Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 142
________________ ३२ लोहसर्वस्वम् । सृतमिदं यदि वा सलिलप्लुतं घनपुटे परिपूतमनेकधा ॥ पुनरिदं मृदुपाकदशावशात्कठिनतां गतमेव विचूर्णयेत् ॥ अथ तदर्कसुवर्णघनायसां सममिदं ननु चूर्णमनेकधा ॥ कथितवीरतरादिवरीवराजलपरिप्लुतमातपशोषितम् ॥ ३०३ ॥ पुनरिदं परिचूर्णितमादरान्मधुघृतान्वितमेव निषेवितम् ॥ जयति शूलमथानलमार्दवं क्षयमुरःक्षतपाण्डुगुदाङ्कुरान् ॥ पञ्चामृतलोहम् । कनकभास्करताप्यघनायसां यदि रजस्त्रिफलाम्बुपरिप्लुतम् ॥ खरमयूखविशोषितशोषितं दलितमाज्य सितामधुयोजितम् ॥ हरति हृद्रुजमामसमीरणं क्षयमुदारमुरक्षतः पीनसम् ॥ प्रकुरुते रमणीरमणीयतां हृतहृदां सुहृदां रतिपाटवम् ॥ ३०६ ॥ षण्मुखलोहम् । दिनकराभ्रककाञ्चनपारदं सुरभि लोहरजश्च समांशकम् ॥ मृदुहुताशविलासवशीकृतं सघृतपुष्परसेन निषेवितम् ॥ हरति हजठरामयकामलाग्रहणिकामयमामसमीरणम् ॥ गुदजमेहमथानलमार्दवं रुधिरपित्तमसृग्दरमुद्धतम् ॥ ३०८ ॥ षडङ्गलोहम् । गगन ताप्यशिलाजतुकाश्चना दिनकरादयसश्च रजः समम् ॥ त्रिफला बहुभावितमाज्यवन्मधुयुतं विनिहन्त्यखिलान् गदान् सप्तायसम् । सुरभिभास्करलोहरसाभ्रकाः सजतुहेमसमुत्थरजः समम् ३१० वरुणकादिगण त्रिफलाजलस्त्रपितमातपशुष्कमनेकधा ॥ दलितमाज्यमधुप्लुतिमागतं हरति यक्ष्मगदं सपरिग्रहम् ॥ श्वसनशोथहृदामय पाण्डुताः कसनमेहमथ ग्रहणीगदम् ।। ३११॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 140 141 142 143 144