SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । प्रयोगामृतम् । मध्वाज्यलीढं कनकस्स चूर्ण करोति मेधां वचया नराणाम् ।। वयास्थिरत्वं खलु शङ्खपुष्प्या तनुश्रियं वारिजकेसरण ॥२२६॥ . हेमनवकम् । नवायसायःक्रियया प्रयुक्तं पाण्ड्वामयार्थीग्रहणीविकारान् ।। नानाविषं स्थावरजङ्गमाख्यं क्षिणोति गुल्मानुदराणि शोथम् ॥ मृत्युञ्जयम् । गायत्रिकामन्त्रितमामलक्या रसेन लीढं कनकस्य चूर्णम् ॥ धात्रीरजस्तुल्यमिदं नराणां रिष्टं समुत्पन्नमपाकरोति ॥२२८॥ त्रिशक्तिकाञ्चनम् । विशुद्धगन्धाश्मपलं पलं रसात् पलं तथा मारितशुद्धकाञ्चनात् ॥ पुटेन वह्नौ पुटितं कनीयसा क्षौद्रेण साज्येन यथाग्नि भक्षितम् ॥ २२९ ॥ जयेद्रहण्यामयमाशु घोर मस्थितीसारमुरःक्षतं च ॥ क्षयं ससैन्यं जठरं प्रवृद्धं गुल्मान् प्रमेहानथ वह्निमान्धम् ॥ २३०॥ पौष्टिकम् । सुवर्णचूर्णात्पलमश्वगन्धारजः समानं हविषा विलीढम् ॥ तनोति पुष्टिं वपुषः सकान्तिं बलं तथाऽऽयुर्गदनाशनं च ॥ सिद्धरसायनम् । सुवर्णचूर्ण मधुकृष्णमोचाद्रवेण लीढं च पयोनुपानम् ॥ करोति पुष्टिं बलमिन्द्रियाणां जयेदवश्यं पलितं वली च ॥ .. त्रिफलाकम् । अथाभस त्रिफलाभवेन चूर्णेन तुल्यं मधुशर्कराभ्याम् ॥ लीढं जयत्युल्बणमम्लपित्तं हुताशमान्धं ग्रहणीविकारम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy