Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
प्रयोगामृतम् । मध्वाज्यलीढं कनकस्स चूर्ण करोति मेधां वचया नराणाम् ।। वयास्थिरत्वं खलु शङ्खपुष्प्या तनुश्रियं वारिजकेसरण ॥२२६॥
. हेमनवकम् । नवायसायःक्रियया प्रयुक्तं पाण्ड्वामयार्थीग्रहणीविकारान् ।। नानाविषं स्थावरजङ्गमाख्यं क्षिणोति गुल्मानुदराणि शोथम् ॥
मृत्युञ्जयम् । गायत्रिकामन्त्रितमामलक्या रसेन लीढं कनकस्य चूर्णम् ॥ धात्रीरजस्तुल्यमिदं नराणां रिष्टं समुत्पन्नमपाकरोति ॥२२८॥
त्रिशक्तिकाञ्चनम् । विशुद्धगन्धाश्मपलं पलं रसात्
पलं तथा मारितशुद्धकाञ्चनात् ॥ पुटेन वह्नौ पुटितं कनीयसा
क्षौद्रेण साज्येन यथाग्नि भक्षितम् ॥ २२९ ॥ जयेद्रहण्यामयमाशु घोर
मस्थितीसारमुरःक्षतं च ॥ क्षयं ससैन्यं जठरं प्रवृद्धं गुल्मान् प्रमेहानथ वह्निमान्धम् ॥ २३०॥
पौष्टिकम् । सुवर्णचूर्णात्पलमश्वगन्धारजः समानं हविषा विलीढम् ॥ तनोति पुष्टिं वपुषः सकान्तिं बलं तथाऽऽयुर्गदनाशनं च ॥
सिद्धरसायनम् । सुवर्णचूर्ण मधुकृष्णमोचाद्रवेण लीढं च पयोनुपानम् ॥ करोति पुष्टिं बलमिन्द्रियाणां जयेदवश्यं पलितं वली च ॥ ..
त्रिफलाकम् । अथाभस त्रिफलाभवेन चूर्णेन तुल्यं मधुशर्कराभ्याम् ॥ लीढं जयत्युल्बणमम्लपित्तं हुताशमान्धं ग्रहणीविकारम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144