SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३८० प्रथमे काण्डे मिधेयो विवर्त्तः। 'प्रक्रिया' इति भेदानामेव संकीर्तनम् । 'ब्रह्म' इति पूर्वापरादिदिग्विभागरहितम् अनुत्पन्नम् अविनाशि यच्छब्दमयं ब्रह्म तश्चायं (तस्यायं) रूपादिभावग्रामपरिणाम इति श्लोकार्थः। एतच्च शब्दस्वभावात्मकं ब्रह्म प्रणवस्वरूपम् स च सर्वेषां शब्दानाम् समस्तार्थानां च प्रकृतिः। अयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् । तच्च परमं ब्रह्म ५अभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणैरवगम्यते । अत्र च प्रयोगः-ये यदाकारानुस्यूतास्ते तन्मयाः, यथा घट-शरावोदश्चनादयो मृद्विकारानुगता मृण्मयत्वेन प्रसिद्धाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति स्वभावहेतुः। प्रत्यक्षत एव सर्वभावानां शब्दाकारानुगमोऽनुभूयते । तथाहिअर्थेऽनुभूयमाने शब्दोल्लेखानुगंता एव सर्वे प्रत्यया विभाव्यन्ते । उक्तं च "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते"॥ [वाक्यप० श्लो० १२४ प्रथमका०] इति । ने च वाग्रूपताऽननुवेधे बोधस्य प्रकाशरूपतापि भवेत् तस्यापरामर्शरूपत्वात् तेंदभावे तु तस्याभावात् बोधस्याप्यभावः, परामर्शाभावे च प्रवृत्ता(त्या)दिव्यवहारोऽपि विशीर्येत इति । आह च "वाग्रूपता चेद् व्युत्नामेदवबोधस्य शाश्वती। ने प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शनी ॥" 1 [वाक्यप० श्लो० १२५ प्रथमका०] इति । शानाकारनिवन्धना च वस्तूनां प्रज्ञप्तिरिति नैषां शब्दाकारानुस्यूतत्वमसिद्धम् , तत्सिद्धेश्च तन्मात्रभावित्वात् तन्मयत्वस्य तन्मयत्वमपि सिद्धमेव। अत एव 'अयं घटः' इत्यभेदेन शब्दार्थसम्बन्धो वैयाकरणैः-'सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतम्' इत्यादिना अभिजल्पस्वरूपं दर्श२० यद्भिः प्रतिपादितः। अत्र च पर्यायास्तिकमतेन प्रतिज्ञादिदोष उद्भाव्यते-किमत्र जगतः शब्दपरिणामरूपत्वाच्छब्द १“'प्रक्रिया' इति मेदाः । 'ब्रह्म' इति नामसंकीर्तनम्-तत्त्वसं० पजि. पृ० ६७ पं० २४ । "प्रक्रिया' इति भेदाः । 'शब्दब्रह्म' इति नामसंकीर्तनम्"-प्रमेयक० पृ० ११ द्वि. पं. ७ । स्याद्वादर० पृ. ४४ प्र. पं० ५। ___“'प्रक्रिया' इति भेदानामेव संकीर्तनम् । 'ब्रह्म' इति विशुद्धखनामकीर्तनम्"-शास्त्रवा० स्याद्वादक. पृ. २३५ द्वि० पं० १३ । 'प्रक्रिया' प्रतिनियता व्यवस्था, भेदानां संकीर्तनमेतत्"-नयोप० वृ० पृ. ७५ द्वि. पं०८। २ पूर्वापरादिविभागरहितम् अनुत्पन्नम् अविनाशि यत् शब्दमयं ब्रह्म"-तत्त्वसं० पञ्जि. पृ० ६७ पं० २०। ३ "तस्यायं रूपादिर्भावग्रामः परिणाम इति प्रतीयते"-तत्त्वसं० पजि. पृ० ६७ पं० २०-२१। ४ "प्रणवो हि किल सर्वेषां शब्दानाम् सर्वेषां च अर्थानाम् प्रकृतिः स च वेदः । अयं तु वर्ण-पदक्रमेण अवस्थितो वेदः"-तत्त्वसं. पजि. पृ० ६८ पं० २। ५-तास्तेन त-मां । स्याद्वादर० पृ० ४८ द्वि. पं० १३-पृ० ४९ द्वि. पं. ३। ६ “यथा घट-शरावोदश्चनादयो मृद्विकाराः मृदाकारानुगताः पदार्था मृण्मयत्वेन प्रसिद्धाः”-तत्त्वसं० पजि. पृ० ६८ पं०६। ७-क्ष एव आ०। ८-गत एव आ. हा० वि०। ९ "अनुविद्धमिवाऽऽभाति सर्व शब्दे प्रतिष्ठितम्"-प्रमेयक० पृ. ११ द्वि. पं० ५। १० सर्व श-आ. हा०वि० । “सर्व शब्देन वर्तते"-तत्त्वसं० पजि. पृ. ६८५० १० । स्याद्वादर पृ० ४३ द्वि. पं० १। शास्त्रवा० स्याद्वादक. पृ. २३६ प्र. पं० २। “सर्व शब्देन जायते"अनेकान्तज. पृ० ४१ द्वि. पं० १४ । ११ "शब्दसंपर्कपरित्यागे हि प्रत्ययानां प्रकाशरूपताया एवाभावप्रसक्तिः वागू. पता हि शाश्वती प्रत्यवमर्शिनी च तदभावे प्रत्ययानां नापरं रूपमवशिष्यते"-स्याद्वादर० पृ. ४३ प्र. पं० १६ । १२ तदा भा-आ०। १३ अनेकान्तज. पृ० ४१ द्वि. पं० १३। नयोप० वृ० पृ. ७५ द्वि. पं. १३ । “न हि बोधः प्रकाशेत"-स्याद्वादर० पृ. ४३ द्वि. पं० २। १४ पृ० १८० पं० २१ तथा टिप्प० ११।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy