Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
२८
लोहसर्वखम् ।
हेमायसम् । मागधीमधुककृष्णलोच्चटावस्तमोदकविदारिकारजः ॥ सान्द्रचूर्णितवयःस्थयान्वितं मुष्टिमानमखिलं पृथक् पृथक् ॥ हेममुष्टि कुडवोन्मितायसवर्णमाज्यमधुनान्वितं जयेत् ॥ स्थावरं विषमथापि जङ्गमं स्त्रीसहस्ररतमातनोति च ॥२६५।।
चतुर्भद्रम् । जातरूपरसगन्धकायसं तुल्यमग्निपुटितं लघौ पुटे ॥ कौकुभेन रजसा समीकृतं सर्पिषा सह विलीढमादरात् ॥ यक्ष्मकासमपहन्ति हद्रुजं रक्तपित्तगुदकीलपाण्डुताः ॥ श्वासपीनसमुरःक्षतारुचिप्लीहशूलमनलस्य मार्दवम् ॥ २६७ ॥
तपनायसम् । सिन्धुजन्ममिशिकेरलीरसाश्रेयसीदहनवारिदोषणात् ॥ चूर्णितात्पलमिहैकशोऽखिलैस्तुल्यभागतपनायसो रजः॥२६८॥ मिश्रितं द्विगुणभागसंमितं लीढमाज्यसहितं मिताशिनाम् ॥ कोष्णमम्बु पिवतोऽनु पायुजान् साममारुतरुजं निकृन्तति ॥
लोहभास्करम् । नीलनीरजसमुत्थकेशरात् पद्मकात् सह कसेरुकाद्रजः ॥ तुल्यमेभिरखिलैः समांशकं लोहभास्कररजः सितासमम् ।। तण्डुलोदमनुपायिनां नृणां रक्तपित्तमतिदारुणं जयेत् ॥ पायुजानि रुधिरात्मकानि वा यक्ष्मपीनसमसृग्दरं तथा ॥
चातुर्भद्रम् । सूतलोहदिननाथगन्धकं चारटीनिजरसेन भावितम् ॥ पूर्ववत्पुटविधानसाधितं त्र्युषणेन सह भक्षितं नरैः ॥२७१॥ पक्तिशूलमुदराणि कामलां शोथमामपवनातिसारकान् । वह्निमान्द्यमथ पायुकीलकं प्लीहगुल्ममपि नाशयेदिदम् ॥
इत्येते द्विकयोगा विविधौषधसिद्धयोजनया । उक्ताश्चात्र कियन्तो नानातत्रप्रमाणेन ॥ २७३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144