SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ षष्ठगाथाव्याख्या। [नयवनिक्षेपाणामपि यथास्वं द्रव्यार्थिक-पर्यायार्थिकरूपतया विभजनम्] नयानुयोगद्वारवत् शेषानुयोगद्वारेष्वपि द्रव्यार्थिक-पर्यायार्थिको मूलव्याकरणिनाविति दर्शयन्त्य(यन्न)नयोर्व्यापकताम् नाम ठवणा दविए त्ति एस वढियस्स निक्खेवो । भावो उ पजवट्ठिअस्स परूवणा एस परमत्थो ॥ ६ ॥ इत्यनया गाथया-दर्शयत्याचार्यः। __ अथवा वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्य अधुना अध्यारोपिताऽनध्यारोपितनाम-स्थापना-द्रव्य-भाव निबन्धनव्यवहारनिवन्धनतामनयोरेव प्रतिपादयन्नाहाचार्यः-नाम ठवणा इत्यादि। अस्याश्च समुदायार्थः-नाम स्थापना द्रव्यम् इति एष द्रव्यार्थिकस्य निक्षेपः। भावस्तु पर्यायार्थिकनिरूपणाया निक्षेप इति एष परमार्थः । [१ नामनिक्षेपः] [नाम व्याख्याय तत्र संकेतविधि-तद्विषययोः प्ररूपणम्] तत्र यस्य कस्यचिद् वस्तुनो व्यवहारार्थमभिधानं निमित्तसव्यपेक्षम् अनपेक्षं वा यत् सङ्केत्यते १५ तन्नाम । सङ्केतकरणात्(णं तु) क्वचिद् अभेदेन यथा 'अयं घटः' इति, क्वचिद् मेदेन यथा 'अस्य चायं घटशब्दो वाचकः' इति भेदेन । एतच्च समानासमानाकारपरिणत्यात्मकेऽपि वस्तुनि समा. नाकारप्रतिपादनायैव नियोज्यते तस्यानुगतत्वेन तत्र सङ्केतकरणसौकर्यात् । असमानपरिणतेष्वननुगमात् आनन्त्याच्च न तत्र सङ्केतः कर्तुं शक्यः । शब्दव्यापाराच वस्तुगतसदृशपरिणतेरेव प्रतिभासता(सनात्) स एव शब्दार्थः यः शाब्द्यां प्रतीतौ प्रतिभातीति" नाऽसदृशपरिणामोऽत्यन्त-२० विलक्षणस्तस्यार्थ इति वस्तुस्थितिः। [भर्तृहरेर्द्रव्यार्थिकानुसारिणः शब्दब्रह्मदर्शनस्य पूर्वपक्षतया वर्णनम्] अत्र च द्रव्यार्थिकमतावलम्बी शब्दब्रह्मवाद्याह भर्तृहरिः "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः" ॥ [वाक्यप० श्लो० १ प्रथमका०] इति। अत्र आदिः उत्पादः, निधनं विनाशः तदभावाद् 'अनादिनिधनम्' । अक्षरम्' इति अकाराद्यक्षरस्य निमित्तत्वात् अनेन च विवर्तोऽभिधानरूपतया निदर्शितः। 'अर्थभावेन' इत्यादिना त्व १ पज्जवट्रिअपरूवणा शास्त्रवा० स्याद्वादक० पृ. २४२ प्र०पं०३। २ शास्त्रवा० स्याद्वादक० पृ. २४२५० पं०४। ३-त्तस्यव्य-आ० हा० वि० विना। ४-नपेक्ष या यत् आ० । ५-रणत्वात् आ० विना । ६-नाकार-आ. हा०वि०। ७-नित्यास-आ०। ८-णतेध्वननु-भां० ।-णते ननु-आ० । ९ शाब्दांप्र-हा। शाब्द प्र-वि०। १०-ति ताह-आ. हा० वि०। ११ अत्रोच्यमानः शब्दब्रह्मवादिपक्षः संपूर्णोऽपि शब्दशोऽविकलतया तत्त्वसंग्रहपत्रिकायां दृश्यते-पृ० ६७ का० १२८-पृ० ७५ का० १५२ । तथाहि"नाशोत्पादासमालीढं ब्रह्म शब्दमयं परम् । यत् तस्य परिणामोऽयं भावग्रामः प्रतीयते" ॥ -तत्त्वसं. का. १२८ पृ०६७ । १२ तत्त्वसं० पजि. पृ. ६७ पं० २१। द्वादशारनय० लि. प्रे० को. पृ. ३३८ पं० ३ । प्रमेयक० पृ० ११ द्वि. पं०६ । स्याद्वादर० पृ. ४४ प्र. पं०३ । शास्त्रवा० स्याद्वादक. पृ. २३५ द्वि. पं० १०। नयोप० वृ० पृ. ७५ द्वि. पं०३। १३-माशः तस्य तद-आ. हा. वि. विना। १४-न वि-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy