Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 136
________________ लोहसर्वस्वम् । गगनामृतम् । त्वग्दलैलकरिकेशरान्वितं व्योषतुल्यमथ वारिदायसम् ॥ चूर्णितं समसितं प्रयोजितं हन्ति पायुजमथानिमार्दवम् ॥ मगनार्कम् । कुष्ठचित्रकशिवायवानिकाविश्वपिप्पलीवचाः सशर्कराः ॥ पूर्ववद्धितविभागयोजितास्तत्समाभ्रकमथार्कजं रजः ॥२४४॥ साज्यमेतदवलीढमादरात् कोष्णतोयमनुपायिनोचिरात् ॥ हन्ति कोष्ठगतवायुजान् गदानग्निमान्धमथ पायुजानपि । चतुःसमकम् । सूतगन्धकदिवाकराम्बुदास्तुल्यभागमिलिता लघौ पुटे ॥ साधितात्रिकटुशङ्खभसना तुल्यभागमिलितेन संस्थिताः ॥ योजिता घृतलवेन मर्दिताः कोष्णमम्बु पिबतोऽनु पायुजान् । नन्ति वहिजडतातिसारकं पक्तिशूलमथ साममारुतम् ॥२४७॥ व्योममार्तण्डः। तुल्यवारिददिवाकरं समं त्र्यपणेन सफलत्रिकेण च ॥ तुल्यभागमिलितेन सर्पिषा लीढमेतदपहन्ति पायुजान् ॥ कनकाम्बुदम् । जीवनीयधनवंशसेव्यकं तुल्यभागमधुना समीकृतम् ॥ तुल्यवारिदसुवर्णजं रजः साज्यमाक्षिकलवेन मर्दितम् ॥ लीढमाशु कुरुतेऽङ्गबृंहणं रोगराजमुरसः क्षतं जयेत् ।। रक्तपित्तमथ पीनसं भ्रमं वर्णहानिमवलं च पावकम् ॥ चतुर्भुजम् । सूतकाम्बुदसुवर्णगन्धकं साधितं लघुपुटाग्निना समम् ॥ योजितं गवरासमीकृतं क्षौद्रलीढमखिलान् गदान जयेत् ॥ हेमाम्बुदम् । त्र्यूषणाम्बुकरिकेशरत्वचां तुल्यभागरजसा समीकृतम् ॥ हेमवारिदरजो मधुप्लुतं लीढमग्निजडतां तनोस्तथा ॥ २५३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144