Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 72
________________ रसपद्धतिः। स्पष्टं; तदुक्तम् ,-"सूतस्फटिकसिन्धूत्थखटिकाः क्रमवर्धिताः । ततधुळ्या चतुर्यामं शुभ्रं कर्पूरसुन्दरम्" इति । अत्र डमरुकायन्त्रेण पाकः । तच्च, “यत्रस्थाल्युपरि स्थाली न्युजां दत्त्वा निरोधयेत् । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम्" इति । अनेन कर्पूरतुल्यं भस्म उपरिभाण्डलग्नं गृहीत्वा पश्चात्कूपिकायामेतान्यौषधानि पुनर्दत्त्वा, चतुर्याममग्निं दत्त्वा ऊर्ध्व खोटो भवति । केचित्तु-“भागैकं नवसारटकणफणी कासीसकं तूवरी श्वेता गैरिकसैन्धवं लवण सर्वैः समं पारदम् । आकाशस्थितवल्लिराक्षसलतातोयैस्त्रिभिर्मदयेत्कूप्यां स्थाप्य निरोधयेच्छुभदिने यन्त्रे गतं पाचयेत् ॥ आदौ देद्याच मन्दं तदनु दृढतैर वेदसंख्यादिनान्ते पश्चाच्छीतं प्रकुर्यात् स्फटिकमणिनिभं जायते सूतभस्म"-इति ॥ ८४ ॥प्रकारान्तरमाहभागाः षट् तु रसस्य सिन्धुलवणात्सप्तैव सौराष्ट्रितस्तद्वन्द्वं च सुवर्णगैरिकभवा भागास्तथा विंशतिः ॥ ८५॥ एकीकृत्य रसेन मर्दितमिदं यत्रे तु विद्याधरे। कासीसं स्फटिका सुवर्णगिरिजा मृद्रञ्जिका मृत्तिका । वल्मीकप्रभा खटी च लवणं सिन्धोः समं हण्डिकायामास्थाप्य तदूर्ध्वतश्च विमलं फेनस्य मूषाद्वयम् ।। ८६॥ मध्येऽस्मैित्रसराजकं विनिहितं दत्वा तदूर्ध्व पुनमृत्नां तां परितो निरुध्य विमलं पात्रं मुखे मुद्रितम् । दद्याद्वासरसप्तकं दृढतरं वह्नि ततः शीतलं ग्राह्यं स्फाटिकसंनिभं रसवरं दद्याद्यथायोगतः ॥ ८७॥ अस्य प्रकारान्तरं तु-राजिकारसोनाभ्यां मूपाद्वयं कृत्वा, रसं निक्षिप्य, पूर्ववद्दो. लाखेदं कुर्यात् ; काकमाचीचित्रकत्रिफलारसमर्दितं, तत्पादतस्तदधै वा सैन्धवं दत्त्वा, निम्बूरसेन मर्दयिःवा, राजिकारसोनटकणनवसारतुत्थैस्तुषाम्बुना मर्दयित्वा, वटिकां कृत्वा, हिङ्गुना लेपयित्वा, स्थालीसंपुटे रुद्धा, लवणेन पूरयित्वा, तदुपरि स्थाली दत्त्वा, मुद्रां कृत्वा, अधोऽग्निमूर्ध्वस्थाल्यां जलं दत्त्वा, प्रहरत्रयमग्निं दद्यात् ; ऊर्ध्वलग्नं रसं गृहीत्वा,विषोपविषकषायेण मर्दयित्वा,त्रिकटुकक्षारराजीलवणपञ्चकनवसारटणं रसषोडशांशं दत्त्वा, मर्दयित्वा, पश्चाद्गन्धकजारणं कुर्यात् । कूपिकायन्त्रे इष्टिकायन्त्रेवा १ 'मलयज' इति पा०। २ 'कुर्यात्' इति पा०। ३ 'दृढहाँ' इति पा० । ४ 'समराजिकं' इति पा०। ५ 'पूर्व दोलास्वेदं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144