Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
हेमघनार्कम् । समुद्रपञ्चाङ्गजमत्र चूर्ण समं समं तेन च सोमराज्याः ॥ सर्वैः समं हेमघनार्कचूर्ण क्षौद्रेण लीढं विनिहन्ति कुष्ठम् ।।
पञ्चगर्भकम् । हेमार्कगन्धाश्मरसेन्द्रमेघाः समीकृता मन्दहुताशसिद्धाः ॥ मधुप्लुतेनाज्यलवेन लीढाः प्रोक्ताः समासादखिलामयनाः ।।
इति त्रिशः प्रयोगाः । इत्येते विविधमुनीन्द्रगीततत्रा
दुद्धृत्य प्रकटगिरा त्रिशः प्रयोगाः ॥ ज्ञानार्थ ननु गदिता सिषकसुतानां संक्षेपादिह भिषजा सुरेश्वरेण ॥ २९५ ॥
अथ सर्वशः प्रयोगाः।
___ चतुरङ्गलोहम्। मरिचभृङ्गतुरङ्गसमाह्वयात्रिफलजातिफलैललवङ्गतः ॥ छदननागनलातिवलाबलावरुणवारणवीरणतो रजः ॥२९६॥ सममनेन समश्च(?)समांशका जलदकाञ्चनलोहदिवाकराः॥ समसिता असिता अथ सेविताः कमिह रोगचयं न जयन्त्यमी॥
पञ्चाङ्गलोहम् । अथ जलप्लुतमद्रिजमायसे विनिहितं मृदितं धृतमातपे ॥ तदनु भानुमयूखविशोषणाधिसराभमुपस्थितमूर्धतः ॥२९८।। तदभिगृह्य खरांशुखराननादनु विशोष्य विशोष्य मुहुर्मुहुः॥ ज्वलितकजलकोज्वलमादराच्चपलधीर्विदधीत घनं रजः २९९ वदपरं पुनरन्यजलप्लुतं तपनतापवशाद्धनतां गतम् ॥ तदभिगृह्य च पूर्ववदर्यमखिषि विशोष्य तदप्यथ चूर्णयेत् ॥ इति पुनः पुनरत्र शिलोद्भवे विधिमुदारमतिर्विदधीत च ॥ भवति यावदिदं जलसङ्गमाद्विगतरोगपरिग्रहविग्रहम् ॥३०१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 139 140 141 142 143 144