Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 14
________________ दलोपीसमास आश्रीयते, तत्र च न प्राधान्याप्राधान्ये विवक्षिते इति न विरोधः । निष्कपटमिति क्रियाविशेषणम् । सैव सर्वदा साक्षितया हृदये परिस्फुरतीति ध्वन्यते । कया ? निरञ्जनधिया, अञ्जनं रजस्तमोभ्यां संवलनं, तस्मानिर्गतधियेत्यर्थः । एवं च रागद्वेषविनिर्मुक्तशुद्धसत्त्वधिया सर्वदा भावनमेव नमनम् । क्त्वाप्रत्ययेन भावनस्य ग्रन्थात्पूर्वकालत्वं द्योत्यते । निर्विघ्नमिति विघ्नाभावमित्यर्थः । क्रियाविशेषणे तु विघ्नाभावक्रियायां वैशिष्टयं न प्रतिपादयति । न च निपुणानां सर्वेषामपीयमुपयोगाय भवेदिति चेत्तत्राह-आयुर्वेदविदामिति । अष्टानहृदयवेदिनामित्यर्थः । एतेनैतदुक्तं-अष्टाङ्गहृदयवेदिनामेवात्राधिकारो न तु याहशतादृशाम् ॥ १॥ इदानी चिकित्सासखीत्युक्तं तत्र चिकित्सा विभजतेसा दैवी प्रथमा सुसंकृतरसैर्या निर्मिता सद्रसैशूर्णस्नेहकषायलेहरचिता स्यान्मानवी मध्यमा । शस्त्रच्छेदनलास्यलक्ष्मणकृताचाराधमा साऽऽसुरीत्यायुर्वेदरहस्यमेतदखिलं तिस्रश्चिकित्सा मताः ॥२॥ टी०-सुसंस्कृतरसैः सद्रसैर्या निर्मिता सा दैवी, सा प्रथमा । सद्रसाः ज्वराङ्कुशादयः। सुसंस्कृताः शुद्धिभस्मसत्त्वद्रुत्यादिभिः कर्मभिः, रसाः रसोपरसमहारससाधारणलोहमण्यादयो विद्यन्ते येषु ते, तैः । दैवी देवैर्महेश्वरादिभिरचिन्त्यप्रभावैर्योगिभिर्निर्मिता कथिता; सा प्रथमा उत्तमेत्यर्थः। मध्यमामाह-चूर्णस्नेहकषायलेहरचिता कथिता या सा मानवी; सा मध्यमा । चूर्ण क्षुण्णं द्रव्यं; स्नेहो घृततैलादिः; कषायो जलं, तेन च खरसादयो ग्राह्याः; लेहो गुडादिनिर्मितः पाकः, तेन गुटिकाऽपि संगृहीता; तै रचिता कृता या सा मानवी मनुष्यप्रोक्ता, सा मध्यमा न न्यूना नोत्तमा । हीनामाह-शस्त्रेत्यादि-शस्त्रच्छेदनलास्यलक्ष्मणकृताचाराधमा सा आसुरी सा अधमेत्यन्वयः। शस्त्राणि षड्विंशतिसंख्यानि तैः कृतानि छेदनादीनि कर्माणि तान्येव लास्यलक्ष्मणानि तैः कृतः आचारो यस्याः सा; आसुरी असुरैः प्रोक्ता शल्यतन्त्रविषया, सा चाधमा नीचेत्यर्थः । इति तिस्रश्चिकित्साः । एतदखिलमायुर्वेदरहस्यं तात्पर्यविषयीभूतं गोप्यमित्यर्थः ॥ २ ॥ इदानीमुद्देशसंगतिं द्योतयन् दैवी चिकित्सां प्रतिजानीतेतत्रादावभिधीयते बहुविधा दैवी चिकित्सात्र च प्राक्सत्पारदकर्म साङ्गममलं पश्चाच्च ते ते रसाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 144