SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । अथ त्रिशो योगाः। ___हेमाम्बुदलोहम् । उशीरलोधोत्पलपद्मकेसरात् सचन्दनान्मोचरसेन युक्तात् । . प्रियङ्गुनागोत्पलतः समं रजः परिस्रुतं सूक्ष्मतरेण वाससा ॥ समानहेमाम्बुदलोहचूर्ण समीकृतं तेन मधुप्रलीढम् ॥ विलीढमाश्वेव निहन्ति रक्तपित्तं गुदातङ्कमसमभूतम् ॥२७५॥ द्वितीयं हेमाम्बुदलोहम् । वरानिशाक्षोदसमं समांशकं हेमाम्बुदायःप्रभवं रजश्च ॥ . क्षौद्रेण लीढं विनिहन्ति मेहान् ददाति पुष्टिं वपुषः श्रियं च ॥ पञ्चभद्रकम् । हेमाम्बुदायोभ्ररसेन काञ्चनं समं निवाते पुटितं लघीयसा ॥ पुटेन भृङ्गद्वयवारिणाऽऽप्लुतं जयेद्विलीढं मधुना ससर्पिषा ॥ गुदामयं पाण्डुगदं सकामलं प्रमेहमासि च ह्याममारुतम् ।। गदं ग्रहण्याः प्रदरास्रपित्तगदानतीसारमतीव दुस्तरम् ॥ हेमार्कलोहम् । तिरीटमोचोत्पलताम्रपुष्पीपाठासमङ्गाम्बुदवत्सकानाम् ॥ . समै रजोभिर्द्विगुणं समानहेमार्कलोहं मधुना प्रयोज्यम् ।। पीत्वा ततस्तण्डुलधावनाम्भो जयत्यतीसारमुदीर्णवेगम् ॥ प्रणष्टवहिं कुरुते प्रदीप्तं बलं वपुःकान्तिविवर्धनं च ॥ द्वितीयं हेमार्कलोहम्। वचाब्दपाठातिविषाविडङ्गगदानलग्रन्थिकवारिविश्वान् । समं रजस्तविगुणानि तुल्यहेमार्कलोहानि घृतेन लीद्वा ॥ पीत्वाऽनु कोष्णं जलमेव जह्याद्दोषं ग्रहण्या गुदकीलकांश्च ॥ प्राप्नोति वह्नि वपुषः प्रकर्षमुद्दामधामोपचयोपपनः ॥ २८२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy