Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 418
________________ नयमीमांसा । रूपद्वय निर्भासेऽध्यारोपः कल्प्यते, उतैकरूपनिर्भासे ? यदि प्रथमः पक्षः तदा द्वयं शुक्तिका रजतैस्वरूपं चात्मस्वरूपेणापेक्षया सर्वे ( वै) व ख्यातिः । अथैकं रूपं तत्र चकास्ति तत्रापि यदि रजतमेकं स्वरूपेण भाति कथमयारोपोऽन्याकारपरिहारेण तस्यैवैकस्य प्रतिशा (तिभा) सनात् । अथ शुक्तिका स्वरूपेण प्रतिभाति तत्रापि न विपरीतख्यातिः अन्यरूपविविक्तायास्तस्या एव परिच्छेदादन्यस्यान्याकारेण प्रतिभासना ( भासन ) मन्तरेण ना रजतदृग्ग्राह्यो परिमलादेरपि रूपदृग्ग्राह्यताप्रसक्तेः ॥ ५ किञ्च, यद्यपरे (रो) क्षतया 'रजतम्' रजतसंविदवभासयति कथमस्या विपरीतख्यातित्वम् ? 'न चान्यदेव देशादिमद् रजतमन्यदेशादितयाऽवभासयतीति विपरीतख्यातिः यतो देशान्तरादिमत्ता रजतादेः किं तेनैव दर्शनेन गृह्यते, आहोस्वित् पूर्वदर्शनेन ? तत्र न तावत् तेनैव तत्र वर्त्तमानदेशादिमत्तया रजतादेरवभासनात् तद्धि तद्देशादिमत्तयैव तावद् गृह्णाति न पूर्वादिमत्तया । अथ पूर्वकालदिमत्त्वं रजतादेरवभासयति, ननु तदपि तद्देशादिमत्त्वमेव तस्याव १० भासयति तदानीन्तनदेशादिमत्त्वं तदनवभासने च कथं भ्रान्तदर्शनावसेयस्य रजतादेस्तेन पूर्व देशादिमत्तावगते स्तंत्रान्यदेशादिनादिमानर्थोऽन्यदेशादितया वितथदर्शने प्रतिभातीति वक्तव्यम्, न च वाधकप्रमाणं भ्रान्तद्यगवगतरजतादेरन्यत्र देशादितामावेदयति यतो बाधकप्रतीतिरपि रजतादिकमलीकतया आवेदयति नत्वन्यदेशादितया नहि सौ 'अन्यदेशादी (दि) रजतम्' इत्यवगच्छति किन्तु 'नेदं रजतम्' इति । यदि च भ्रान्तदृशि प्रतिभासमानो रजतादिस्तद्देशादौ नास्ति तर्हि ज्ञा १५ नस्यैवाभावाकारो नार्थस्येति कथं न ज्ञानस्य निरालम्बनता ? निरालम्बनत्वं ह्यार्थसन्निधिनिरपेक्षस्य ज्ञानस्य जन्म तच्चोपरतप्रमेयाणामर्थसन्निधिनिरपेक्षत्वात् स्वप्नादिप्रत्यया ( याना ) मस्तीति न दृष्टान्तासिद्धिः। यदि च स्वप्नादिदर्शनं विशदावभास्यप्यन्यदेशाद्यर्थविषयं परिशुद्धदर्शनमपि यथा प्रतिभासनं पूर्वनां वनं किं नाभ्युपेयेते अथ परित्यागो भवेत् । अथ बाधकेऽपरबो (बा) धकान्तराभावात् तस्य वर्त्तमानावभासकत्वं नै तु बाधकाभावप्रत्ययेऽभावप्रत्ययावतारात् पूर्वदृशार्थग्राहिता नेंनु २० बाधकै वित्तेरपि पूर्वपरिज्ञातयँजता (तरजता) द्यभाववेदित्वं भवेत् नहि कश्चिद् विशेषो वर्त्तमानानुभवं प्रति बाधक -दर्शनयोः यतो रजतदर्शनमतीतविषयग्राहि बाधकं तु वर्त्तमानार्थस्वरूपावेदकमिति विभागो भवेत्। अथ बाधके अपरवाधकान्तराभावात् तस्य वर्त्तमानावभासँकत्वम् न तु बाधकावभासप्रत्ययेऽभावप्रतीतिः पूर्वमभावप्रतीति किं नोपेयते । नैं चापरबाधकाभावात् तत्रापि वर्त्तमानार्थग्राहित्वमिति वक्तव्यम्, तत्रापि तत्पर्यनुयोगादनवस्थाप्रसक्तेः । न च सत्यर्दने ( त्यदर्शने) २५ संवादेयात् (वादात्) सांप्रतिकार्थग्राहित्वम् भ्रान्तज्ञाने तु विपर्ययात् पूर्वदृष्टावभासितसंवादस्यैवायोगात् । तथाहि - किमुत्तरज्ञानोदयः संवादः, उतार्थक्रियाप्रसृ ( सू ) तिः ? ययुत्तरज्ञानोदयः स किमेकविषयः, भिन्नविषयो वा ? यद्येकविषयस्तदा तैमिरिकस्य "केश दु ( केशोण्डु) का दिविषयो ज्ञाना ३६१ । ११ ताद् गृ | १ कल्पते हा० विना० । २-धम पवा० बा० विना ३-तस्वरूपं वात्मरूपेणपेक्षया स - वा० बा० ।-तस्वरूपं चात्मरूपेणापेक्षायां स - हा० ।-तस्वरूपेणांपेक्षया सभां० म० । ४ सवैव आ० हा० वि० । ५ ख्याति थैकं वा० बा० । ६- ध्यारोपान्याकारकप - आ० । ७- स्तस्य ए-वा० बा० । ८-सानन्तरेण रजतदृग्ग्राह्या प-वा० बा० ९ परीतत्वम् आ० | १० न वा वा० वा० विना । वा० बा० | १२ - लादिसद्रजता - आ० १३- ति नतु त भां०] हा० । १४ पूर्वादेशादिमत्तावगतेस्तत्रान्यदेशादितया मां० । १५- स्तन्नान्य- वा० वा० । १६ सामान्य वा० बा० विना । १७ सने र वा० बा० विना । १८- भासस्याप्य - वा० । १९ - शान्यर्थ - हा० वि० । - शादिन्यर्थ - भां० म० । बा० विना २०- मान पू-भां० । २१ यते ऽप परि-भां० ।-यते ऽथ परिभागो वा० वा० । २२ - वात् तस्या व हा० वि० । २३ न नु बा - वा० वा० मां० विना । २४ नतु वा - वि० । २५ - कचित्ते वा० वा० । २६-यज्ञता-वा० बा० विना । २७- सत्वम् वा० वा० ॥ २८ न नु वा वा० वा० मां० । २९ - भावप्रतीतितयतीति किं वा० वा० । भाव अप्रतीति नयतीति किं हा० । भाव अप्रतीति किं वि० । ३० न वा हा० वि० । ३१ केशादुदका - वा० बा० विना । “यथा चिरकालीनाध्ययनादिखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डूकाख्यः कश्चिन्नयनाग्रे परिस्फुटति अथवा करसंमृदितलोचनरश्मिषु येयं केश पिण्डावस्था स केशोण्डूकः” १, १, ५ शास्त्रदीपिका • युक्ति स्नेहप्रपूरणीसिद्धान्त० पृ० ९९ पं० २७ ।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516