Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
पञ्चसारम् ।
रसेन्द्र हेमानललोहगन्धकं समांशकं भृङ्गरसेन मूर्च्छितम् ॥ लौ पुटे सिद्धिमुपैत्यथाज्यवन्मधुप्लुतं पथ्यभुजा निषेवितम् ।। जयेज्वरं पाण्डुमदप्रमेहानष्टोदराशग्रहणीविकारान् | यक्ष्माणमुग्रं परिणामशूलं हृद्रोगमाध्मानमुरःक्षतं च ॥ २८४ ॥ अर्कहेमाम्बुदम् ।
उशीरपत्तङ्गकपद्मकेशरात्सचन्दनैर्वारुकवीजकेशरात् ॥ कृताञ्जलीदारुनिशाब्द कैरवाद्रसोऽतिसान्द्रः सकलं समांशकम् ॥ समार्कहेमाम्बुदसम्भवं रजः समांशमेतेन मधु प्रयोजितम् ॥ मुखाक्षिकर्णाद्भुदरोमकूपतः प्रवृत्तमत्रं हरतेऽतिवेगितम् ॥ २८६ ॥ अर्कलोहाभ्रकम् ।
विदारिखजूर्रदुरालभानां भृङ्गीशिवापिप्पलिगोस्तनीनाम् || ससारिवाणां तु रजः समानं समार्कलोहा अकचूर्णतुल्यम् ॥ निषेवितं साज्यमधु प्रगाढं यक्ष्माणमेवाशु निहन्ति सद्यः ॥ उरःक्षतं दुर्जयमग्निमान्द्यं पित्तास्रमर्शासि च रक्तजानि ॥
पञ्चाननम् ।
लोहाभ्रगन्धारुणपारदानां समं रजो वर्तुलपर्णिकायाः ॥ द्रवेण सिक्तं लघुना पुटेन प्रसाधितं क्षौद्रघृतावगाढम् ॥ निषेवितं तद्विधिना नराणां निहन्ति पाण्डूदरशोथमेहान् ॥ हलीमकं काम लयाऽतिसारमर्शासि कुष्ठानि च वह्निमान्धम् ॥ वारिदभानु हेमाः । कम्पिल्लपथ्याबिडशिग्रुबीजात्सवेतसाम्लाद्यवशूकजाच्च श्यामावचाशल्लकिजन्तुशत्रोस्तथा यवान्याः सममत्र चूर्णम् ॥ कर्षोन्मितं वारिदभानुमचूर्ण घृतेनान्वितमेव लीद्वा ॥ कदुष्णतोयेन जयेदवश्यमष्ठीलिकां गुल्ममथामवातान् ॥ २९२ ॥
||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144