुद्धधर्मसंगो हि बहूना भेदलक्षणम् । नान्यथा व्यक्तिमेदानां कल्पितोऽपि भवेदसौ" ॥ तत्त्वसं० का० १३५ पृ०६९। "न हि एकस्य एकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम्"-तत्त्वसं० पजि. पृ०६९पं० २३ । प्रमेयक. पृ० १२ द्वि. पं० ४ । “न हि एकस्य एकदा एकप्रमात्रपेक्षया प्रहणमग्रणं च युक्तम् विरोधात्"-स्याद्वादर० पृ० ४९ प्र. पं० ४। १२-ध्यासोप्य-आ० हा० वि०। १३ “यतस्तस्य खात्मनि व्यवस्थितस्य नास्ति भेदः चिकारविषयत्वादस्येति सिद्धान्तः"-तत्त्वसं० पजि. पृ०६९ पं० २५। १४ “अयं च अश्रुतेः स्पष्ट शब्दसंवेदनं स्यात् इति यः प्रसङ्गः उक्तः स यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिष्यते तदा द्रष्टव्यः। यदि पुनः अतिसूक्ष्ममतीन्द्रियमिति वर्ण्यते तदा अयमदोषः किन्तु नीलादीनामपि तादूप्यात् तत्स्वरूपवत् अग्रहणप्रसङ्ग इत्ययं दोषो वाच्यः"-तत्त्वसं० पजि. पृ० ६९ पं० २८-पृ० ७० पं० ४। १५ "नीलादिसंवेदनेऽपि न संवेद्यते"-तत्त्वसं० पजि. पृ. ७० पं०६। १६ नामास्मन्मते भां. हावि. नास्मन्मते प्र. भां० बहिः। नामात्मते आ०। १७ “किन्तु गृहीतमपि निर्विकल्पेन चेतसा भ्रान्तिनिमित्तेन गुणान्तरसमारोपान विनिश्चीयते इत्युच्यते"-तत्त्वसं० पजि.पृ. ७० पं० ८। १८ "प्रहणाग्रहणे युक्ते"-तत्त्वस० पजि. पृ. ७० पं० १०। ४९ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy