SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। भगवद्भिरप्युक्तम्-"मायोपमाः सर्वे धर्माः" [ ] इति । तदवस्थितमेतत् यत् प्रतिभाति तद् द्विचन्द्रादिवत् सकलमसत्यम् । ____ न चात्रैतत् प्रेरणीयम् दृष्टान्त दार्शन्तिकभेदाभावे द्विचन्द्रादिनिदर्शनेन नीलाद्यवभासस्यासत्यता न साधयितुं शक्या। न ह्यसतो निदर्शनसङ्गतिः। भेदे वा नासत्यता भवेद् भावानाम् पक्ष-दृष्टान्तयोहि भेदः सत्यत्वे सति भवति असतः शशविषाणादेरिव भेदानुपपत्तेः । तथा५ साधनस्याप्यस्तित्वे न शून्यता, नास्तित्वे न साध्यप्रतिपत्तिः। एवं वादि-प्रतिवादि-प्राश्निकानामभावे न वादः सम्भवी । तत्सद्भावे च न शून्यता । आह च भट्टः "सर्वदा सदुपायानां वादमार्गः प्रवर्तते ॥" "अधिकारोऽनुपायत्वात् न वादे शून्यवादिनः।" [श्लो० वा० निरालम्ब० श्लो० १२८-१२९] इति ।१० यतो यदि पारमार्थिकदृष्टान्त-दार्शन्तिकादिभेदाद् वादमार्गप्रवृत्तिः परस्याप्यसौ कथं भवेत् ? नहि परमार्थतो भावभेदः प्रत्यक्षतोऽधिगन्तुं शक्यस्तदभावात् । नानुमानादपीति प्रतिपादितम् । न च परस्याभ्युपगमात् साधनादिभेदसिद्धेस्तत्प्रवृत्तिः अप्रमाणकाभ्युपगममात्रादासिद्धेः कल्पितात् तु साधनादिप्रविभागाद् बाह्यार्थव्यवस्थायां भेदप्रपञ्चस्य कल्पनारचितत्वं भवेत् न वास्तवत्वम् । न च लोकप्रसिद्धेन साधनादिभेदेन बाह्यार्थव्यवस्था अर्थवादिनो युक्तिमती, शून्य-१५ वादिनोऽपि तत्प्रसिद्धेनैव तेन शून्यताव्यवस्थाया न्यायप्राप्तत्वात् । तथाहि-तस्यापि साधनादि. भेदव्यवहारो लोकप्रसिद्धः प्रागासीत् तेन यदि शून्यता व्यवस्थाप्यते न तेन कश्चिद दोषः। शून्यताव्यवस्थितेरुत्तरकालं यदि साधनादिभेदो विशरति तदा न कश्चिद् दोषः “गतोदके कः खल सेतुबन्धः” [ ] इति न्यायात् । उक्तं चाचार्येण-"सर्व एवायमनुमानानुमेय. व्यवहारः सांवृतः" [ ] इत्यादि । ततः सांवृता अनुमानगम्या शून्यता। २० यद्वा नीलादीनां प्रतिभासमानानां यत् कल्पितमेकत्वादिरूपं तस्याऽप्रतिभासादेव निषेधः । नहि व्यवहारवलादप्रतिभासमानमेकत्वादिकं रूपं कल्पयितुं युक्तम् प्रतिभासव्यतिरेकेण व्यवहारस्याप्ययोगात् । ततो बाह्यमाध्यात्मिकं वा रूपं न तत्वम् किन्तु सांवृतमेव । संवृतिश्च त्रिधा सुगतसुतप्रसिद्धा-लोकसंवृतिर्मरीचिकादिषु जलभ्रान्तिरेका, तत्त्वसंवृतिः सत्यनीलादिप्रतीतिर्द्वितीया, १ पृ० ३७१ पं० १२ । “यत्तु उक्तं भगवता-मायोपमा धर्मा यावत् निर्माणोपमा इति"-महायानसूत्रालंकारे पृ० ६२ पं० १०। "एतदुक्तं भगवता-अनुत्पन्नाः सर्वभावा मायोपमाश्च इति"-लकावतारसू० द्वितीयभा० पृ. १११ पं० ७॥ २ "अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम् । प्रमाणं विद्यते किश्चित् आहोखिच्छून्यमेव हि ॥ ५७ ॥ शून्यं चेत् सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् ? । तस्यैव ननु सद्भावादिति सम्यग् विचिन्त्यताम् ॥ ५८॥ प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् ॥५९ ॥ उक्तं विहाय मानं चेच्छून्यताऽन्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः॥६॥ तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः । प्रभूताशून्यतापत्तिरनिष्टा संप्रसज्यते" ॥६१॥ -शास्त्रवा० समु० षष्ठस्त० पृ. २१५-२१६ । ३ सम्भवतीति । प्र. मां० बहिः। ४-कारानु-आ० । शास्त्रवा० स्याद्वादक. पृ. २१६ प्र० पं० ११-१२ । ५-नादिभेदे व्य-आ. हा० वि०। ६ शास्त्रवा० स्याद्वादक० पृ० २१६ द्वि० पं० ९ । ७-द्वा सर्वनी-मां । ८ यदत्र 'लोकसंवृति'-'तत्त्वसंवृति'-'अभिसमयसंवृति'इति संवृतित्रयं निर्दिष्टम् तदेव बोधिचर्यावतारे तत्पत्रिकायाँ च 'मिथ्यासंवृति'-'तथ्यसंवृति'-'योगिसंवृति' इति संज्ञया निरदेशि । तथाहि “संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् । बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते" ॥२॥ "संवियते आवियते यथाभूतपरिज्ञानं खभावावरणात् आवृतप्रकाशनाच्च अनयेति संवृतिः अविद्या मोहो विपर्यास इति पर्यायाःxxx सा च संवृतिर्द्विविधा लोकत एव तथ्यसंवृतिः मिथ्यासंवृतिश्चेति । तथाहि किश्चित् प्रतीत्य जातं नीलादिकं वस्तुरूपमदोषवदिन्द्रियैरुपलब्धं लोकत एव सत्यम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy