SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेअभिसमयसंवृतियोगिप्रतिपत्तिस्तृतीया । योगिप्रतीतेरपि ग्राह्यग्राहकाकारतायाः प्रवृत्तेः। उक्तं च भगवद्भिः-"कतमत् संवृतिसत्वं यावल्लोकव्यवहारः" [ ] । इति व्यवस्थितं सर्वधर्मविरहः शून्यतेति शुद्धतरपर्यायास्तिकमतावलम्वी ऋजुसूत्र एवं व्यवस्थितः। [ऋजुसूत्र-शब्द-समभिरूढ-एवंभूतेषु सौत्रान्तिक-वैभाषिक-योगाचार ___ माध्यमिकानां समवतारः] अथवा सौत्रान्तिक-वैभाषिको बाह्यार्थमाश्रितौ ऋजुसूत्र-शब्दौ यथाक्रमम् वैभाषिकेण नित्या. नित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमात् शब्दनयेऽनुप्रवेशस्तस्य । बाह्यार्थप्रतिक्षेपेण विज्ञानमात्रं समभिरूढो योगाचारः । एकानेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इति एवम्भूतो व्यवस्थित एवम्भूतो माध्यमिक इति व्यवस्थितमेतत् तस्य तु शब्दादयः शाखाप्रशाखाः सूक्ष्ममेदा १० इति ॥५॥ मायामरीचि-प्रतिबिम्बादिषु प्रतीत्य समुपजातमपि दोषवदिन्द्रियोपलब्धं यथाखं तीर्थिकसिद्धान्तपरिकल्पितं च लोकत एव मिथ्या। तदुक्तम् "विनोपघातेन यदिन्द्रियाणां षण्णामपि ग्राह्यमवैति लोकः । सत्यं हि तल्लोकत एव शेषं विकल्पितं लोकत एव मिथ्या" ॥-बोधिचर्या० प्रज्ञापार० पजि० परि० ९ पृ. ३५२ पं०३-पृ० ३५३ पं० ७-१६ । "एवं संवृति-परमार्थभेदेन द्विविधं सत्यं व्यवस्थाप्य तदधिकृतश्च लोकोऽपि द्विविध एवेति उपदर्शयन्नाह तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा। तत्र प्राकृतको लोको योगिलोकेन बाध्यते ॥ ३ ॥ लोको जनः xxxxx द्विधा ४ योगी प्राकृतकस्तथा । योगः समाधिः सर्वधर्मानुपलम्भलक्षणः सोऽस्यास्तीति योगी लोकः इत्येकः प्रकारो राशिः । तथा प्रकृतिः संसारप्रवृत्तेः कारणमविद्या तृष्णा तस्या जात इति प्राकृतः प्राकृत एव प्राकृतको लोक इति द्वितीयः”।-बोधिचर्याव० प्रज्ञापार० पञ्जि. परि०९पृ. ३६७ पं०१६-पृ. ३६८५०१० पर्यन्तम् । "न दोषो योगिसंवृत्या लोकात् ते तत्त्वदर्शिनः" ।-बोधिचर्याव. पृ. ३७७ ॥ "द्वे सत्ये । तद्यथासंवृतिसत्यं परमार्थसत्यं चेति"-धर्मसं० पृ. २२५० १२॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः"॥८॥ -मध्यमकवृ० आर्यसत्यप० प्र. २४ पृ० ४९२ । बोधिचर्याव. प्रज्ञापार पजि. परि० ९ पृ. ३६१ पं० १३ । "पितापुत्रममागमे चोक्तम् सत्य इमे दुवि लोकविदूनां दिष्ट स्वयं अश्रुणिल परेषाम् । संवृति या च तथा परमार्थो सत्यु न सिध्यति किंच तृतीयु" ।-बोधिचर्याव. प्रज्ञापार० पञ्जि. परि. ९पृ. ३६१५० १७। शास्त्रवा० स्याद्वादक० पृ. २१५प्र. पं०१०। १-रतयाऽप्र-भा०।-रतयाप्र-मा०। २०३१७६.८॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy