SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । पञ्चसारम् । रसेन्द्र हेमानललोहगन्धकं समांशकं भृङ्गरसेन मूर्च्छितम् ॥ लौ पुटे सिद्धिमुपैत्यथाज्यवन्मधुप्लुतं पथ्यभुजा निषेवितम् ।। जयेज्वरं पाण्डुमदप्रमेहानष्टोदराशग्रहणीविकारान् | यक्ष्माणमुग्रं परिणामशूलं हृद्रोगमाध्मानमुरःक्षतं च ॥ २८४ ॥ अर्कहेमाम्बुदम् । उशीरपत्तङ्गकपद्मकेशरात्सचन्दनैर्वारुकवीजकेशरात् ॥ कृताञ्जलीदारुनिशाब्द कैरवाद्रसोऽतिसान्द्रः सकलं समांशकम् ॥ समार्कहेमाम्बुदसम्भवं रजः समांशमेतेन मधु प्रयोजितम् ॥ मुखाक्षिकर्णाद्भुदरोमकूपतः प्रवृत्तमत्रं हरतेऽतिवेगितम् ॥ २८६ ॥ अर्कलोहाभ्रकम् । विदारिखजूर्रदुरालभानां भृङ्गीशिवापिप्पलिगोस्तनीनाम् || ससारिवाणां तु रजः समानं समार्कलोहा अकचूर्णतुल्यम् ॥ निषेवितं साज्यमधु प्रगाढं यक्ष्माणमेवाशु निहन्ति सद्यः ॥ उरःक्षतं दुर्जयमग्निमान्द्यं पित्तास्रमर्शासि च रक्तजानि ॥ पञ्चाननम् । लोहाभ्रगन्धारुणपारदानां समं रजो वर्तुलपर्णिकायाः ॥ द्रवेण सिक्तं लघुना पुटेन प्रसाधितं क्षौद्रघृतावगाढम् ॥ निषेवितं तद्विधिना नराणां निहन्ति पाण्डूदरशोथमेहान् ॥ हलीमकं काम लयाऽतिसारमर्शासि कुष्ठानि च वह्निमान्धम् ॥ वारिदभानु हेमाः । कम्पिल्लपथ्याबिडशिग्रुबीजात्सवेतसाम्लाद्यवशूकजाच्च श्यामावचाशल्लकिजन्तुशत्रोस्तथा यवान्याः सममत्र चूर्णम् ॥ कर्षोन्मितं वारिदभानुमचूर्ण घृतेनान्वितमेव लीद्वा ॥ कदुष्णतोयेन जयेदवश्यमष्ठीलिकां गुल्ममथामवातान् ॥ २९२ ॥ || Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy